कलुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलुषम्, क्ली, (कं सुखं लुषति हिनस्ति । क + लुष् + अण् । यद्वा कल् + “पॄनहिकलिभ्य उषच्” । उणां ४ । ७५ । इति उषच् ।) पापम् । इत्यमरः । १ । ४ । २८ ॥ (यथा शङ्करार्य्यकृतात्मबोधे ५ । “अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्म्मलम् । कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत्” ॥ मालिन्यं यथा ऋतुसंहारे । ३ । २३ । “विगतकलुषमम्भः शालिपक्वा धरित्री । विमलकिरणचन्द्रं व्योम ताराविचित्रम्” ॥)

कलुषः, पुं, स्त्री, (कस्य जलस्य लुषः हिंसकः । आ विलकारक इत्यर्थः । क + लुष् + क ।) महिषः । इति राजनिर्घण्टः ॥ (बद्धः । यथा शकुन्तलायां “कण्ठः स्तम्भितवाष्पवृत्तिकलुषः” ॥ निन्दितः । यथा मनुः १ । ५७ । “वर्णापेतमविज्ञातं नरं कलुषयोनिजम्” ॥)

कलुषः, त्रि, (कल् + उषच् ।) अनच्छः । आविलः । इत्यमरः । १ । १० । १४ ॥ (“निर्भुग्नकलुषे नेत्रे” इति सुश्रुते उत्तरतन्त्रे । ३१ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलुष नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।2।1

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

कलुष वि।

मलिनजलम्

समानार्थक:कलुष,अनच्छ,आविल

1।10।14।2।3

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु। त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलुष¦ mfn. (-षः-षा-षं)
1. Turbid, foul, muddy.
2. Wicked, bad. mf. (-षः-षी) A buffalo. n. (-षं)
1. Sin.
2. Wrath. E. कल् to go, &c. उषन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलुष [kaluṣa], a. [कल्-उषच् Uṇ.4.75]

Turbid, dirty, muddy, foul; गङ्गारोधःपतनकलुषा गृह्णतीव प्रसादम् V.1.9; Ki.8.32; Ghat.13;

Choked, hoarse, husky; कण्ठः स्तम्भितबाष्प- वृत्तिकलुषः Ś.4.6.

Bedimmed; full of; Ś.6.9.

Angry, displeased, excited; U.3.13; भावावबोधकलुषा दयितेव रात्रौ R.5.64 (Malli. takes कलुष to mean 'unable', 'incompetent').

Wicked, sinful, bad.

Cruel, censurable; त्वां प्रत्यकस्मात्कलुषप्रवृत्तौ R.14.73.

Dark, opaque.

Idle, lazy.

Perverted; ˚भूतायां वुद्धौ Pt.3.185; कालुष्यमुपयाति बुद्धिः &c. -षः A buffalo.

षम् Dirt filth, mud; विगतकलुषमम्भः Ṛs.3.22.

Sin; कलुषेणाद्य महता मेदिनी परिमुच्यताम् Rām.2.96.27.

Wrath.-Comp. -मानस a. evil-minded; अथाब्रवीत्सुतान् कद्रूर्नागान् कलुषमानसा Bm.1.11 -योनिज a. illegitimate, of impure origin; Ms.1.57,58.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलुष mf( आ)n. (3. कल्Un2. iv , 75 ), turbid , foul , muddy , impure , dirty( lit. and fig. ) Mn. Sus3r. Katha1s. etc.

कलुष mf( आ)n. hoarse (as the voice) S3ak.

कलुष mf( आ)n. ( ifc. )unable , not equal to Ragh. v , 64

कलुष m. a buffalo L.

कलुष m. a sort of snake Sus3r.

कलुष n. foulness , turbidness , dirt , impurity( lit. and fig. ) MBh. R. etc.

कलुष n. sin , wrath L.

"https://sa.wiktionary.org/w/index.php?title=कलुष&oldid=495395" इत्यस्माद् प्रतिप्राप्तम्