कल्याणवाचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणवाचन¦ न॰

६ त॰। शास्त्रविहितकर्त्तव्यकर्म्मणः प्राक्-कर्त्तव्ये ब्राह्मणादिद्वारा कल्याणयुक्तमन्त्रविशेषवाचने। तत्प्रकारोयथा
“ओं श्वः कर्त्तव्येऽस्मित् कर्मणि कल्याणंभवन्तोऽघिब्रुवन्तुं इति प्रार्थिते ब्राह्मणैः
“ओं कल्याणम्” [Page1829-b+ 38] इति त्रिरुक्ते
“ओं पृथिव्यामुद्धृतायान्तु यत् कल्याणंपुरा कृतम्। ऋषिभिः सिद्धगन्धर्व्वैस्तत् कल्याणं सदास्तुनः” इतिय थेमामित्यस्य लौगाक्षिरृविस्नुष्टुप्छन्दो ब्रह्मादेवता कल्याणवाचने विनियोग इति स्मृत्वा
“ओं यथे-मां वाचं कल्याणीमावदानि जनेभ्यः ब्रह्मराजन्याभ्यांशूद्राय चार्य्याय च स्वाय चारणाय च प्रियोदेवानांदक्षिणायै दातुरिह भूयासमयं मे कामः समृध्यतामुप-मादो नमतु” यजु॰

२९ ,

२ , इति च पठेत्।

"https://sa.wiktionary.org/w/index.php?title=कल्याणवाचन&oldid=267567" इत्यस्माद् प्रतिप्राप्तम्