काकोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकोलम्, क्ली, (काकयति लोलयति दुःखदत्वात् । ककलौल्ये + णिच् + ओल । काकेन उल्लायते भ- क्ष्यते अत्र वा आधारे घञर्थेकः पृषोदरादित्वात् साधुः ।) नरकविशेषः । इति मेदिनी ॥ (यथा, मनुः ॥ “महानरककाकोलं सञ्जीवनमहायसम्” ॥)

काकोलः, पुं क्ली, (कु कुत्सितं तीव्रतरं यथा स्यात् तथा कोलति पीडयति विह्वलीकरोति वा- ऽनेन करणे घञ् ।) कृष्णवर्णस्थावरविषविशेषः । इत्यमरः । १ । ८ । १० ॥ “काकोलमुग्रतेजः स्यात् कृष्णच्छविमहाविषम्” । इति वैद्यकम् ॥ (अस्य पर्य्यायो यथा, -- “काकोलो गरलक्ष्वेडो वत्सनाभः प्रदीपनः । शौक्लिकेयो ब्रह्मपुत्त्रो विषं स्याद्गरलो विषः” ॥ इति वैद्यकरत्नमाला ॥)

काकोलः, पुं, (कं जलमाकोलति संस्त्यायतीति । आ + कुल संस्त्याने + अण् ।) कुलालः । (कक लौल्ये स्वार्थे णिच् + बाहुलकात् ओल ।) द्रोणकाकः । इति मेदिनी । (यथा, मनुः ५ । १४ । “वकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम् । मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्व्वशः” ॥) सर्पः । शूकरभेदः । इति शब्दरत्नावली ॥ काकोली नामख्यातौषधिविशेषः । इति धरणी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकोल पुं-नपुं।

स्थावरविषभेदाः

समानार्थक:काकोल,कालकूट,हलाहल,सौराष्ट्रिक,शौक्लिकेय,ब्रह्मपुत्र,प्रदीपन,दारद,वत्सनाभ

1।8।10।1।1

पुंसि क्लीबे च काकोलकालकूटहलाहलाः। सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥

पदार्थ-विभागः : , द्रव्यम्

काकोल पुं।

काकभेदः

समानार्थक:द्रोणकाक,काकोल

2।5।21।1।2

द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः। आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकोल¦ पु॰ काकयति लोलयति कक--लौल्ये णिच्-बा॰ ओल काकेन उल्लाय अद्यतेऽत्र उद् + ला-घञर्थे आधारे क पृषो॰ वा।

१ नरकभेदे
“महानरककाकोलम् संजीवनमहायसम्” नरकभेदकीर्त्तनेमनुः, काकोलं यत्र काकैर्भक्ष्यते” प्रा॰ वि॰। कं जलमाकोलति आ + कुल--सं स्त्याने अण् उप॰ स॰।

२ कुम्भकारे तस्य घटनिर्म्माणेन जलसंस्त्यानकरणा-त्तथात्वम्। कक--लौल्ये स्वार्थे णिच् बा॰ ओल।

३ द्रोणकाके पुंस्त्री मेदि॰ स्त्रियां जातित्वात्[Page1854-a+ 38] ङीष्।
“वकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम्” अभक्ष्यमांसोक्तौ मनुः।
“कलविङ्कं सकाकोलं कुररंरज्जुदानकम्” अभक्ष्यमांसोक्तौ याज्ञ॰। ईषत् कोलतिकुल--स्त्याने करणे घञ् कोः कादेशः।
“काकोलमु-ग्रतेजः स्यात् कृष्णच्छवि महाविषम्” वैद्यकोक्तलक्षणे

४ विष-भेदे अमरः

५ सर्पे

६ शूकरभेदे पुंस्त्री शब्दरत्ना॰ स्त्रियांजातित्वात् ङीष्। काकोलीनामोषधौ पु॰ धरणी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकोल¦ mn. (-लः-लं) A poisonous substances of a black colour, or the colour of a raven, whence its name; possibly the berry of the Cocculus Indicus. n. (-ल) A division of the infernal regions or hell. m. (-लः)
1. A raven.
2. A potter.
3. A snake.
4. A boar.
5. A drug; as follows. f. (-ली) The name of a vegetable substance used in medicine, described as sweet and cooling, allaying fever, removing phlegm, &c.: it it said to be a root brought from Nepal or Morung. E. काक to be unsteady, &c. and ओलच् affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकोलः [kākōlḥ], 1 A raven; Y.1.174; Mb.11.16.7.

A snake.

A boar.

A potter.

A division of the infernal regions or hell; महानरककाकोलं संजीवनमहापथम् Y.3.223.

A poisonous substance. -ली A drug prepared through अष्टवर्ग.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकोल m. a raven Mn. v , 14 Ya1jn5. i , 174 etc. (See. काकand काकाल)

काकोल m. a boar L.

काकोल m. a snake L.

काकोल m. a potter(See. कुलाल) L.

काकोल m. the plant काकोलीL.

काकोल mn. a kind of poison L.

काकोल mn. a poisonous substance of a black colour or the colour of a raven (perhaps the berry of the Cocculus indicus) W.

काकोल n. a division of hell Ya1jn5. iii , 223.

"https://sa.wiktionary.org/w/index.php?title=काकोल&oldid=495614" इत्यस्माद् प्रतिप्राप्तम्