कस्तूरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तूरी, स्त्री, (कसति गन्धोऽस्याः । कस + खर्ज्जूरा- दित्वात् ऊरः । ङीप्तुटि पृषोदरादित्वात् साधुः ।) मृगस्य नाभौजातसुगन्धिद्रव्यम् । तत्पर्य्यायः । मृगनाभिः २ मृगमदः ३ । इत्यमरः । २ । ६ । १२९ । मृगः ४ मृगी ५ नाभिः ६ मदः ७ । इति भरतः ॥ वातामोदः ८ योजनगन्धिका ९ । इति रभसः ॥ मदनी १० गन्धकेलिका ११ वेधमुख्या १२ मा- र्जारी १३ सुभगा १४ बहुगन्धदा १५ सहस्रवेधी १६ श्यामा १७ कामान्धा १८ मृगाङ्गजा १९ कुरङ्गनाभिः २० ललिता २१ श्यामला २२ मोदिनी २३ कस्तूरिका २४ कस्तुरिका २५ नाभि २६ लता २७ योजनगन्धा २८ मार्गः २९ गन्धबोधिका ३० कालाङ्गी ३१ धूपसञ्चारी ३२ मिश्रा ३३ गन्धपिशाचिका ३४ इति शब्दरत्नावली ॥ अस्या गुणाः । सुरभित्वम् । तिक्तत्वम् । चक्षुर्हितत्वम् । मुखरोगकिलासकफदौर्गन्ध्यबन्धालक्ष्मीमलापह-- त्वञ्च । इति राजनिर्घण्टः ॥ रक्तपित्तच्छर्द्दिनाशि- त्वम् । इति राजवल्लभः ॥ तद्भेदाः । खरिका १ तिलका २ कुलत्था ३ पिण्डा ४ नायिका ५ । अपि च । “कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् । नेपालेऽपि च काश्मीरे कामरूपेऽपि जायते ॥ कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् । काश्मीरदेशसम्भूता कस्तूरी ह्यधमा स्मृता” ॥ इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो गुणा उत्प- त्तिश्च यथा, -- भावप्रकाशस्य पूर्ब्बखण्डे १ भागे । “मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् । कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ॥ काश्मरीकपिलच्छाया कस्तूरी त्रिविधा स्मृता । कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् ॥ कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् । काश्मीरदेशसम्भूता कस्तूरीह्यधमा मता ॥ कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः । कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तूरी स्त्री।

कस्तूरी

समानार्थक:मृगनाभि,मृगमद,कस्तूरी

2।6।129।2।3

श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ। मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तूरी¦ स्त्री कसति गन्धोऽस्याः दूरतः कस--ऊर--बा॰तुट् च। मृगमदे मृगनाभिजाते गन्धद्रव्यभेदे स्वार्थे कन्। कस्तूरिका तत्रैव
“तद्गुणपर्य्यायादि मावप्र॰ उक्तं यथा--
“मृगनाभिर्मृगमदः कथितस्तु सहस्रभित्। कस्तूरिका चकस्तूरो वेधमुख्या तु सा स्मृता। काश्मीरी कपिलच्छायाकस्तूरी त्रिविधा स्मृता। कामरूपोद्भवा श्रेष्ठा नैपाली[Page1841-b+ 38] मध्यमा भवेत्। कामरूपोद्भवा कृष्णा नैपाली नीलवर्ण-युक्। काश्मीरदेशसम्भूता कस्तूरी त्वधमा मता। कस्तू-रिका कटुस्तिक्ता क्षारीष्णा शुक्रला गुरुः। कफवातविष-च्छर्दिशीतदौर्गन्ध्यशोषहृत्”।
“प्रस्थं हिमाद्रेर्मृगनाभि-गन्धि” कुमा॰ श्लोकव्या॰ मल्लिनाथेन
“मृगनाभिःकस्तूरीतद्गन्धि कस्तूरीमृगाधिष्ठानादित्युक्तं तेन हिमाद्रावपितन्मृगस्य सञ्चारोऽस्तीति गम्यते।
“कस्तूरीतिलकंललाटपटले” विष्णुमूर्त्तिवर्णने।
“कस्तूरिकाजननशक्तिभूतामृगेण किं सेव्यते सुमनसां मनसापि गन्धः” रसग॰।
“कस्तूरिकामृगविमर्दसुगन्धिरेति” माघः। कस्तूरिकाहेतु-र्मृगः कस्तूरिकामृगः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तूरी¦ f. (-री)
1. Musk, the animal perfume so called, as brought from Kashmir, Napal, and western Asam or Bhutan, the latter is said to be the best.
2. A plant, (Hibiscus abelmoschus.)
3. Another plant, (Amaryllis zeylanica.) E. कस् to go, and तूरच् affix; its scent going or spreading; the deriv. is irr.; also कन् being added कस्तूरिका and कस्तुरिका as above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तूरी f. musk Sa1h. 337 , 3 Bhpr. etc.

कस्तूरी f. the plant Hibiscus Abelmoschus L.

कस्तूरी f. the plant Amaryllis zeylanica L.

"https://sa.wiktionary.org/w/index.php?title=कस्तूरी&oldid=495538" इत्यस्माद् प्रतिप्राप्तम्