कल्पना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पना, स्त्री, (कृप् + णिच् + भावे युच् टाप् ।) हस्तिसज्जना । नायकस्यारोहणार्थं गजसज्जी- करणम् । इत्यमरः । २ । ८ । ४२ ॥ अनुमितिः । इति न्यायशास्त्रम् ॥ रचना । यथा “प्रबन्ध- कल्पना कथा” । इत्यमरः । १ । ६ । ६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पना स्त्री।

गजसज्जीकरणम्

समानार्थक:कल्पना,सज्जना

2।8।42।1।4

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे। प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पना¦ स्त्री कृप--णिच्--भावे युच्।

१ रचनायाम्
“उद्धा-रेऽनुद्धृते तेषामियं स्यादं शकल्पना” मनुः
“प्रबन्धकल्पनाकथा” अम॰

२ विधाने

३ आरोहणाय गजसज्जीकरणे हेम॰
“सकल्पनं द्विरदगणं वरूथिनः” माघः।

४ व्यतिरेकव्याप्ति-ज्ञानाधीने अनुमानभेदे नैया॰

५ अर्थापत्तिरूपे प्रमाणा-ऽन्तरे मीमांसकावेदान्तिनश्चाहुः। आरोपश्चाविद्य-मानपदार्थस्य अन्यत्र स्थितस्य अन्यत्र प्रतिभासरूपःमानसव्यापारः।
“कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्वि-कल्पकम्” सर्व्वद॰ स॰। यथा रज्जौ सर्पकल्पना। वेदान्तिमते एवं प्रपञ्चस्य ब्रह्मणि कल्पनारूप आरोपः। [Page1820-b+ 38]
“चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपास-कानां सिद्ध्यर्थं ब्रह्मणोरूपकल्पना”। निराकारस्यसाकरतया जगदाकारेणारोपोऽपि कल्पनैव स चा-ध्यासशब्दे उक्तः। तदेतत् मुक्ताफले तट्टीकायां चनिर्ण्णीतं यथा-(
“अहमेवासमेवाग्रे नान्यद्यत् सदसत् परम्। पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्” मुक्ताफ॰।
“अहमेवेति कर्त्रन्तरस्य व्यावृत्तिः आसमेवेति क्रिया-न्तरस्य। अग्रे मायासम्बन्धादहमेव त्रिधा विभक्त इत्यर्थः,पश्चान्मायावियोगादनन्तरमप्यहमेव प्रपञ्चस्यादि-मध्यावसानेष्वहमित्यर्थः। यच्चैतत् प्रपञ्चरूपं तदप्यहंनान्यत्र सिद्धं मय्यारोपितं यथाऽ न्यत्र सिद्धः सर्पोरज्जौएवं विवेचनात् भ्रमे निवृत्ते योऽवशिष्येत सोऽहमस्मिइदन्तया स्वरूपस्य निर्देष्टुमशक्यत्वादेवमुच्यते। एतेन यथाकटकादिष्ववस्थात्रयेऽपि सुवर्णत्वमेव सत्यम्। तथा जगदा-दिमध्यान्तेष्वनुष्यूतं सत्तामात्रं भगवत्स्वरूपमिति लक्षणार्थइत्युक्तं, न तावदस्यासम्भवः
“सदेव सोम्येदम्” इत्यादि-श्रुतिसिद्धत्वात्। न च कालाकाशादिष्वतिव्याप्तिः तदुत्-पत्तेः श्रुतत्वात् विमतमनित्यं बाध्यत्वात् शुक्तिरूप्यवदित्यनु-मानाच्च। नापि साकारेषु चतुर्ष्वव्याप्तिः तेषामाकारति-रोहितत्वात् तस्मान्निर्दोषं लक्षणम्। एवं सामान्यलक्षण-मुक्त्वा विशेषाल्लक्षयितुमाह” टी॰
“स द्वेधा निराकारः साका-रश्च अनवच्छिन्नं चैतन्यं निराकारः, सत्वावच्छिन्नं चैतन्यंसाकारः। स चतुर्धा रजस्तमोभ्यां युक्ते सत्वे पुरुषः

१ रजसा ब्रह्मा

२ तमसा रुद्रः

३ शुद्धे विष्णुरेव

४ ” मुक्ता॰।
“स द्वेधेति द्वेधात्वमेवाह निरेति अनवच्छिन्ने वस्तुन्यव-च्छेदक उपाधिराकारः तेन रहितो निराकारः तत्-सहितोऽन्यः। तत्राद्यं लक्षयति
“अनवच्छिन्नमिति। द्वितीयं लक्षयति सत्वेति। अस्यैव भेदानाह सचेति सः साकारः। तदाद्यं भेदमाह रजस्तमोभ्यामिति। तुल्याभ्यां रजस्तमोभ्यां युक्ते सत्वे प्रतिफलितं चैतन्यंपुरुषशब्दार्थं इति पूरंणीयम्। एवमुत्तरत्र रजस्तमोभ्या-मिति तृतीयया तयोरप्राधान्थ”
“सहयुक्ते चाप्रधाने” (पा॰)इति स्मरणात् तेन पुरुषे सत्वं बहुलं, रजस्तमश्च तदपेक्ष-वा न्यूनमित्यर्थः। न तु त्रीणि समान्येव त्रिसाम्यस्यप्रकृतिलक्षणत्वात्, स्तोकाधिकभावश्चैषां कार्य्य गम्यो न तुमासादिमूर्त्तद्रव्यवत् प्रत्यक्षः। युक्तग्रहणं द्वयोर्वर्त्तते, सत्व-ग्रहणं त्रिषु। द्वितीयं भेदमाह रजसेति। रजसा यक्ते सत्वे[Page1821-a+ 38] ब्रह्मा। अत्र च मात्रया विद्यमानमपि तमो रजसःप्राधान्य वक्तुं नोक्तम् नतु तन्नास्त्येव तत्कार्य्यस्योप-लम्भात् तृतीया तु प्राग्वत् तेन ब्रह्मणि तमस्तोकं तद-पेक्षया रजः प्रभूतमित्यर्थः। रजसः प्रागुक्तिः सत्वापेक्षयाहेयत्वात् तुर्यप्रकरणानुरोधाच्च तृतीयं भेदमाह तमसेति। अत्र रजोमात्रानुरोधादिकं प्राग्वत्। चतुर्थमाहशुद्धेविष्णु-रेवेति शुद्धे रजस्तमोभ्यामस्पृष्टे सत्वे विष्णुरेव विष्णुसंज्ञैवक्रियते न तु तत्रावन्तरवत्संज्ञान्तरमित्येवशब्दार्थः। तथाहि
“तमेनं विशुद्धोर्जितसत्वाकारं सदाशिव” इत्याचक्षते” शैवाः। पशुपतिरिति पाशुपताः। पुरुषोत्तम इति पाञ्चरात्राः। आदिविद्वान् सिद्ध इति कापिलाः। ईश्वर इति षात-ञ्जलाः। इह तु तस्य विष्णुसंज्ञैव। यद्वा विष्णुं पञ्चात्मकमित्यत्र पञ्चानामपि विष्णुसंज्ञामुक्त्वा चतुर्णां संज्ञा-न्तरमप्युक्तम्। शुद्धसत्वोपाधिस्तु विष्णुसंज्ञ एवेत्येपशब्दार्थः। ते च ब्रह्मविष्णुरुद्राः प्रत्येकम् आधिदैविकादिभेदात् त्रेधाविष्णुरेव” टो॰
“अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणःसत्वम्, गोचरस्य बहुरूपत्वे रजः, बहुरूपस्य तिरोहित-त्वे तमः। तथा परस्परमुदासीनत्वे सत्वम्” मुक्ता॰।
“एवमुपाधिसंभेदात् पञ्चरूपतामुक्त्वा इदानीमननु-संहितोपाधेरुपहितप्रत्ययायोगादुपाधीन् लक्षयतिअगोचरस्येति। अगोचरस्य अविषयभूतस्य वस्तुनोगोचरत्वेविषयीभावे हेतुर्यः प्रकृतिगुणः तत् सत्वमित्यर्थः। हेतुः प्रकृतिगुणैत्युत्तरत्र पञ्चस्वनुवर्त्तते। गोचरस्य सतो-यत्सम्बन्धान्नानात्वं तद्रजः। तस्यैव तिरोहितत्वे का-रणात्मनावस्थाने हेतुस्तमः इत्यर्थः। विनाशे इत्यनुक्त्वासत्कार्य्यपक्षाश्रयणात्तिरोहितत्वे इत्युक्तम्। एवमाधि-दैविकोपाधिस्वरूपमुक्त्वा आध्यात्मिकोपाधिस्वरूपमाहतथेति। अयमर्थः--परस्परमुदासीनमित्रद्विषत्सु उदासीनत्वेहेतुः सत्वम् इति” टी॰
“गोचरत्वे सत्वम्, उपकारित्वेरजः, अपकारित्वे तमः। गोचरत्वादीनि, स्थितिसृष्टिसं-हाराः” मुक्ता॰।
“आधिदैविकाध्यात्मिकोपाधिलक्षणादा-धिभूतोपाधिस्वरूपमपि लक्षितं येन हि एकस्मिन्वस्तुनि द्विरूपोविच्छेदः असावाधिभौतिकः तदुक्तम्
“योध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः। यस्त्रत्रोभयविच्छेदः स स्मृतोह्याधिभौतिकः”। उक्तान्गोचरत्वादीन् उपाधीनुन्मीलयितुमाह गोचरत्यादीनीति। गोचरत्वबहुरूपत्वतिरोहितत्वानि क्रमात् स्थित्यादिशब्दैरुच्यन्त इत्यर्थः। न चैवं सृष्ट्यनन्तरस्थितिरिति विरु-[Page1821-b+ 38] द्धत्वं शङ्क्यं स्थितिपूर्वकत्वात् सृष्टेः। स्थिता हि मृदा-दयोघटाद्यात्मना सृज्यन्ते नास्थिता इति अतएवोक्तं
“सत्वं त्रिलोकम्थितये स्वमायया विभर्षि शुक्लं खलु वर्णमा-त्मनः। स्वर्गाय रक्तं रजसोपसंहितं कृष्णं च वर्णंतमसा जनात्यये” इति टी॰
“उदासीनत्वादीनि च” मुक्ता॰।
“एवमाध्यात्मिकेष्वपीत्याह उदासीनेति। अयमर्थःयदिदं चैत्रादेरुपकारापकारवैधुर्य्येणावस्थानं सा स्थितिः। उपकारकत्वेन सृष्टिः। अपकारकत्वेन तु संहारः। ततश्चजगत्स्थित्यादिहेतव आधिदैविकाः, अन्ये त्वाध्यात्मिकाः। सुरनरादयः अवताराश्च सर्वे विना कृष्णम्, स तु पुरुषःत्रिविक्रमावतारत्वात् यथोक्तम्
“तयोर्वां पुनरेवाहमदित्या-मास कश्यपात्। उपेन्द्र इति विख्यातो वामनत्वाच्चवामनः” (भाग॰) इति। अत एव तत्र तत्र विश्वरूपप्रकटनंपूर्वावतारदेशवात्सल्यञ्च। दृश्यते चाद्यापि कुशस्थलीमूर्त्तौत्रैविक्रमचिह्नं कृष्णव्यपदेशश्च। अतएव प्रह्रादसंहितायांद्वारकामाहात्म्ये तृतीये अध्याये वैकुण्ठमलङ्करिष्यताभगवता सकलं निजं तेजस्तस्यां मूर्त्तौ विन्य-खमिति दर्शितम्। तथा हि
“यत्र त्रैविक्रमीमूर्त्तिर्वहते यत्र गोमती। नरा मुक्तिं प्रयास्यन्ति चक्र-तीर्थेन संगताः। कलेवरं परित्यक्तं प्रभासे हरिणातदा। कलाभिः सहितं तेजस्तस्यां मूर्त्तौ निवेशितम्। तस्मात् कलियुगे विप्रा! नान्यत्र प्राप्यते हरिः। यदिकार्यं हि कृष्णेन तत्र गच्छत मा चिरम्” इति। तथा
“आदौ त्रिविक्रम इति ख्यातिरासीन्महीतले। कृष्णस्यतु कलान्यासात् कृष्ण इत्यभिधीयत” इति। यत्तु सत्वंविशुद्धमित्यादिना शुद्धसत्वतासंकीर्त्तनं त्तत् सत्वम्यस्त्व-विषयं, न तु यथाश्रुतमेव गुणान्तरकाय्यस्याप्युपल-म्भात् तत्र तदसत्यमन्यत्र तु वास्तवमिति तु भक्ति-मात्रं तस्मात् पुरुष एवायमिति सन्तोष्टव्यं निष्क्रष्टव्यंचेदमुपरिष्टात्। यथा चैता ब्रह्मादिमूर्त्तयोगुणमूलाः तथाहास्यादयोरसाश्च तन्मूला एवेत्युपरिष्टात् प्रवेदयिष्यामः। किं बहुना तत्त्रितयतारतम्यवैचित्र्याक्रान्तमिदं विश्वंतदुक्तं
“न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैरिति” टी॰
“तेषु विष्णुब्रह्मरुद्रा निमित्तं पुरुष उपादानं गोचरत्वेतु चैतन्यम्, एव पञ्च भेदाः तत्र निराकारः” मुक्ता॰। एवमुपाधिस्वरूपं निर्धार्योपहितेषु संख्यायिशेषस्यो-पयोगमाह तेष्विति” तेषु स्थितिसृष्टिसंहारेषु विष्णु-[Page1822-a+ 38] दयः क्रमान् निमित्तम् कुलाल इव घटस्य, पुरुष उपा-दानं समवायिकारणं घटस्येव मृत्, दृष्टा च कारणद्वय-पूर्विका कार्य्यप्रवृत्तिः असमवायिकारणं तु निमित्तान्तर्गत-मेवेति पृथङ्नोक्तम्। अतएव
“अन्वयादितरतश्चेति” भाग॰ प्रथमश्लोके द्वयमेवोपात्तम्। गोचरत्वे प्रतीतिविष-यत्वे तु निर्विशेषचैतन्यं हेतुः
“तस्य भासा सर्वमिदं विभा-तीति” श्रुतेः। तत्र स्थित्यादिनिमित्तार्थं त्रयः, उपादानार्थंचैकः गोचरत्वार्थमन्यश्चेति
“विष्णुं पञ्चात्मकम् इत्यत्र पञ्चै-वोक्ता न न्यूनाधिका इत्यभिप्रेत्याह एवमिति। नचैवमेकःसामान्यात्मा विशेषरूपाश्च पञ्चेति षट्कमाशङ्क्यं विशेष-परिहारे सामान्यस्यानवस्थानात् एवं तावत् पञ्च वस्तूनिस्वयं लक्षयित्वा तदेव ग्रन्थान्तरानुरूपेण लक्षणेन द्रढयितु-माह तत्रेति। निराकार इति निराकारस्य लक्षणं कथ्यतइत्यर्थः” टी॰।
“न यत्र कालोऽनिमिषां परः प्रभुःकुतो नु देवा जगतां य ईशिरे। न यत्र सत्वं न रज-स्तमश्च न वै विकारो न महान् प्रधानम्। परं पदं वैष्णवमा-मनन्ति तत् यत्र नेतीत्यतदुत्सिसृक्षवः। विसृज्य दौरात्म्य-मनन्यसौहृदाहृदोपगुह्यार्हपदं पदे पदे” (भाग॰) मुक्ता॰।
“तत्रापि न यत्रेति तटस्थस्य, परं पदमिति स्वरूपस्य। तत् परं पदं वैष्णवम् आमनन्ति विष्णुनाधिष्ठितं अघि-कृताधिष्ठितेन राज्ञाधिष्ठितवत् ब्रह्मादिपदानामपिविष्णुनाऽधिष्ठितत्वात् परमित्युक्तं विष्णुनैवाधिष्ठित-मित्यर्थः। यत्र पदे कालोनास्ति यः अनिमिषां ब्रह्मादीनांपरः प्रभुः सहर्त्ता महाप्रलयेऽपि नाशोनास्त्येवेत्यर्थः। अतएव कालाभावे किंपुनर्न्यायेन देवा अपि तत्र न सन्ती-त्याह कुतोन्विति। तथा देवाभावे जीवा अपि न सन्तीत्याहजगतामिति। ये देवा जगताम् उच्चावचां गतिं गच्छतांजीवानामीशाः तेषां का वार्त्ता? तत्कृतविघ्नगन्धोऽपिनास्तीत्याह ईशिरे इत्यनित्यत्वद्योतनार्थं लिट्प्रयोगः। यत्र च पदे सत्वादिर्नास्ति सत्वमिन्द्रियदेवतारूपं,रज इन्द्रियम्,। तम इन्द्रियार्थरूपं, विकारोऽहङ्कारस्तेषांत्रयाणां कारणं महान् बुद्धितत्त्वं तदहङ्कारस्य प्रधानमव्यक्तं तन्महतः। सत्वाद्यभावादेतत् प्राप्तवतां पुनर्जन्मा-दिशङ्कावीजलेशोऽपि नास्तीत्यर्थः। एवं दुःखं नास्तीत्युक्त्वासु-खमस्तीत्याह यत्रेतीति। यत् विष्णुपदं हृदा मनसा उपगुह्याश्लिष्य अनन्यसौहृदाभवन्ति अन्यत्र विषये प्रीतिं परित्यजन्तितादृक्सुखाभावात् तद्धि पदे पदे क्षणे क्षणे अर्हपदंअर्हणस्य आदरस्य स्थानम् उत्तरोत्तरचमत्करणीय-[Page1822-b+ 38] त्वात् दोरात्म्यं विसृज्य अनादिदुर्वासनावासितत्वत्यक्त्वा विषयान्तरस्मृतिरपि नास्तीत्यर्थः नेति नेतीत्यु-पनिषदुपदेशविश्वासबलात् अतत् विष्णुपदादन्यत्उत्सिसृक्षवः स्वेच्छयैवोत्सृष्टवन्तः। नित्यनिरतिशय-सुखानुभवरूपे विष्णुपदे अनुभविता अनुभवनं अनुभवनीय इति कर्त्तृकरणकर्माणि अतच्छब्देनीच्यन्तेतानि ह्यनुभवार्थमुपादीयन्ते सत्यनुभवे तु त्यज्यन्त असत्य-त्वादन्तरायत्वाच्च” टी॰
“इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञा-नदृग्वीर्य्यसुरन्धिताशयः”। पुरुषः--
“भूतैर्यदा पञ्चभिरात्म-सृष्टैः पुरं विराजं विरचय्य तस्मिन्। स्वांशेन विष्टः पुरुषा-मिधानमवाप नारायण आदिदेवः” (भाग॰)मुक्ता॰।
“एव-मस्य द्विविधलक्षणमुक्त्वा अत्राधिकारिणम्हाह इत्थमिति। इत्थं व्यवस्थितः अनेन प्रकारेण विशिष्टामवस्थामापन्नोमुनिरुपरमेत् न किञ्चित् कुर्य्यात् यतोविज्ञानस्यविशुद्धज्ञानरूपस्य विष्णोर्दृक् दर्शनं साक्षात्कारः तस्यवीर्य्यं बलं तेन सुरन्धितो यथा पुनर्नोदेति तथा हिंसितःआशयोजीवत्वोपाधिर्य्येन स तथा। अयमर्थः वक्ष्यमाणभूमिकोपासनाक्रमबलात् सत्वपुरुषान्यताख्यातिमापन्न-स्तामपि सायुज्यार्थी निरोद्धुकाम इत्येतामवस्थामा-पन्नो मुनिरत्राधिक्रियते नान्यः। अवश्यञ्चाधिकारि-निर्धारार्थं इत्थमित्यादि ज्ञेयम् अन्यथास्योद्धरणं निः-प्रयोजनं स्यात्। इति शुकः राजानं प्रति पुरुषलक्षण-माह। भूतैरित्यादि। आत्मसृष्टैः आत्मना प्रकृति-मधिष्ठाय सृष्टैः पुरं देहं विराजं ब्रह्माण्डं विरचय्यनिष्पाद्य तस्मिन् स्वांशेन जीवकलया यदा प्रविष्टःतदा पुरुषसंज्ञामवाप पुरि शयनाद्वसनाद्वा पुरुषः अनं-शेऽप्यंशोक्तिः कल्पनया। नारायणः जलशायी आदिदेवोनिराकारः” टी॰। मुक्ताफलस्थाः श्लोकास्तु भागवतीयाः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पना f. making , manufacturing , preparing Sus3r. BhP.

कल्पना f. practice Car.

कल्पना f. fixing , settling , arranging Mn. ix , 116 Ya1jn5.

कल्पना f. creating in the mind , feigning , assuming anything to be real , fiction KapS. etc.

कल्पना f. hypothesis Nya1yam.

कल्पना f. caparisoning an elephant Das3.

कल्पना f. form , shape , image

कल्पना f. a deed , work , act Mr2icch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mindborn mother. M. १७९. २५.

"https://sa.wiktionary.org/w/index.php?title=कल्पना&oldid=495412" इत्यस्माद् प्रतिप्राप्तम्