कान्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिः, स्त्री, (कमु कान्तौ कन् दीप्तौ वा + भावे क्तिन् ।) दीप्तिः । तत्पर्य्यायः । शोभा २ द्युतिः ३ छविः ४ । इत्यमरः । १ । ३ । १० ॥ शुभा ५ दीप्तिः ६ भा ७ श्रीः ८ भासा ९ भाः १० । इति शब्द- रत्नावली ॥ अभिख्या ११ । इति जटाधरः ॥ * ॥ (यथा, विष्णुपुराणे १ मांशे ८ । २३ । “शशाङ्कः श्रीधरः कान्तिः श्रीस्तस्यैवानपायिनी” ॥) कान्तिकारकपर्य्याया यथा । रश्मि १ उश्मसि २ वेति ३ वेनति ४ वेसति ५ वाञ्छति ६ वष्टि ७ वनोति ७ जूषते ९ हर्षति १० आचके ११ उशिक् १२ मन्यते १३ छन्तसत् १४ चाकनत् १५ चक- मानः १६ कमति १७ कानिषत् १८ इत्यष्टादश- कान्तिकर्म्माणः । इति वेदनिघण्टौ २ अध्यायः ॥ स्त्रीशोभा । इति हेमचन्द्रः ॥ (यथा साहित्यदर्पणे । “रूपयौवनलालित्वं भोगाद्यैरङ्गभूषणम् । शोभा प्रोक्ता सैव कान्तिर्मन्मथाप्यायिता द्युतिः” ॥) इच्छा । स्पृहार्थकमधातोर्भावे क्तिन् प्रत्ययः । दुर्गा । यथा, -- देविपुराणे देवीनिरुक्तनाम ४५ अध्याये ॥ “स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च या । लक्ष्मीर्वा ललना वापि क्रमात् सा कान्तिरुच्यते” ॥ (गङ्गा । यथा, काशीखण्डे गङ्गास्तोत्रे २९ । ४० । “कुमुद्वतो कमलिनी कान्तिः कल्पितदायिनी” ॥ “कान्तिश्चन्द्रतेजोरूपा” । इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्ति स्त्री।

शोभा

समानार्थक:शोभा,कान्ति,द्युति,छवि,अभिख्या,छाया,त्विष्,अर्चिस्

1।3।17।2।3

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : परमा_शोभा, अलङ्काररचनादिकृतशोभा

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्ति¦ स्त्री कम--कामे कन--दीप्तौ वा भावे क्तिन्।

१ दीप्तौ

२ शोभायाम्

३ इच्छायाम्

४ स्त्रीणां शृङ्गारजे सौन्दर्य्यगुणभेदे च। कान्तौ कारणं च सुश्रुते दर्शितं यथा
“तेजो-ऽप्याग्नेयं क्रमशः पच्यमानानां धातूनामभिनिर्वृत्तमन्तरस्थंस्नेहजातं रसाख्य स्त्रीणां विशेषतो भवति तेन मा-र्द्दवसौकुमार्य्यमृद्वल्परोमतोत्साहदृष्टिस्थितिपङ्क्तिकान्तिदीप्तयो भवन्ति”। घृतस्य तैजसत्वेन कान्तिदत्वम् यथोक्तंतत्रैव
“घृतन्तु” इत्युपक्रम्यम्
“स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्य्यौजस्तेजोबलकरम्”। शोभाकान्तिदीप्तिद्युतीनां भेदस्तु सा॰ द॰ उक्तः
“रूपयौवनलालित्यंभोगाद्यैरङ्गभूषणम्। शोभा प्रोक्ता, सैव कान्तिर्मन्मथाप्या-यिता द्युतिः। कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधी-यते”। इति भेदेन लक्षयित्वां मन्मथोन्मेषेणातिविस्तीर्णाशोभैव कान्तिरुच्यते इति व्याख्यातम्। तेषां चनायिकागततेव नायकगतताऽपि। चन्द्रादौ तु शोभा-दीप्तिकान्तिद्युतीनामभेद एव।
“कला च सा कान्तिमती कलाभृतः” कुमा॰।
“बध्वा इवाध्वंसितवर्णकान्तेः” माघः। चन्द्रकलासु मध्ये

७ कलाभेदे।
“शशिनी चन्द्रिकाकान्तिर्ज्योत्स्ना” शा॰ ति॰। कलाशब्दे विवृतिः।

८ लक्ष्म्याअनुचरदेवीभेदे
“एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यवृषंत्वलिम्। प्रविष्टा” इत्युपक्रमे
“शिष्टाश्च देव्यः प्रवरा ह्रीःकीर्त्तिद्युतिरेव च” इत्याद्युक्त्वा
“श्रुतिः प्रीतिरिडा कान्तिः” इत्यादिकमभिधाय
“उपतस्थुर्महासत्वं वलिमिन्द्रं महा-रथम्” इत्युक्तम् हरि॰

२५

६ अ॰।

९ शशिनः प्रियाभेदेच
“तिस्रस्तिदशनार्य्यस्तम्” इत्युपक्रमे
“मदिरा रूपिणीभूत्वा कान्तिश्च शशिनः प्रिया” हरि॰

९८ अ॰।

१० दुर्गायां
“स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्चया। लक्ष्मीर्वा लनना वापि कामात् सा कान्तिरुच्यते” देवीपु॰

४५ अ॰।

११ कामशक्तिभेदे।
“तथा कान्तिः[Page1884-b+ 38] कलकण्ठी वृकोदरा” शा॰ ति॰ राघवभट्टः। काम-शक्तिशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्ति¦ f. (-न्तिः)
1. Beauty, splendor, light.
2. Female beauty.
3. Wish, desire.
4. A lovely or desirable woman.
5. Persoual decoration or embellishment. E. कम् to desire or be desired, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिः [kāntiḥ], [कम् भावे क्तिन्]

Loveliness, beauty, Me. 15; अक्लिष्टकान्ति Ś.5.19.

Brightness, lustre, brilliance; Me.84.

Personal decoration or embellishment.

Wish, desire.

(In Rhet.) Beauty enhanced by love; (S. D. thus distinguishes कान्ति from शोभा and दीप्तिः रूपयौवनलालित्यं भोगाद्यैरङ्गभूषणम् । शोभा प्रोक्ता सैव कान्ति- र्मन्मथाप्यायिता द्युतिः । कान्तिरेवातिविस्तीर्णा दाप्तिरित्यभिधीयते 13, 131).

A lovely or desirable woman.

An epithet of Durgā.

A digit of the moon.

N. of Lakṣmī; भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् Bhāg.1.65.29.-Comp. -कर a. beautifying, illuminating, brightening. -द a. beautifying, adorning.

(दम्) bile.

clarified butter. -द, -दायक, -दायिन् a. adorning.-भृत् m. the moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्ति f. desire , wish L.

कान्ति f. loveliness , beauty , splendour , female beauty , personal decoration or embellishment Nal. S3ak. Megh. Pan5cat. Sus3r. Katha1s.

कान्ति f. a lovely colour , brightness (especially of the moon) Katha1s.

कान्ति f( ई). ifc. Caurap.

कान्ति f. (in rhetoric) beauty enhanced by love Va1m. iii , 1 , 22 ; xxii , 14 Sa1h.

कान्ति f. a lovely or desirable woman personified as wife of the moon Hariv. 5419

कान्ति f. N. of लक्ष्मीBhP. x , 65 , 29

कान्ति f. of दुर्गाDevi1P.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति। Br. IV. ४४. ७२.
(II)--a Brahma कला. Br. IV. ३५. ९४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀNTI : A city in ancient India. (M.B. Bhīṣma Parva, Chapter 9, Verse 40).


_______________________________
*13th word in left half of page 385 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कान्ति&oldid=495720" इत्यस्माद् प्रतिप्राप्तम्