कविः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविः, पुं, (कवते सर्व्वं जानाति सर्व्वं वर्णयति सर्व्वं सर्व्वतो गच्छति वा । कव् इन् । यद्वा कुशब्दे + “अचः इः” । उणां ४ । १३८ । इति इः ।) ब्रह्मा । इति हेमचन्द्रः ॥ (अयमादिकविः यथा, “तेने ब्रह्महृदा य आदिकवये” इति भागवते । १ । १ ॥) “वाल्मीकिमुनिः । (एकोऽभून्नलिनात् ततस्तु पुलिनात् वल्मीकतश्चापरस्त एव प्रथिताः कवीन्द्रगुरवस्तेभ्यो नमस्कुर्म्महे” । इत्युद्भटः ॥) शुक्राचार्य्यः । (यथा महाभारते १ । ६६ । ४२ । “ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान् भृगुः । भृगोः पुत्त्रः कविर्विद्वान् शुक्रः कविसुतो ग्रहः” ॥) मृर्य्यः । काव्यकरः । (यथा रघुः १ । ३ । “मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम्” ॥) ग्वलीने स्त्री । इति मेदिनी ॥ (विष्णुः । यथा महामारते १३ । १४९ । २७ । “वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः” ॥) कल्किदेवस्य ज्येष्ठम्राता । यथा, -- “कल्केर्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः । तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः” ॥ इति कल्किपुराणे २ अध्यायः ॥ * अपि च । “विशाखयूपभूपालः प्रायात् साधुजनप्रियः । कल्किं द्रष्टुं हरेरंशमाविर्भूतञ्च सम्भले ॥ कविं प्राज्ञं सुमन्त्रञ्च पुरस्कृत्य महाप्रभम् । गार्ग्यभर्ग्याविशालैश्च ज्ञातिभिः परिवारितम् । विशाखयूपो ददृशे चन्द्रं तारागणैरिव” ॥ इति तत्रैव ३ अध्यायः ॥ * ॥ चौरयोद्धा । यथा । “वेधस्थाने रणे भङ्गो दुर्गे खण्डिः प्रजायते । कविप्रवेशनं तत्र योधाघातश्च तत्र वै” ॥ इति सर्व्वतोयद्रचक्रे ज्योतिस्तत्त्वम् ॥

कविः, त्रि, (कवते श्लोकान् ग्रथते वर्णयति वा । कव् + इन् ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा मनुः २ । १५१ । “अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः” ॥)

कविः, स्त्री, (कवति शब्दायते इति । कुशब्दे “अच् इः” । उणां । ४ । १३८ इति इः । अश्वमुखे श- ब्दायमानत्वात्तथात्वम् ।) खलीनः । इति मेदिनी । लागाम् इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=कविः&oldid=125542" इत्यस्माद् प्रतिप्राप्तम्