कल्पः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पः, पुं, (कल्प्यते विधीयते असौ । कृप् + कर्म्मणि घञ् ।) विधिः । (यथा मनुः ३ । १४७ । “एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः” ॥ (कल्पयति सृष्टिं नाशं वा अत्र । कृप् + णिच् + अधिकरणे अप् ।) प्रलयः । (“युगानां सप्ततिः सैकामन्वन्तरमिहोच्यते” । “कृताब्दसंख्यस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः” ॥ “ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश । कृतप्रमाणकल्पादौ सन्धिः पञ्चदशस्मृतः” ॥ ते एकसप्ततियुगरूपा मनवः सायम्भुवाद्याः सस- न्धयः स्वस्वसन्धिसहिताः कल्पकाले ज्ञातव्याः । ससन्धियुक्तचतुर्द्दशसनुभिः कल्पो भवेदित्यर्थः । इति सूर्य्यसिद्धान्तोक्तकल्पपरिमाणम् ॥ आका- लिकनैमित्तिकदैनन्दिनमहाप्रलयानां विवृतिस्तु ततच्छब्दे द्रष्टव्यम् ॥ * ॥

"https://sa.wiktionary.org/w/index.php?title=कल्पः&oldid=125368" इत्यस्माद् प्रतिप्राप्तम्