कान्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्तम्, क्ली, (कनते दीप्यते इति । कन + कर्त्तरि क्तः ।) कुङ्कुमम् । इति राजनिर्घण्टः ॥ लौहविशेषः । तस्य लक्षणं यथा, -- “स्वादुर्यत्र भवेन्निम्बकल्को रात्रिन्दिवोषितः । कान्तं तदुत्तमं यच्च रूप्येणावर्त्तितं मिलेत्” ॥ तस्य परीक्षा । यथा । पात्रे यस्मिन् विसरति जले तैलविन्दुर्निषिक्तो विद्धं गन्धं विसृजति निजं रूपितं निम्बकल्कैः । पाके दुग्धं भजति शिखराकारतां नैति भूमौ कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत्” ॥ इति सुखबोधः ॥ अपि च । “यत्पात्रे न प्रसरति जले तैलविन्दुर्निषिक्तो हिङ्गुर्गन्धं त्यजति भजते स्वादुतां निम्बकल्कः । पाच्यं दुग्धं भवति सिकतापुञ्जवन्नैति भूमौ कृष्णाङ्गः स्यात् सजलचणकः कान्तलौहंवदन्ति” ॥ इतिवैद्यकम् ॥ (वैद्यकरसेन्द्रसारसंग्रहे वृहत्सर्व्व ज्वरहरलौहेऽस्य व्यवहारो यथा, -- “पारदं गन्धकं शुद्धं ताम्रमभ्रञ्च माक्षिकम् । हिरण्यं तारतालञ्च कर्षमेकं पृथक् पृथक् ॥ मृतं कान्तं पलं देयं सर्व्वमेकीकृतं शुभम्” ॥)
कान्तः, त्रि, (काम्यते इति । कम् + कर्म्मणि क्तः “यस्य विभाषा” । ७ । २ । १५ । इति नेट् । अनुनासि- कस्येति दीर्घः ।) मनोरमः । शोभनः । इत्यमरमे- दिनीकरौ ॥ (यथा, “मलिनमपि मृगाक्ष्या बल्कलं कान्तरूपं न मनसि रुचिभङ्गं स्वल्पमप्यादधाति” । इति शाकुन्तले १ अङ्के ॥)
कान्तः, पुं, (कम् + क्त ।) श्रीकृष्णः । चन्द्रः । इति शब्दरत्नावली ॥ पतिः । (यथा मेघदूते । १०१ । ‘कान्तोदन्तः सुहृदुपनतः सङ्गमात् किञ्चिदूनः’ ॥) चन्द्रसूर्य्यायःपर्य्यायान्तःशिला । यथा । चन्द्रकान्त- सूर्य्यकान्तायस्कान्तादयः । इति मेदिनी ॥ हिज्जल- वृक्षः । वसन्त ऋतुः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते १३ । १४९ । ४५ । “कामहा कामकृत् कान्तः कामः कामप्रदःप्रभुः” ॥ शिवः । यथा, तत्रैव १३ । १७ । १४८ । “गुहः कान्तो निजः सर्पः पवित्रं सर्व्वपावनः” ॥ कार्त्तिकेयः । यथा, तत्रैव २ । २३१ । ४ । “कामजित् कामदः कान्तः सत्यवाग्भुवनेश्वरः” ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्त वि।
मनोरमम्
समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य
3।1।52।2।1
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।
पदार्थ-विभागः : , द्रव्यम्
कान्त वि।
इच्छा
समानार्थक:वश,कान्त,इष्टि,काम
3।2।8।1।4
ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥
: परद्रव्येच्छा, बुभुक्षा, पिपासा, जिज्ञासा
पदार्थ-विभागः : , गुणः, मानसिकभावः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्त¦ पु॰ कन दीप्तौ कम--वा क्त।
१ , पत्यौ
“कान्तवक्ष-स्थलस्थिता” उद्भटः।
“शिवरात्रौ ददाम्यर्घमुमाकान्त!गृहाण मे” शिवार्घदानमन्त्रः। सूय्य पूर्व्वकः सूर्य्यका-न्तशिलायाम्, चन्द्रपूर्व्वकः चन्द्रकान्तमणौ, अय॰ पूर्वःअयस्कान्तमणौ (चुम्बकपाथर)
२ चन्द्रे
३ वसन्ते
४ हिज्जल-वृक्षे च।
५ कुङ्कुमे, न॰
६ शोभने,
“कान्तालकान्ताललनाःसुराणाम्” माघः
“नात्र कान्तमुपगीतया तया” माघः।
७ अभीष्टे च त्रि॰।
“भीमकान्तैर्नृपगुणैः” रघुः।
८ नार्य्यां,
९ प्रियङ्गुवृक्षे च स्त्री। मेदि॰
१० वृहदे-लायां
१
१ रेणुको षधौ
१२ नागरमुस्तायां स्त्री राज-नि॰।
१३ सुखस्यान्ते
१४ लोहभेदे न॰ भावप्र॰ तस्यलक्षणगुणादि तत्रोक्तं यथा
“यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते, हिङ्गुर्गन्धांस्त्यजति च निजं तिक्ततां निम्बवल्कः। तप्तं दुग्धं भवतिशिखराकारकं, नैति भूमिं, कृष्णं न स्यात् सजलकणतःकान्तलोहं तदुक्तम्”। मारितस्य चूर्णीकृतस्य तस्य सेवनेगुणा उक्तास्तत्रैव
“गुल्मोदरार्शःशूलाममामवातं भगन्द-रम्। कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत्। प्लीहान-मम्लपित्तञ्च यकृच्चापि शिरोरुजम्। सर्वान्रोगान् विजयतेकान्तलोहं न संशयः। बलं वीर्य्यं वपुः पुष्टिं कुरुतेऽग्निंविवर्धयेत्”। तत्रैव सामान्यलौहमारणविधिगुणादि।
“शुद्धं लोहभवं चूर्णं पातालगरुडीरसैः। मर्द्दयित्वापुटेद्वह्नौ दद्यादेवं पुटत्रयम्। पुटत्रयं कुमार्याश्च कुठार-च्छिन्निकारसैः। पुटषट्कं ततोदद्यादेवं तीक्ष्णमृतिर्भवेत्”। अन्यच्च।
“क्षिपेद्द्वादशमांशेन दरदं तीक्ष्णचूर्णतः। मर्द्दयेत्कन्यकाद्रावैर्यामयुग्मं ततः पुटेत्। एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात्। सत्यानुभूतो योगीन्द्रैःक्रमोऽन्योलोहमारणे। कथ्यते रसराजेन कौतूहलधि-याऽघुना। सूतकात् द्विगुणं गन्धं दत्त्वा कुर्य्याच्च कज्जलीम्। द्वयोः समं लोहचूर्णं मर्द्दयेत्कन्यकाद्रवैः। यामत्रयं ततःपिण्डं कृत्वा ताम्रस्य पात्रके। वर्म्मे धृत्वा रुचूकस्यपत्रैराच्छादयेद्बुधः। यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसे-त्ततः। दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत्। पिष्ट्वा[Page1883-b+ 38] च गालयेद्वस्रादेवं वारितरं भवेत्। दाडिमस्य दलं पिष्ट्वातच्चतुर्गुणवारिणा। तद्रसेनायसञ्चूर्णं सन्नीय प्लावयेदिति। आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः। एकविंशतिवारै-स्तन्म्रियते नात्र संशयः। एवं सर्वाणि लोहानि स्वर्णा-दीन्यपि मारयेत्”। एवं मारितस्य लौहस्य गुणाः।
“लोहंतिक्तं सरं शीतं कषायं मधुरं गुरु। रूक्षं वयस्यं चक्षुष्यंलेखनं वातलं जयेत्। कफं पित्तज्वरं शूलं शोफार्शःप्ली-हपाण्डुताः। मेदोमेहक्रिमीन् कुष्ठं तत्किट्टंतद्वदेव हि। गुञ्जामेकां समारभ्य यावत् स्युर्नवरत्तिकाः। तावल्लौहंसमश्नीयाद्यथादोषानलं नरः। कुष्माण्डं तिलतैलं चमाषान्नं राजिकां तथा। मद्यमम्लरसञ्चैव वर्जयेल्लोहसेवकः। शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः। म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा”।
“कामे कान्ते रसिका काकुरुतेन” माघः।
“कान्ताजनेनरहसि गृहीता। ”
“वपुष्यशेषेऽखिललोककान्ता सानन्य-कान्ताह्युरसीतरा तु”। माघः कं ब्रह्माणमन्तयति द्विप-रार्द्धकाले।
१५ वासुदेवे परमेश्वरे पु॰
“कामदेवः काम-पालः कामी कान्तः कृतागमः” विष्णुस॰।
१६ पत्न्यां स्त्री
“मा कान्ते पक्षस्यान्ते पर्य्याकाशे देशे स्वाप्सीः” ज्यो॰ त॰
“कान्तया कान्तसंयोगे किमकारि नवोढया” विदग्धमु॰।
१७ कार्त्तिकेये पु॰।
“आग्नेयश्चैव स्कन्दश्च” इत्युपक्रमे
“कामजित् कामदः कान्तः” इत्युक्त्वा।
“नामान्येतानिदिव्यानि कार्त्तिकेयस्य यः पठेत्” भा॰ वन॰
२३
१ अ॰।
“भवेत् कान्ता युगरसहयैर्यनौ नरसा लगौ” इत्यक्तलक्षणे
१८ छन्दोभेदे स्त्री।
१९ कामदेवभेदे पु॰ कामशब्दे विवृतिः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Pleasing, agreeable.
2. Lovely, beautiful.
3. Dear, beloved. m. (-न्तः)
1. A name of KRISHNA.
2. The moon.
3. A husband.
4. Spring.
5. A precious stone; in which case it is compounded with सूर्य्य, चन्द्र or अयस्, as सूर्य्यकान्त a crystal lens, &c. f. (-न्ता)
1. A wife, a mistress, any beloved or lovely woman.
2. A plant, commonly Priyangu: see प्रियङ्गु।
3. A grass, (Cyperus pertenuis.) n. (-न्तं)
1. Iron.
2. Saffron. E. कम् to desire, affix क्त।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्त [kānta], p. p. [कम्-क्त]
Desired, favourite, loved, dear; कान्तं क्रतुं चाक्षुषम् M.1.4.
Pleasing, agreeable; भीमकान्तैर्नृपगुणैः R.1.16.
Lovely, beautiful; सर्वः कान्तमात्मीयं पश्यति Ś.2.
तः A lover.
A husband; कान्तोदन्तः सुहृदुपगतः संगमात् किंचिदूनः Me.12; Śi.1.3, 29.
Any beloved person.
The moon.
The spring.
A kind of iron.
A precious stone (in comp. with सूर्य, चन्द्र and अयस्).
An epithet of (1) Kārttikeya, (2) Kṛiṣṇa.
तम् Saffron.
A kind of iron. -comp. -अयसम् the loadstone. -नावकम्a. Variety of hides; Kau. A.2.11. -पक्षिन् m. a peacock (of iron). -पुष्पः a kind of tree (कोविदारवृक्ष).-लोहम् the loadstone. -लौहम् steel.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्त etc. See. s.v.
कान्त mf( आ)n. (fr. 2. कम्) , desired , loved , dear , pleasing , agreeable , lovely , beautiful
कान्त m. any one beloved , a lover , husband
कान्त m. the moon L.
कान्त m. the spring L.
कान्त m. the plant Barringtonia Acutangula L.
कान्त m. iron L.
कान्त m. a stone(See. सूर्य-क्, etc. ) L.
कान्त m. N. of कृष्णL.
कान्त m. of स्कन्दMBh. iii , 14631
कान्त m. of a son of धर्म-नेत्रHariv. i , 33 , 3
कान्त m. a charming wife L.
कान्त m. the earth L.
कान्त m. N. of certain plants L.
कान्त m. large cardamoms L.
कान्त m. a kind of perfume( रेणुका, Piper aurantiacum) L.
कान्त m. N. of a metre of four lines of seventeen syllables each
कान्त m. a kind of श्रुति
कान्त n. saffron L.
कान्त n. a kind of iron L.
कान्त n. a magnet Buddh.
कान्त n. a kind of house L.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--one of the ten branches of the सुकर्मण group of devas. Br. IV. 1. ८८; वा. १००. ९३.