काण्ड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्डम्, क्ली, (कणतीति । कण शब्दे + डः । बाहुला- कात् दीर्घः ।) सन्धिविच्छिन्नैकखण्डास्थि । यया । “भग्नं समासाद्द्विविधं हुताश- काण्डे च सन्धौ च हि तत्र सन्धौ । उत्पिष्टविश्लिष्टविवर्त्तितञ्च तिर्य्यग्गतं क्षिप्तमधश्च षट् च” ॥ इति रोगविनिश्चयः ॥ सन्धिविच्छिन्नमेकखण्डमस्थि- काण्डम् । काण्डेन च ललककपालवलयत रुणरुच- कानां ग्रहणम् । तत्र भग्नं काण्डभग्नम् । इति तट्टीकाव्याख्यामधुकोषः ॥
काण्डः, पुं, क्ली, (कणि दीप्तौ + ञमन्तात् डः । क्वादिभ्यः कित् अनुनासिकस्येति दीर्घः ।) दण्डः । (यथा, कात्यायनश्रौतसूत्रे ८ । ७ । २७ । “पृषता वरत्राकाण्डेनाहन्ति” । “वरत्राकाण्डेन वंशदण्डेन” । इति कर्कः ॥) नालम् । वाणः । (यथा, महाभारते १३ । ५ । ३ । “विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः । सविषं काण्डमादाय मृगयामास वै मृगम्” ॥) शरवृक्षः । अर्व्वा । कुत्सितः । वर्गः । (वर्गश्च एक- जातीयसमवायः । यथा, भागवते । ४ । २४ । ९ । “क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥) परिच्छेदः । (यथा, अथर्व्ववेदे १२ । ३ । ४५ । “इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप” ॥) अवसरः । प्रस्तावः । वारि । जलम् । इत्यमरः । ३ । ३ । ४३ ॥ (यथा, हेः रामायणे २ । ८९ । १८ । “तास्तु गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः” ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्ड पुं-नपुं।
अवसरः
समानार्थक:प्रस्ताव,अवसर,काण्ड,पर्याय,वार,अन्तर
3।3।43।2।1
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
पदार्थ-विभागः : , द्रव्यम्, कालः
काण्ड पुं-नपुं।
अधमम्
समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष
3।3।43।2।1
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
पदार्थ-विभागः : , द्रव्यम्
काण्ड पुं-नपुं।
बाणः
समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु
3।3।43।2।1
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
अवयव : शरपक्षः,शराधारः
वृत्तिवान् : बाणधारिः
वैशिष्ट्य : बाणधारिः
: कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः
पदार्थ-विभागः : उपकरणम्,आयुधम्
काण्ड पुं-नपुं।
जलम्
समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष
3।3।43।2।1
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
अवयव : जलकणः,मलिनजलम्
वैशिष्ट्यवत् : निर्मलः
: जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः
पदार्थ-विभागः : , द्रव्यम्, जलम्
काण्ड पुं-नपुं।
वर्गः
समानार्थक:काण्ड
3।3।43।2।1
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
पदार्थ-विभागः : समूहः
काण्ड पुं-नपुं।
दण्डः
समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर
3।3।43।2।1
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
: द्विगुणदण्डः
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्ड¦ पुंन॰ कनी--दीप्तौ ड तस्य नेत्त्वं किच्च दीर्घः।
१ दण्डे
२ वाणे
३ पर्वणि कुत्सिते
४ वर्गे
५ अवसरे
६ जले च अम॰।
७ नाले (डां टा)
८ वृक्षस्कन्धे (गुं डि)
९ स्तम्वे (गुल्मभेदे)
१० निर्जने धरणिः
११ नाङीवृन्दे
१२ वृक्षभेदे (शरवृक्षे) मेदि॰।
१३ श्लाघायां हेमच॰। टण्डश्चात्र षोडशहस्तमितः वंशः वंशाटिण्डश्च
“काण्डान्तात् क्षेत्रे” पा॰ क्षेत्रे यः काण्डान्तोद्विगुस्ततो न ङीप् तद्धितलुकि सति द्वे काण्डे प्रमाण-मस्याः सा द्विकाण्डा क्षेत्रभक्तिः।
“प्रमाणे दृयसजिति” पा॰ विहितस्य मात्रचः
“प्रमाणे लोद्विगोर्नित्यमिति” वार्त्ति॰ लुक्। क्षेत्रे किं द्विकाण्डी रज्जुः” सि॰ कौ॰।
“पृषता वरत्राकाण्डेनाहन्ति” कात्या॰
८ ,
७ ,
२७ । वरत्राकाण्डेन वंशदण्डेन” कर्कः। वाणे
“सविपकाण्डमादाय मृगयामास वै मृगम्” भा॰ अनु॰
२६
५ ओ॰। वर्गे
“क्षपातमस्काण्डमलीमसं नभः” माघः।
“घृक्ष-काण्डमितो भाति” रामा॰।
“दूर्व्वाकाण्डमिव[Page1860-a+ 38] श्यामा” भट्टिः। वर्गश्च एकजातीयसमुदायः
“क्रिया-काण्डेषु निष्णातोयोगेषु च कुरूद्वह!” भाग॰
४ ,
२४ ,
९ ।
“अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्त-जन्मा” भाग॰
८ ,
४ ,
२४ । उपचारात्
१४ तत्प्रतिपादक-ग्रन्थे च ब्रह्मकाण्डं कर्म्मकाण्डम् अवसरश्चात्र योग्य-कालः प्रस्तावश्च तत्र योग्यकाले अकाण्डशब्दे
५३
९ उदा॰। प्रस्तावे अयोध्याकाण्डं लङ्काकाण्डमित्यादि। नालमत्र-लतादीनां पत्राधारदण्डः (डां टा)नालारूपञ्च। तत्र नाले
“काण्डमूलपत्रपुष्पफलप्ररोहरसगन्धानां सादृश्येन प्रति-निधिं कुर्य्यात् सर्वाभावे यवः प्रतिनिधिः” श्रा॰ त॰ पैठी॰।
“काण्डं नालम्” रघु॰।
“पुच्छकाण्डाद्दक्षिणेऽस्थनि” कात्या॰
२५ ,
६ ,
५ । पुच्छं काण्डमिव नालारूपत्वात्। स्तम्बे
“काण्डात् काण्डात् प्ररोहन्तीः” यजु॰
१३ ,
१४ ।
“महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्” सुश्रु॰। स्कन्धे
“इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्ष-येत्”
“दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टशरकाण्डानामन्यतम-वर्ण्णः” सुश्रु॰
“उद्भिज्जाः स्थावराः सर्वे वीजका-ण्डप्ररोहिणः”
“वीजकाण्डरुहाण्येव प्रतानाबल्ल्य एवच” मनुः।
१५ ग्रन्थपरिच्छेदे। मधुकाण्डं श्राद्धकाण्डम्
१६ सन्धिविच्छिन्नैकखण्डास्थ्नि न॰।
“भग्नं समासात् द्विविधंहुताशकाण्डे च सन्धौ च हि तत्र सन्धौ। उत्पिष्टवि-श्लिष्टविवर्त्तितञ्च तिर्य्यग्गतं क्षिप्तमधश्च षट् च”। रोग-निश्चयः।
“सन्धिविच्छिन्नमेकखण्डेमस्थि काण्डम्” तट्टीका-काण्डस्यावयवो विकारो वा विल्वा॰ अण्।
१७ काण्डा-वयवे
१८ तद्विकारे च त्रि॰
१९ अङ्कोठवृक्षे पु॰ शब्दचि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्ड¦ mn. (-ण्डः-ण्डं)
1. A stalk or stem.
2. The part of the trunk of a tree whence the branches proceed.
3. A cluster, a clump.
4. An arrow.
5. Opportunity, season.
6. Water.
7. A kind of reed, (Saccharum sara.)
8. A multitude, a heap, a quantity.
9. A horse.
10. A chapter, a section.
11. The part in a sacrifice appropriated to different objects, as the gods or manes.
12. A long bone, a bone of the extremities.
13. Praise, flattery.
14. Private, privacy.
15. Low, vile, bad.
16. Sinful, wicked. E. कन् to shine, &c. ड Unadi affix, and the radical vowel made long.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्डः [kāṇḍḥ] ण्डम् [ṇḍam], ण्डम् 1 A section, a part in general.
The portion of a plant from one knot to another. काण्डात्काण्ड- त्प्ररोहन्ती Mahānār.4.3.
A stem, stock, branch; लीलोत्खातमृणालकाण्डकवलच्छेदे U.3.16; Amaru.95; Ms. 1.46,48, Māl.3.34.
Any division of a work, such as a chapter of a book; as the seven Kāṇḍas of the Rām.
A separate department or subject; e. g. कर्म˚ &c.
A cluster, bundle, multitude.
An arrow. मनो दृष्टिगतं कृत्वा ततः काण्डं विसर्जयेत् Dhanur.3; Mb.5.155.7.
A long bone, a bone of the arms or legs.
cane, reed.
A stick, staff.
Water. निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः Rām.2.89.18.
Opportunity, occasion.
Private place.
A kind of measure.
Praise, flattery.
A horse.
Vile, bad, sinful (at the end of comp. only).-ण्डी A little stock or stem; Rāj. T.7.117. -Comp. -अनुसमयः Performance of all the details with reference to one thing or person first, then doing them with reference to the second, and so on (see अनुसमय).-ऋषिः A class of sages including Jaimini. -कारः (-रिन्) a maker of arrows कुसीदवृत्तयः काण्डकारिणश्चाहि- तुण्डिकाः Śiva. B.31.22. (-रम्) the betel-nut.-गोचरः an iron arrow. -तिक्तः, -तिक्तकः N. of a tree (Mar. काडेचिराईत). -पटः, -पटकः a screen surrounding a tent, curtain (Mar. कनात); उत्क्षिप्तकाण्डपटकान्तरलीयमानः Śi.5.22; उल्लोचैः काण्डपटकैः अनेकैः पटमण्डपैः Śiva. B. 22.61. ततः स्वमेवागारमानीय काण्डपटपरिक्षिप्ते विविक्तोद्देशे Dk. 'अपटः काण्डपटी स्यात्' इति वैजयन्ती. -पातः an arrow's flight, range of an arrow. -पुष्पम् The कुन्द flower.
पृष्ठः one of the military profession, a soldier; cf. काण्डस्पृष्टः.
the husband of a Vaiśya woman.
an adopted son, any other than one's own son.
(as a term of reproach) a base-born fellow, one who is faithless to his family, caste, religion, profession &c. In Mv.3 Jāmadagnya is styled by शतानन्द as काण्डपृष्ठ. (स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥). -ष्ठम् the bow of Karṇa & Kāma.-भङ्गः, -भग्नम् a fracture of the bone or limbs. -वीणा the lute of a Chāṇḍāla. -सन्धिः a knot, joint (as of a plant). -स्पृष्टः one who lives by arms, a warrior, soldier. -हीनम् a kind of grass.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्ड mn. ([or काण्डTS. vii ])( ifc. f( आor ई). )([See. खण्ड, with which in some of its senses काण्डis confounded]) a single joint of the stalk or stem of a plant , such as a bamboo or reed or cane( i.e. the portion from one knot to another See. त्रि-क्) , any part or portion , section , chapter , division of a work or book(See. त्रि-क्) , any distinct portion or division of an action or of a sacrificial rite (as that belonging to the gods or to the manes) AV. TS. VS.
काण्ड mfn. a separate department or subject( e.g. कर्म-काण्ड, the department of the वेदtreating of sacrificial rites Ka1s3. on Pa1n2. 4-2 , 51 ) AV. TS. S3Br. R.
काण्ड mfn. a stalk , stem , branch , switch MBh. R. Mn. i , 46 , 48 Kaus3. Sus3r.
काण्ड mfn. the part of the trunk of a tree whence the branches proceed W.
काण्ड mfn. a cluster , bundle W.
काण्ड mfn. a multitude , heap , quantity( ifc. ) Pa1n2. 4-2 , 51 Ka1s3.
काण्ड mfn. an arrow MBh. xiii , 265 Hit.
काण्ड mfn. a bone of the arms or legs , long bone(See. काण्ड-भग्नand पुच्छकाण्ड) Sus3r.
काण्ड mfn. a rudder (?) R. ii , 89 , 19
काण्ड mfn. a kind of square measure Pa1n2. 4-1 , 23 Vop. vii , 55
काण्ड mfn. a cane , reed , Saccharum Sara( शर) L.
काण्ड mfn. water L.
काण्ड mfn. opportunity , occasion(See. अ-काण्ड) L.
काण्ड mfn. a private place , privacy L.
काण्ड mfn. praise , flattery L.
काण्ड mfn. ( ifc. implying depreciation) vile , low Pa1n2. 6-2 , 126
काण्ड mfn. = काण्डस्या-वयवो विकारो वा-g. बिल्वा-दि
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्ड पु.
(न.) वनस्पति की ग्रन्थि अथवा सन्धि के मध्य का भाग, का.श्रौ.सू. 17.4.18; ला.श्रौ.सू. 8.9.9।