काच
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काचम्, क्ली, (कच्यते बध्यते अनेन इति । कच बन्धने + घञ् न कुत्वम् । तस्य बन्धनहेतुत्वात् तथात्वम् ।) सिक्थकम् । मोम इति भाषा । (काचः क्षार- मृत्तिकाऽस्त्यस्याकरत्वेन इति अच् ।) काचलवणम् । इति राजनिर्घण्टः ॥
काचः, पुं, (कच दीप्तौ + णिच् + घञ् ।) मृत्तिका- विशेषः । का~च् इति भाषा । तत्पर्य्यायः । क्षारः २ । इत्यमरः । २ । ९ । ९९ ॥ अस्य गुणाः । क्षार- रसत्वम् । उष्णवीर्य्यत्वम् । अञ्जनात् दृष्टिकारि- त्वञ्च । इति राजवल्लभः ॥ शिक्यम् । शिका इति भाषा ॥ मणिविशेषः । (यथा, “आकरे पद्मरागाणां जन्म काचमणेः कुतः” । इत्युद्भटः ॥) नेत्ररोगविशेषः । इति मेदिनी ॥ तस्य लक्षणम् । “अस्मिन्नपि तमोभूते नातिरूढे महागदे । चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः ॥ निर्म्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” ॥ इति माधवकरः ॥ (“प्राप्नोति काचतां दोषे तृतीयपटलास्रिते । तेनोर्द्धमीक्षते नाधस्तनुचेलावृतोपमम् ॥ यथावर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात् । तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ॥ लिङ्गनाशं मनः कुर्व्वन् छादयेद्दृष्टिमण्डलम् । तत्र वातेन तिमिरे व्याविङ्गमिव पश्यति ॥ चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः । जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च ॥ काचीभूते दृगरुणापश्यत्यास्य मनासिकम् । चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते ॥ वृद्धःकाचोदृशं कुर्य्याद्रजोधूमवृतामिव । स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ॥ सलिङ्गनाशो वाते तु सङ्कोचयति दृक्शिराः । दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता ॥ पित्तजे तिमिरे विद्युत् खद्योतोद्योतदीपितम् । शिखितित्तिरिपिच्छाभं प्रायोनीलञ्च पश्यति ॥ काचे दृक् काचनीलाभा तादृगेव च पश्यति । अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च ॥ भृङ्गनीला निरालोका दृङ्स्निग्धालिङ्गनाशतः । दृष्टिःपित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शना ॥ भवेत्पिण्डविदग्धाख्या पीतापीताभदर्शना । कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति ॥ शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम् । काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम् ॥ सिताभा सा च दृष्टिः स्यालिङ्गनाशे तु लक्ष्यते मूर्त्तः कफोदृष्टिगतः स्निग्धोदर्शननाशनः ॥ विन्दुर्जलस्येव चलः पद्मिनीपुटसंस्थितः । उष्णे सङ्कोचमायाभिश्छायायां परिसर्पति ॥ शङ्खकुन्देन्दु कुमुदस्फटिकोपमशुक्लिमा । रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति । काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति” ॥ इति वाभटे उत्तरस्थाने । १२ अध्याये ॥ विस्तृतविवरणमस्य नेत्ररोगशब्दे ज्ञातव्यम् ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काच पुं।
काचः
समानार्थक:क्षार,काच
2।9।99।2।2
सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्
काच पुं।
भारयष्ट्यामालम्बमानः
समानार्थक:शिक्य,काच
2।10।30।1।3
भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका। पादूरुपानत्स्त्री सैवानुपदीना पदायता॥
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
काच पुं।
मृद्भेदः
समानार्थक:काच
3।3।28।1।2
त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
काच पुं।
दृग्रुजः
समानार्थक:काच
3।3।28।1।2
त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥
पदार्थ-विभागः : , सामान्यम्, अवस्था
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काच¦ दीप्तौ अक॰ बन्धने सक॰ इदित् भ्वा॰ आत्म॰ सेट्। काञ्चते अकाञ्चिष्ट चकाञ्चे प्रनिकाञ्चते।
काच¦ न॰ कच्यतेऽनेन कच बन्धने करणे घञ् न कुत्वम्। (मोम) सिक्थे तस्य बन्धहेतुत्वात्तथात्वम्। काचः क्षार-मृत्तिकाऽस्त्यस्याकरत्वेन अच्। क्षारनृत्तिकोद्भवे
३ लव-णभेदे (कालालोन)। राजनि॰।
३ तत्साधने मृत्ति-काभेदे पु॰। (क्षारीमाटी) अमरः।
४ शिक्ये (शिका)
५ मणिभेदे (कां च) मेदि॰।
“आकरे पद्मरागाणां जन्मकाचमणेः कुतः” काचः काचः मणिर्मणिः” उद्भटः। काचश्च सुश्रुते अनुशस्त्रतयोक्तो यथा-
“अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकाग्नि-क्षारनखगोजीशेफालिकाशाकपत्नकरीरबालाङ्गुलयः” इति।
“शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्। त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान्” इतितदुपयोगविषयस्तत्रैवोक्तः।
“पानीयं पानकं मद्यंमृण्मयेषु प्रदापयेत्। काचस्फटिकपात्रेषु शीतलेषुशुभेषु च”
“काचाम्लकोथान् पटलांश्च घोरान् पुष्पञ्चहन्त्यञ्जननस्ययोगैः” सुश्रु॰।
६ नेत्ररोगवेदे तल्ल-क्ष्मादि सुश्रुते उक्तं यथा-
“तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः। रुणद्धिसर्वं तो दृष्टिं लिङ्गनाश इति क्वचित्। अस्मिन्नपि तमो-भूते नातिरूढे महागदे। चन्द्रादित्यौ सनक्षत्रौ अन्त-रिक्षे च विद्युतः। निर्मलानि च तेजांसि भ्राजिष्णूनीव-पश्यति। स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” व्याकृतमेतत् मावप्र॰ यथा
“यो दोषोनेत्ररोगः चतुर्थं पटलंबाह्यं पटलं गतः स तिमिराख्यः तिमिरदर्शनेन तिमिर-[Page1856-b+ 38] मस्यास्तीति तिमिरः अर्शआदित्वात् अच्। तस्यलक्षणमाह रुणद्धीत्यादि सर्वतः सर्वत्र। लिङ्गनाश इतिक्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः। तस्य निरुक्तिश्च। लिङ्ग्यते ज्ञायतेऽनेनेति लिङ्गं दृष्टितेजः तस्य नाशोऽ-स्मिन्निति लिङ्गनाशः। अस्मिन्नपि तिमिरेऽपि तमोभूतेतमस्तुल्ये अत्र भूतशब्दस्तुल्यार्थः
“भूतं प्राण्यतीते समे” इत्यमरात् नातिरूढे अप्रौढे नवे, चन्द्रादित्यौ नक्षत्राणिच पश्यति अन्तरिक्षे अन्तरिक्षस्य प्रकाशमयत्वेन तमो-ऽभिभवात् तेजांसि अग्न्यादेः भ्राजिष्णूनि रत्न-सुवर्ण्णादीनि। अस्मिन् प्रौढे चिरजे चन्द्रादीन्यपि नपश्यतीत्याशयः। नीलिकाकाचसंज्ञितः नीकिका काचेतिनामान्तराभ्यां युक्तः”। तन्निदानादि दृष्टिरोगशब्देवक्ष्यते। स्वार्थे कन् काचकोऽप्युक्तार्थे।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काच¦ r. 1st cl. (इ) काचि (काचते)
1. To shine.
2. To bind.
काच¦ m. (-चः)
1. Alkaline ashes, any salt of potash or soda in a glassy or crystalline state.
2. Crystal, quartz or glass, considered as a natural production, and used as a jewel or ornament.
3. A loop, swinging shelf, a string so contrived as to hold or support burthens, &c.
4. A disease of the eyes, affection of the optic nerve or gutta serena. n. (-चं)
1. Alkaline salt, black salt.
2. Wax. E. कच् to shine or bind, घञ् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काचः [kācḥ], 1 Glass, crystal; आकरे पद्मरागाणां जन्म काचमणेः कुतः H. Pr.38; काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया Śānti.1.12; मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ H.2.67.
A loop, a swinging shelf, a string so fastened to the yoke as to support burdens.
An eye-disease, an affection of the optic nerve, producing dimness of sight.
Alkaline ashes.
The string of the balance.
A house with a southern and a northern hall; पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् Bṛi. S.53.4.
चम् Alkaline salt.
Wax. -Comp. -अक्षः N. of an aquatic bird (बक).-कामलम् a kind of disease of the eyes, (काचबिन्दु)-घटी a glass ewer. -भाजनम् a glass vessel.
मणिः crystal, quartz.
Metallic beads. शेषाः काचमणयः Kau. A.2.11. -मलम्, -लवणम्, -संभवम्, -सौवर्चलम् black salt or soda. -स्थाली N. of a tree (Mar. सागरगोटी).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काच m. ( कच्)glass Sus3r. Pan5cat. Katha1s.
काच m. ( pl. glass pearls) S3Br. xiii , 2 , 6 , 8
काच m. crystal or quartz (used as an ornament) W.
काच m. alkaline ashes , any salt of potash or soda in a crystalline state W.
काच m. a class of diseases of the eye (especially an affection of the optic nerve or gutta serena) Sus3r.
काच m. a loop , a string fastened to each end of a pole with a net in which burdens etc. are held or suspended , a yoke to support burdens etc. (= शिक्य) L.
काच m. the string of the scale of a balance L.
काच m. a द्विशालकhaving one room on the north side and another on the south
काच n. alkaline salt , block salt L.
काच n. wax L.
काच mfn. having the colour of glass.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काच पु.
शीशा, शीशक-मुक्ता, मा.श्रौ.सू. 6.1.7.15 (चयन)।