कादम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बः, पुं, (कदम्बे समूहे भवः । कदम्ब + अण् ।) कलहंसः । वालि हा~स् इति भाषा । इत्यमरः । २ । ५ । २३ । (यथा रघुः । १३ । ५५ । “क्वचित् खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्व्क्तिः” ॥) अस्य मांसस्य गुणाः । वायुरक्तपित्तनाशित्वम् । भेदकत्वम् । शुक्रकारित्वम् । शीतत्वञ्च । इति राजवल्लभः । (कदम्ब एव । स्वार्थे अण् ।) कदम्ब- वृक्षः । इत्यमरटीकायां भरतः ॥ (कदम्बस्येदमिति व्युत्पत्त्या अण् । कदम्वसम्बन्धिनि, त्रि । कदम्ब- कुसुमम् । यथा रघुः १३ । २७ । “गन्धश्च धाराहतपल्वलानां कादम्बमर्द्धोद्गतकेसरञ्च” ॥) वाणः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्ब पुं।

कलहंसः

समानार्थक:कादम्ब,कलहंस

2।5।23।1।1

कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ। हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्ब¦ पु॰ स्त्री सौ॰ कदि--णिच्--अम्बच्। (बालिहां स)

१ हंस-भेदे स्त्रियां जातित्वेऽपि संयोगोपधत्वान्न ङीष् किन्तु टाप्। तस्य च नीलवर्णत्वम्
“क्वचित् खगानां प्रियमानसानांकादम्बसंसर्गवतीव पङ्क्तिः” सितासितगङ्गायमुनासंगम-वर्णने रघुः। तद्व्या॰
“कादम्बसंसर्गवती नीलहंससंसृष्टा” मल्लि॰। सुश्रुते हंससारसेत्युपक्रमे कादम्बस्य प्लवत्वं संघ-चारित्वञ्चोक्त्वा
“रक्तपित्तहराः शीताः स्निग्धा वृष्या मरु-ज्जितः। सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः” इति तेषांमांसगुणा उक्ताः।

२ इक्षौ पु॰ विश्वः।

३ वाणे मेदि॰।
“कादम्बानामेकपातैरसीव्यत्” माघः। कदम्बे समूहे भवःअण्।

५ समूहभवे त्रि॰। कदम्बस्येदम् अण्।

६ कदम्बसम्बन्धिनि त्रि॰
“कादम्बमर्द्धोद्गतकेशरञ्च” रघुः।
“कादम्बं नीपकुसुम” मिति मल्लि॰। वस्तुतः कदम्बशब्दस्यपुष्पपरत्वे कदम्बमित्येव ह्रस्वपाठः स्यात् दीर्घपाठे तुकदम्वानां कुसुमानां समूह इत्यर्थेऽण्। इति तस्यकदम्बसमूहपरतेति बोध्यम्। कदम्ब एव स्वार्थेऽण्।

७ कदम्बवृक्षे पु॰
“वेत्रकादम्बवल्वजकरम्भमहाकरम्भाःपञ्च पुष्पविषाणि” स्थावरविषकीर्त्तने सुश्रु॰। स्वार्थेकन् वाणे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्ब¦ n. (-म्बं)
1. A tree, (Nauclea cadamba.)
2. A drake, or, accord- ing to some, a teal.
3. An arrow. f. (-म्बा) A plant, commonly Mundiri: see कदम्बपुष्प। E. अण् added to कदम्ब।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बः [kādambḥ], [cf. Uṇ.4.83]

A kind of goose (कलहंस); क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव भूमिः R.13.55; Ṛs.4.9.

An arrow; कादम्बानामेकपातैरसीव्यम् Śi.18.29; cf. कादम्बमार्गणशराः Ak.

A sugar-cane.

The Kadamba tree. -म्बम् Flower of the Kadamba tree; कादम्बमर्धोद्गतकेसरं च R.13.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्ब m. ( Un2. iv , 84 ) a kind of goose with dark-grey wings( कल-हंस) MBh. R. Ragh. Sus3r.

कादम्ब m. an arrow L.

कादम्ब m. the plant Nauclea Cadamba L.

कादम्ब n. the flower of the Nauclea Cadamba Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कादम्ब&oldid=495701" इत्यस्माद् प्रतिप्राप्तम्