काञ्जिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जिकम्, क्ली, (अन्ज + धात्वर्थनिर्द्देशे ण्वुल् + टाप् अत इत्वञ्च । अञ्जिका । कु कुत्सिता अञ्जिका व्यक्तिर्यस्य कोः कादेशः ।) वारिपर्य्युषितान्नाम्लजलम् । का~जी इति भाषा । तत्पर्य्यायः । आरनालकम् २ सौवीरम् ३ कुल्माषम् ४ अभियुतम् ५ अवन्तिसोमम् ६ धान्याम्लम् ७ कुञ्जलम् ८ । इत्यमरः । २ । ९ । ३९ ॥ कुल्मासम् ९ कुल्माषाभियुतम् १० काञ्चिकम् ११ काञ्जीकम् १२ काञ्जिका १३ कञ्जिकम् १४ काञ्जी १५ भक्तवारि १६ धान्यमूलम् १७ धान्ययोनि १८ तुषाम्बु १९ । इति तट्टीका ॥ गृहाम्लम् २० महारसम् २१ । इति रत्नमाला ॥ तुषोदकम् २२ शुक्लम् २३ चुक्रम् २४ धातुघ्नम् २५ उन्नाहम् २६ रक्षोघ्नम् २७ कुण्डगोलकम् २८ सुवीराम्लम् २९ । इति हेमचन्वा ॥ वीरम् ३० अभिशवम् ३१ अम्ल- सारकम् ३२ । अस्य गुणा । वातशोथपित्तज्वर- दाहमूर्च्छाशूलाध्मानविबन्धनाशित्वम् । “काञ्जिकं दधि तैलन्तु बलीपलितनाशनम् । दाहकं गात्रशैथिल्यं बल्यं सन्तर्पणं परम्” ॥ मर्द्दनान्न च भक्षणात् । इति राजनिर्घण्टः ॥ अ- पि च । भेदकत्वम् । तीक्ष्णत्वम् । उष्णत्वम् । पित्तरुचिवस्तिशुद्ध्यग्निवृद्धिकारित्वम् । स्पर्शे शी- तलत्वम् । श्रमक्लमनाशित्वञ्च । पुरातनस्य तस्य गुणः । हृत्पाण्डुकृमिरोगनाशित्वम् । अग्निवृद्धि- कारित्वञ्च । इति राजबल्लभः ॥ * ॥ “कुल्माषधान्यमण्डेन चाशृतं काञ्जिकं भवेत् ॥ यन्मस्त्वादिशुचौ भाण्डे स गुडक्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते” ॥ इति वैद्यकपरिभाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जिक नपुं।

काञ्जिकम्

समानार्थक:आरनालक,सौवीर,कुल्माष,अभिषुत,अवन्तिसोम,धान्याम्ल,कुञ्जल,काञ्जिक

2।9।39।2।4

आरनालकसौवीरकुल्माषाभिषुतानि च। अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जिक¦ न॰ अन्ज--धात्वर्थनिर्देशे ण्वुल् कुत्सिता अञ्जिकाव्यक्तिर्यस्य। आरनाले (कां जि) हेमच॰। नस्य ग्रणादि साव॰ प्र॰ उक्तं यथा
“काञ्जिकं रोचनं रुच्यंपाचन{??}ह्निदीपनम्। शूलाजीर्ण्णविबन्धघ्नं कोष्ठशुद्धि-करं परम्” अन्यत्र वैद्यके च
“संहितं धान्यमण्डादिकाञ्जिकं कथ्यते जनैः। काञ्जिकम्भेदि तीक्ष्णोष्णं रोचनंपाचनं लघु। दाहज्वरहरं स्पर्शात् पानाद्वातकफापहम्। नाषादिवटकैर्यत्तु क्रियते तद्गुणाधिकम्। लघु वातहरंतत्तु रोचनं पाचनम्परम्। शूलाजोर्णविबन्धानांनाशनं वस्तिशोधनम्। धान्याम्लमच्छतरमामनिवारिहारि शुण्ठीरजोलवणजीरकसंस्कृतं यत्। आवासितंसुरभि हिङ्गुकणेन यत्नात् तेनाशुशुक्षणिकणोऽधिकतांप्रयाति। एलामहौषधविभावितमाणिमन्थं संसिद्ध-[Page1858-b+ 38] मामलकमेदककाञ्जिकं यत्। मन्दं विवर्द्धयति जाठर-वीतिहोत्रं निर्वाणदीपमिव गन्धकचूर्ण्णयोगः। काञ्जिकंरुचिदं हृद्यं स्वच्छमग्निकरं परम्। वातहृद्बलदंश्रेष्ठं गुर्वाहारस्य पाचकम्”। अन्यत्र च
“काञ्जिकंदधितैलन्तु बलीपलितनाशनम्। गात्रशैथिल्यदानायमर्द्दनान्न च भक्षणात्”। भावप्र॰ तद्भेदतद्विधाना-द्युक्तं यथा--
“कुल्माषधान्यमण्डेन संहितं काञ्जिकंभवेत्। यन्मस्त्वादि शुचौ भाण्डे सगुडं क्षौद्र-काञ्जिकम्। धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदु-च्यते। तुषाम्बुसंहितम् ज्ञेयमामैर्विदलितैर्यवैः। यवेस्तु निस्तुषैः पक्वैः सौवीरं साधितं भवेत्। आर-नालन्तु गोधूमैरामैः स्यान्निस्तुषीकृतैः। पक्वैर्वा संहितैस्तत्तु सौवीरसदृशं गुणैः। कल्माषधान्यमण्डादि संहितंकाञ्जिकं विदुः। शिण्डिका संहिता ज्ञेया मूलकैःसर्षपादिभिः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जिक¦ nf. (-कः-का) Sour gruel, the water of boiled rice in a state of spontaneous fermentation. E. क water, अञ्ज् to go, &c. and affix इक; also the vowel being lengthened काञ्चीक, or without the final, काञ्ची।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जिक [kāñjika] काञ्जिका [kāñjikā] काञ्जी [kāñjī] काञ्जीकम् [kāñjīkam], काञ्जिका काञ्जी काञ्जीकम् Sour gruel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जिक n. sour gruel , water of boiled rice in a state of spontaneous fermentation Sus3r.

"https://sa.wiktionary.org/w/index.php?title=काञ्जिक&oldid=495654" इत्यस्माद् प्रतिप्राप्तम्