कवर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवरम्, त्रि, (के मस्तके वरं शोभमानत्वात् श्रेष्ठम् ।) केशपाशः । इत्यमरटीका ॥ (यथा भागवते ५ । २ । ७ । “वल्गुस्पन्दनस्तनकलशकवरभार- रशनां देवीम्” ॥) संपृक्तम् । खचितम् । इति हलायुधः ॥

कवरः, पुं, क्ली, (कं जलं वृणोति । क + वृ + अच् ।) लवणः । अम्लः । इति मेदिनी हेमचन्द्रश्च ॥ (कौ- तीति । कुशब्दे + “कोररन्” । उणां ४ । १५४ । इति अरन् । पाठकः । इत्युज्ज्वलदत्तः ॥ कर्वुर- वर्णः । इति हलायुधः । यथा, माघे ५ । १९ । “दृष्ट्वैव निर्ज्जितकलापभरामधस्ता- द्व्याकीर्णमाल्यकवरां कवरीं तरुण्याः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवर¦ पु॰ कौति कु--शब्दे--अरन्। पाठके उज्ज्व॰ पाठकालेतस्य शब्दायमानत्वात् तथात्वम्। कं जलं वृणोतिवृ--अच्।

२ लवणे

३ अम्ले च पुंन॰ मेदि॰। लवणस्यजलसंपर्कमात्रेण द्रवीभावेन जलरूपेण परिणामात्अम्लस्य च दर्शनमात्रेण मुखात् जलस्रावणात् तथा-त्वम्। के मूर्द्धनि वरम् वरणीयम्।

४ केशभूषायांत्रि॰। केशविन्यास एव स्त्रियां ङीष्। अन्यत्र तुटाप्। सा च।

५ खरपुष्पायां (वावुइ) शब्दच॰। कवरी-मृतोमलयजार्द्रमिव व्याकीर्णमाल्यकवरां कवरीं तरुण्याः” माघः।
“व्याकीर्णमाल्येन कर्वुरवर्ण्णाम्” मल्लि॰

६ कर्वुरवर्णेपु॰

७ तद्वति त्रि॰ हला॰। कव--ग्तुतौ अरन्।

८ खचिते

९ संपृक्ते त्रि॰ हलायुधः। गौरा॰ ङीष्।

१० वर्वरायाम् (वावुइ) मेदि॰। तस्याः कवरीतुल्यत्वात्तत्त्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवर¦ sub. mfn. (-रः-रा-रं) A braid or fillet of hair, adj. (-रः-री-रं)
1. Mixed, intermingled, blended.
2. Set, inlaid. mn. (-रः-रं)
1. Salt.
2. Sourness or acidity. f. (-रा or -री) A plant, (Mimosa octandra.) f. (-री) The leaf of the asafœtida plant, Hingupatri. E. क the head, &c. वृ to screen, अच् affix, fem. do. टाप् or ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवर mf( आ)n. (3. कुUn2. iv , 154 )mixed , intermingled , variegated S3is3. v , 19

कवर m. a lecturer L.

कवर mf( ई). ( Pa1n2. 4-1 , 42 Vop. iv , 26 ; also n. according to a Sch. )a braid , fillet of hair BhP. Gi1t. Sa1h. S3is3.

कवर n. salt L.

कवर n. sourness , acidity L.

कवर n. Acacia arabica or another plant Npr.

"https://sa.wiktionary.org/w/index.php?title=कवर&oldid=495456" इत्यस्माद् प्रतिप्राप्तम्