काम

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम, व्य, अभ्यनुज्ञा । इति विश्वः ॥

कामम्, क्ली, (कामाय हितम् । कम + अण् ।) रेतः । निकामः । काम्यम् । इति मेदिनी ॥ वाढम् । अनु- मतिः । इति हेमचन्द्रः ॥ (यथा माघे २ । ४३ । “मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी)” ॥

कामः पुं, (काम्यते असौ कर्म्मणि घञ् ।) काम्य तया स शैलः समधिष्ठितः सदा सौवर्णगौर्य्यादिसमप्रभाभृता । सोमेन सन्ध्यासमयोदितेन यथोदयाद्रिर्व्विरराज शश्वत्” ॥ इति कालिकापुराणे १९ अध्यायः ॥ * ॥ मार्कण्डेय उवाच । “अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् । परिक्षीणं जटाव्रातैः पवित्रं मूर्द्ध्नि राजितम् ॥ हिमानीतर्ज्जिताम्भोजसदृशं वदनं तदा । निरीक्ष्य कृपयाविष्टों हरिः प्रोवाच तामिदम्” श्रीभगवानुवाच । “प्रीतोऽस्मि तपसा भद्रे भवत्याः परमेण वै । स्तवेन च शुभे प्रज्ञे वरं वरय साम्प्रतम् ॥ येन ते विद्यते कार्य्यं वरेणास्ति मनोगतम् । तत् करिष्ये च भद्रं ते प्रसन्नोऽहं तव व्रतैः” ॥ सन्ध्योवाच । “यदि देव प्रसन्नोऽसि तपसा मम संप्रति । वृतस्तदायं प्रथमं वरो मम विधीयताम् ॥ उत्पन्नमात्रा देवेश प्राणिनोऽस्मिन् भुवःस्थले । न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै” ॥ श्रीभगवानुवाच । “प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः । तृतीयो यौवनो भावश्चतुर्थं वार्द्धकं तथा ॥ तृतीयेष्वथ संप्राप्ते वयोभागे शरीरिणः । सकामाः स्युर्द्वितीयान्ते भविष्यन्ति क्वचित् क्वचित् ॥ तपसा तव मर्य्यादा जगति स्थापिता मया । उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः” ॥ इत्यादि श्रीकालिकापुराणे २२ अध्यायः ॥ * ॥ अभिलाषः । तस्य रजोगुणादुत्पत्तिर्यथा, -- “काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्” ॥ इति श्रीभगवद्गीतायां ३ । ३७ ॥

कामम्, व्य (कमेर्णिजन्तात् अमु ।) अकामानुमतिः । इत्यमरः । ३ । ४ । १३ ॥ (यथा, शाकुन्तले ५ अङ्के “महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते” ॥) अनुमतिः । प्रकामम् । असूया । अनुगमनम् । इति मेदिनीकरहेमचन्द्रौ ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।25।2।4

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

काम पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।26।6।2

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

काम पुं।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

1।7।28।1।1

कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः। उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

काम नपुं।

यथेप्सितम्

समानार्थक:काम,प्रकामम्,पर्याप्त,निकामम्,इष्ट,यथेप्सितम्,लघु,स्वादु

2।9।57।1।1

कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्. गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

काम पुं।

इच्छा

समानार्थक:वश,कान्त,इष्टि,काम

3।3।138।2।1

किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ। इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ॥

 : परद्रव्येच्छा, बुभुक्षा, पिपासा, जिज्ञासा

पदार्थ-विभागः : , गुणः, मानसिकभावः

काम अव्य।

अकामानुमतिः

समानार्थक:काम

3।4।13।2।1

समन्ततस्तु परितः सर्वतो विष्वगित्यपि। अकामानुमतौ काममसूयोपगमेऽस्तु च॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम¦ अव्य॰ कम--घञ्।

१ अनुज्ञायां विश्वः।

२ निकामे

३ अत्यर्थे

४ काम्ये न॰ मेदि॰ कामाय हितम् अण्।

५ रेतसि न॰ मेदि॰

६ वाढमित्यर्थे,

७ अनुमतौ
“काममामरणात् तिष्ठेत् गृहेकन्यर्त्तुमत्यपि” यममनूः।
“मनागनभ्यावृत्त्या वा कामंक्षम्यतु यः क्षमी” माघः।

८ इच्छायाम्
“कामः सङ्कल्पोवि-चित्सा श्रद्धाऽश्रद्धा धृतिरधतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मनएव” श्रुतेः तस्य मनोधर्मत्वमिति वेदान्तिनः सांख्याश्च मन्यन्तेमनोहेतुकत्वोक्तावेव श्रुतेस्तात्पर्यं मन्यमाना आत्मधर्मत्व-मिति नैयायिका आहुः। अभिलाषशब्दे इच्छाशब्देचास्य विवृतिः।
“सङ्कल्पमूलः कामो वै यज्ञाः सङ्क-ल्पसम्भवाः” इत्युपक्रम्य
“अकामस्य क्रिया काचित्दृश्यते नेह कर्हिचित्। यद्यद्धि कुरुते किञ्चित्तत्तत् कामस्य चेष्टितम्” इति मनुना सर्व्वक्रियां प्रतिकामस्य हेतुत्वमुक्तम्।
“सङ्कल्पः अनेन कर्म्मणा इदमिष्टंफलं साध्यताम्” इति बुद्धिः। तथाच इष्टसाधनता-ज्ञानरूपात् सङ्कल्पात् काम इच्छा भवति, ततः क्रिया-निष्पत्तिः। सचाप्राप्तविषयस्य प्राप्तिसाधने चित्तवृत्तिभेदःकामस्तु रजोगुणहेतुकः। यथोक्तं गीतायाम्
“कामएषक्रोधएष रजोगुणसमुद्भवः” कामश्च इष्टविषयाभिलाषः।
“पुंसों या विषयापेक्षा स काम इति भण्यते”। पुमानादौकाममय एव भूत्वार्थकर्मकृत्। यतोऽयं कर्मणोहेतुः कामो-ऽतोऽस्य प्रधातता”
“सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते” गोता। कर्मणि घञ।

९ कामनाविषये, कामना-विषयश्च त्रिविधः वाह्याभ्यन्तरवासनामयभेदात् तत्र गृह-क्षेत्रादिकं शब्दादिविषयाश्च वाह्यविषयाः शारीरमानसिक-कर्म्मजातम् आभ्यन्तरः संघः स्वप्नहेतुकः वासनाययः
“नजातु कामः कामानामुपभीगेन शाम्यति। हविषा कृष्ण-वत्मेव भूयएवाभिवर्द्धते”{??}अनुः। धर्मार्थकाममोक्षमध्येकामशब्देन काम्यस्यैव ग्रहणं तस्यैव पुरुषार्थत्वात् पुरुषेणइष्यमाणत्वात् इच्छायास्तथात्वाभावात्।
“अप्यर्थ-कामौ तस्यास्तां धर्मएव मनीषिणः” रघुः।
“सन्तानकामस्य तथेति कामम्” रघुः। काम्यमानत्वात् कामंवरमित्यर्थः।
“तथेति काम प्रतिशुश्रुवान् रघोः” रघुः। [Page1889-b+ 38]
“इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम्” रघुः। कामनाविषयश्च सुखस्वरूपमात्मैवेति वेदान्तिनः,तदेव मुख्यं प्रयोजनम्
“नवा अरे पत्युः कामायपतिः प्रियोभवति आत्मनस्तु कामाय पतिः प्रियोभवति” वृ॰ उप॰ सुखस्वरूपात्मन एव परप्रेमास्पदत्वो-क्तेः। तत्साधनानान्तु गौणप्रयोजनत्वम्। सुखमिवदुःखाभावोऽपि मुख्यं काम्यमिति नैयायिकादयः,
“मोक्षकाङ्क्षिभिः काम्यमाने

१० परमेश्वरे च।
“कामहाकामकृत् कान्तः कामः कामप्रदः प्रभुः” विष्णुस॰। स्त्रीपुरुषयोः उपस्थसाध्यानन्दसाधने तयोः परस्प-रालिङ्गनादिप्रवर्त्तके

११ अनुरागभेदे तत्रैव लोकेकामशब्दस्य रूढिर्दृश्यते। स च तिथिविशेषे स्त्री-पुरुषयोः स्थानविशेषएव चुम्बनादिना व्यज्यते, यथोक्तंस्मरदीपिकायाम्
“पादे गुल्फे तथोरौ च भगे नाभौकुचे हृदि। कक्षे कण्ठे तथौष्ठे च गण्डे नेत्रेश्रुतावपि। ललाटे शोर्षकेशेषु कामस्थानं तिथिक्रमात्। दक्षे पुंसां स्त्रिया वामे शुक्ले कृष्णे विपर्य्ययः। पादाङ्गुष्ठेप्रतिपदि द्वितीयायाञ्च गुल्फके। ऊरुदेशे तृतीयायांचतुर्थ्या” भगदेशतः। नाभिस्थाने च पञ्चम्यां षष्ठ्यान्तुकुचमण्डले। सप्तम्यां हृदये चैव अष्टम्यां कक्षदेशतः। नवम्यां कण्ठदेशे च दशम्यां चोष्ठदेशतः। एकादश्यां गण्ड-देशे द्वादश्यां नयनेतथा। श्रवणे च त्रयोदश्यां चतुर्द्दश्यांललाटके। पौर्णमास्यां शिखायाञ्च ज्ञातव्यञ्च इतिक्रमात्। यत्र स्थाने वसेत् कामस्तत्रैव नखचुम्बनम्।
“हदि कामः भ्रुवोः क्रोधो लोभश्चाधोरदच्छदात्” भाग॰। तस्य समष्टिरूपस्य विराजो ब्रह्मणः हृदय-जातत्वेन व्यष्टीनामप्यस्मदादीनामपि मनसिजन्यत्वम्। प्राणिनां जन्मावधि सर्वकालेष्वस्य वर्त्तमानत्वेऽपि यौवनेएवास्य यथा प्रादुर्भावस्तथा कालिका॰ पु॰

१९ ।

२२ अ॰ वर्णितं यथा
“ब्रह्मापि तनयां सन्ध्यां दृष्ट्वा पूर्ब्बमथात्मनः। कामा-याशु मनश्चक्रे त्यक्त्वा बुद्धिं सुतेति वै। तस्याश्च चलितंचित्तं कामवाणविलोडितम्। ऋषीणां प्रेक्षतां तेषांमानसानां महात्मनाम्। भर्गस्य वचनं श्रुत्वा सोपहासंविधिं प्रति। आत्मनश्चलचित्तत्वममर्य्यादमृषीन् प्रति। कामस्य तादृशं भावं मुनिमोहकरं तदा। दृष्ट्वा सन्ध्यास्वयं तत्र त्रपामापातिदुःखिता। ततस्तु ब्रह्मणा शप्तेमदने तदनन्तरम्। अन्तर्भूते विधौ शम्भौ गते चापि[Page1890-a+ 38] निजास्पदे। अमर्षवशमापन्ना सन्ध्या ध्यानपराऽभवत्”। ( ततस्तस्यास्तपसा तीषितेन विष्णुना तत्प्रार्थनया कामप्र-वृत्तिकालनियमनरूपोवरोदत्तो यथा
“सन्ध्योवाच। यदिदेव! प्रसन्नोऽसितपसा मम संप्रति। वृतस्तदायं प्रथमं बरोमम विधीयताम्। उत्पन्ननात्रा देवेश! प्राणिनोऽस्मिन्भुवस्तले। न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै। श्री-भगवानुवाच। प्रथमं शैशवो भावः कौमाराख्यो द्विती-यकः। तृतीयो यौवनो भावश्चतुर्थं वार्द्धकं तथा। तृतीयेत्वथ संप्राप्ते वयोभागे शरीरिणः। सकामाः स्युर्द्विती-यान्ते भविष्यन्ति क्वचित् क्वचित्। तपसा तव मर्य्यादाजगति स्थापिता मया। उत्पन्नमात्रा न यथा सकामाःस्युः शरीरिणः”। तथा च कामप्रवृत्तिहेतुर्हि शुक्रवृद्धिःबाल्ये च शुक्रवृद्धेरसम्भवात् न कामप्रवृत्तिः। बाला-नामपि अन्नरसपाकेन चरमधातोः शुक्रस्योद्भवसम्भवेऽपितस्य सूक्ष्मत्वात् न प्रसरणम् यथाह भावप्र॰।
“बालानांशुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते। पुष्पाणां मुकुलेगन्धो यथा सन्नपि नाप्यते। तेषां तदेव तारुण्येपुष्टत्वाद्व्यक्तिमेति हि। कुसुमानां प्रफुल्लानां गन्धः प्रादु-भवेद्यथा”। तत्र कारणञ्च अनुपदोक्तविष्णुवर एवइति न बाल्ये तस्य प्रादुर्भावः।

१२ तादृशानुरागाधिष्ठातृदेवभेदे स च पञ्चाशद्विधः। यथोक्तं शा॰ ति॰ टी॰राधवभट्टेन यथा
“काम

१ कामद

२ कान्ता

३ श्चकान्तिमान्

४ कामग

५ स्तथा। कामचारश्च

६ कामी

७ च कामुकः

८ कामवर्द्धनः

९ । रामो

१० रमश्च

११ रमणो

१२ रतिनाथो

१३ रतिप्रियः

१४ । रात्रिमाथो

१५ रमाकान्तो

१६ रममाणो

१७ निशाचरः

१८ । नन्दको

१९ नन्दन श्चैव

२० नन्दी

२१ नन्दयिता

२२ पुनः। पञ्चवाणो

२३ रतिसखः

२४ पुष्पधन्वा

२५ महाधनुः

२६ । भ्रामणो

२७ भ्रमण

२८ श्चैव भ्रममाणो

२९ भ्रमोत्तरः

३० । भ्रान्त श्च

३१ भ्रमुको

३२ भृङ्गो

३३ भ्रान्तचारो

३४ भ्रमावहः

३५ । मोहनो

३६ मोहको

३७ मोहो

३८ मोहवर्द्धन

३९ एव च। मदनो

४० मन्मथ

४१ श्चैव मातङ्गो

४२ भृङ्गनायकः

४३ । गायनो

४४ गीतिज

४५ श्चैव नर्त्तनः

४६ खेलक

४७ स्तथा। उन्म-त्तोन्मत्त{??}

४८ श्चैव विला{??}

४९ लोभवर्द्धनः

५० ”। ( तेन च कार्त्तिकेयोत्पत्तरे शिवध्यान भङ्गार्थमिन्द्रनि{??}क्तेनशिवध्य नभङ्गार्थमुद्युक्तेन पानभङ्गजनितहरकोपात् भस्मी-भावमा{??}आद्याङ्गहीनत्रमाप्त। यथाह शिवपु॰

१४ अ॰। [Page1890-b+ 38]
“कामोधनुषि संयोज्य पुष्पवाणं तदा सुते!। पार्वतीसन्मुखे स्थाणौ मोक्तुकामो व्यवस्थितः। हरस्तु र्धर्य्य-मालम्ब्य किमेतदिति चिन्तयन्। ददर्श पृष्ठतः कार्मंपुष्पबाणधनुर्धरम्। विवृद्धमन्योस्तस्याथ तृतीयनय-नान्मुने! स्फुरन्नुदर्च्चिरग्निस्तु पपात मदनोपरि। क्रोधं संहर हे देव! इति यावत् वदन्ति खे। इन्द्रा-दिसकलादेवास्तावद्भस्मीचकार तम्” स च पश्चात् वासु-देवात् रुक्मिण्यां प्रादुर्भूय मायावतीरूपां रतिं शम्बर-भार्य्यात्वेन प्रथितामुपयेमे। तदेतत् हरि॰ वर्ण्णितम्।
“रुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामोधृतव्रतः। शम्बरान्त-करोजज्ञे प्रद्युम्नः कामदर्शनः। त सप्तरात्रे सम्पूर्णेनिशीथे सूतिकागृहात्। जहार कृष्णस्य सुतं शिशुंवै शम्बरो नृप!। स मृत्यना परीतायुर्म्मायया प्रज-हार तम्। दोर्भ्यासुत्क्षिप्य नगरं स्वंनिनाय महा-सुरः। अनपत्या तु तस्यासीद्भार्य्या रूपगुणान्विता। नाम्नामायावती नाम मायेव शुभदर्शना। ददौ तं वासु-देवस्य पुत्त्रं पुत्त्रमिवात्मजम्। तस्या महिष्या नाथिन्यादानवः कालचोदितः। मायावती तु तं दृष्ट्वा सम्प्रहृष्टतनू-रुहा। हर्षेण महता युक्ता पुनःपुनरुदैक्षत। अथ तस्यानिरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह। अयं स मम कान्तोऽ-भूत् स्मृत्येवं चान्वचिन्तयत्। अयं स नाथोमर्त्ता मे यस्यार्थेहि दिवानिशम्। चिन्ताशोकह्रदे मग्ना न विन्दामिरतिं क्वचित्। अयं भगवता पूर्व्वं देवदेवेन शूलिना। खेदितेन कृतोऽनङ्गो दृष्टोजात्यन्तरे मया। कथमस्यस्तनं दास्ये मातृभावेन जानती। भर्त्तुर्भार्य्या त्वहं भूत्वावक्ष्ये वा पुत्र इत्युत। एवं सञ्चिन्त्य मनसा धात्र्यास्तंसा समर्पयत्। रसायनप्रयोगैश्च शीघ्रमेवान्ववर्द्धयत्। धात्र्याः सकाशात् स च तां शृण्वन् रुक्मिणिनन्दनः। मायावतीमविज्ञानान्मेने स्वामेव मातरम्। सा च तं वर्द्ध-यामास कार्ष्णिं कमललोचनम्। माया श्चास्मै ददौ सर्व्वादानवीः काममोहिता। स यदा यौवनस्थस्तु प्रद्युम्नः काम-दर्शनः। चिकार्षितज्ञो नारीणां सर्व्वास्त्रविधिपारगः। तं सा मायावती कान्तं कामयामास कामिनी” हरि॰

१६

३ अ॰।
“कुमार! पश्य मां प्राप्तं देवगन्धर्वनारदम्। प्रेषितं देवराजेन तव सम्बोधनाय वै। स्मर त्वं पूर्व्वकंभावं कामदेवोऽसि मानद!। हरकोपानलाद्दग्धस्तेना-नङ्गस्त्विहोच्यसे। त्वं वृष्णिवंशे जातोऽसि रुक्मिण्यागर्भसम्भवः। जातोऽसि केशवेन त्वं प्रद्युम्न इति[Page1891-a+ 38] कीर्त्त्यसे। आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद!। सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः। बधार्थं शम्ब-रस्य त्वं ह्रियमाणो ह्युपेक्षितः। केशवेन महाबाहो!। देवकार्यार्थसिद्धये। यैषा मायावती नाम भार्या वै शम्बरस्यतु। रतिं तां विद्धि कल्याणी तव भार्यां पुरातनीम्। तवसा रक्षणार्थाय शम्बरस्य गृहेऽवसत्। मायां शरीरजांन्यस्य मोहानार्थं दुरात्मनः। रतेरुत्पादनार्थाय प्रेषयत्य-निशं तदा। एवं प्रद्युम्न! बुद्ध्वा वै तव भार्यां प्रतिष्ठिताम्। हत्वा तं शम्बरं वीर! वैष्णवास्त्रेण संयुगे। गृह्य मायावतीभार्यां द्वारकां गन्तुमर्हसि” हरि॰

१६

५ अ॰
“कामं प्रति-नारदवाक्यम्।
“सोऽब्रवीत् सहसा देवीं रुक्मिणीं देवता-मिव। अयं स देवि! संप्राप्तः पुत्रश्चापधरस्तव। अनेनशम्बरं हत्वा मायायाञ्च विशारदम्। हृता मायाश्च ताःसर्व्वा याभिर्देवानबाधत। सती चेयं शुभा साध्वी भार्याऽपितनयस्य ते। मायावतीति विख्याता शम्बरस्य गृहोषिता। मा च ते शम्बरस्येयं पत्नीति भवतु व्यथा। मन्मथेऽथ गतेनाशं गते चानङ्गतां पुरा। कामपत्नी, न कान्तैषा शम्ब-रस्य रतिः प्रिया। मायारूपेण तं दैत्यं मोहयन्त्य-सकृच्छुभा। न चैषा तस्य कौमारे वशे तिष्ठति शोभना। आत्ममायामयं कृत्वा रूपं शम्बरमाविशत्। पत्न्येषा ममपुत्रस्य स्नुषा तव वराङ्गना” हरि॰

१६

७ अ॰। रुक्मिणींप्रति कृष्णवाक्यम्। तेन

१३ रौक्मिणेये पु॰

१४ बलदेवेशब्दर॰ तस्य कामपालत्वात्तथात्वम्।

१५ महाराजचूते राजनि॰। कर्मपूर्ब्बकात् कामयतेः कर्त्तरि अण्। तत्तत्पदार्थकामनायुक्ते यथा स्वर्गकामोऽश्वमेधेन यजेतपशुकामः प्रजाकाम इत्यादि। घञ्न्तकामशब्दे परेतुमुन्नन्तस्यान्तलोपः। यथा गन्तुकामः रन्तुकामः इत्यादिवृषादि॰ तस्याद्युदात्तता। कामनायुक्तवाचककामादिशब्द-समभिव्याहारे यागे तन्नियोज्यकत्वं तत्कृतिसाध्यत्वञ्चमतभेदेन प्रतीयते यथा स्वर्गकामो यजेतेत्यत्र स्वर्गकामनियोज्यकस्तत्कृतिसाध्योवा याग इति बोधः। लिङादिनायागादेः कर्त्तव्यत्वबोधनात् यागादेस्तथात्वम्। यागजन्य-फलं च कामनावतीव तत्तत्फलकामनोद्देश्येऽपि भवति अतःपितृस्वर्गकामनया कृतपूर्त्तादेः फलं पितरीति मणिकृत्। अर्थशब्देन द्वन्देऽस्य वा पूर्व्वं निपातः। अर्थकामौ कामार्थौ। तन्त्रोक्ते

१६ वीजभेदे। तदुद्धारो यथा तन्त्रसा॰ कुलार्ण्णवे
“देवीं दक्षिणबाहुशक्रनयनं कामं कलालाञ्छितम्” दक्षिणबाहुः ककारस्तस्य वर्ण्णस्य मातृकान्यासे दक्षबाहु-[Page1891-b+ 38] मूले न्यस्यत्वात् तथात्वम् शक्रोलकारः नयनं वाननेत्रं तेनईकारः कलालाञ्छितं विन्दुभूषितम् तेन क्लीम् इत्येवं रूपंकामम् इत्यर्थः। प्रकारान्तरेण तदुद्धारः तन्त्रसा॰ श्रीक्रमे।
“तां विद्यां शृणु देवेशि! काममिन्द्रसमन्वितम्। नाद-विन्दुकलाभेदात् तुरीयस्वरसयुतम्। महाश्रीसुन्दरीविद्या महात्रिपुरसुन्दरी। ककारे सर्व्वमुत्पन्नं कामे-कैवल्यदायकम्। लकारे सकलैश्वर्य्यमीकारे सर्व्वसौ-ख्यदम्” कुब्जिकात॰।
“परा च कमला कामो वाग्-भवं शक्तिरेव च”।

१७ ककाराक्षरे च। शिववीजं (ह)। तथा कामं (क) इन्द्रम् (ल) देवीं (स) नियोजयेत्। षोडशीविद्यायां शक्तिकूटोद्धारे।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम¦ m. (-मः)
1. KAMA the Hindu Cupid or deity of love.
2. Wish, [Page173-a+ 60] desire.
3. BALARAMA the brother of KRISHNA.
4. The mango tree. f. (-मा) Love, desire. n. (-मं)
1. Semen virile.
2. An object of desire.
3. Willingly, voluntarily.
4. A particle of assent or agreement: see कामम्। ind. (in composition.) Following one's own desire, as कामवाद speaking what one lists; कामभक्ष eating whatever one likes; कामचार doing whatever one chuses; in law, a child previous to the imposi- tion of the characteristic cord is all these. E. कम् to desire, घञ् aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामः [kāmḥ], [कम्-घञ्]

Wish, desire; संतानकामाय R.2.65, 3.67; oft. used with the inf. form; गन्तुकामः desirous to go; संगात्संजायते कामः Bg.2.62; Ms.2.94.

Object of desire; सर्वान् कामान् समश्नुते Ms.2.5; Bṛi. Up.1.3.28. Kaṭh. Up.1.25.

Affection, love.

Love or desire of sensual enjoyments, considered as one of the ends of life (पुरुषार्थ); cf. अर्थ and अर्थकाम.

Desire of carnal gratification, lust; Ms.2.214; न मय्यावेशितधियां कामः कामाय कल्पते Bhāg.1.22.26.

The god of love.

N. of Pradyumna.

N. of Balarāma.

A kind of mango tree.

The Supreme Being. -मा Desire, wish; उवाच च महासर्पं कामया ब्रूहि पन्नग Mb.3.179.2.

मम् Object of desire.

Semen virile. [Kāma is the Cupid of the Hindu mythologythe son of Kṛiṣṇa and Rukmiṇī. His wife is Rati. When the gods wanted a commander for their forces in their war with Tāraka, they sought the aid of Kāma in drawing the mind of Śiva towards Pārvatī, whose issue alone could vanquish the demon. Kāma undertook the mission; but Śiva, being offended at the disturbance of his penance, burnt him down with the fire of his third eye. Subsequently he was allowed by Śiva to be born again in the form of Pradyumna at the request of Rati. His intimate friend is Vasanta or the spring; and his son is Aniruddha. He is armed with a bow and arrowsthe bow-string being a line of bees, and arrows of flowers of five different plants].

Comp. अग्निः a fire of love, violent or ardent love.

violent desire, fire of passion. ˚संदीपनम्

inflaming fire of love.

an aphrodisiac.

अङ्कुशः a fingernail (which plays an important part in erotic acts).

the male organ of generation. -अङ्गः the mango tree. -अधिकारः the influence of love or desire.-अधिष्ठित a. overcome by love. -अनलः see कामाग्नि.-अन्ध a. blinded by love or passion. (-न्धः) the (Indian) cuckoo. -अन्धा musk. -अन्निन् a. getting food at will. -अभिकाम a. libidinous, lustful. -अरण्यम् a pleasant grove.

अरिः an epithet of Śiva; ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् Rām.7.6.3.

a mineral substance. -अर्थिन् a. amorous, lustful, lascivious. -अवतारः N. of Pradyumna. -अवशा(सा)यिता f.

Self-control.

a kind of Yogic power. -अवसायः suppression of passion or desire, stoicism.

अशनम् eating at will.

unrestrained enjoyment. -आख्या, -अक्षी N. of Durgā. -आतुर a. love-sick, affected by love; कामातुराणां न भयं न लज्जा Subhāṣ. -आत्मजः an epithet of Aniruddha, son of Pradyumna. -आत्मन् a. lustful, libidinous, enamoured. कामात्मानः स्वर्गफलाः Bg.2.43. Mb.1.119.3-4. Ms.7.27.

आयुधम् arrow of the god of love.

membrum virile. (-धः) the mango-tree. -आयुस् m.

a vulture.

Garuḍa. -आर्त a. love-stricken, affected by love; कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु Me.5. -आश्रमः the hermitage of the god of love; Rām.1. -आसक्त a. overcome with love or desire, impassioned, lustful.-इष्टः the mango tree. -ईप्सु a. striving to obtain a desired object, यत्तु कामेप्सुना कर्म Bg.18.24.

ईशः, ईश्वरः an epithet of Kubera;

the Supreme soul.

a person possessing all wealth. अपास्य कामा- न्कामेशो वसेत्तत्राविचारयन् Mb.12.287.56.

उदकम् voluntary libation of water.

a voluntary libation of water to deceased friends exclusive of those who are entitled to it by law; कामोदकं सखिप्रत्तास्वस्रीयश्वशुर- र्त्विजाम् Y.3.4. -उपहत a. affected by or overcome with passion. -कला N. of Rati, the wife of Kāma.-काम, -कामिन् a. following the dictates of love or passion, गतागतं कामकामा लभन्ते Bg.9.21; स शान्तिमाप्नोति न कामकामी Bg.2.7. -कार a. acting at will, indulging one's desires.

(रः) voluntary action, spontaneous deed; Rām.2.11.18; Ms.11.41,45.

desire, influence of desire; अयुक्तः कामकारेण फले सक्तो निबध्यते Bg.5. 12.

कूटः the paramour of a harlot.

harlotry.-कृत् a.

acting at will, acting as one likes.

granting or fulfilling a desire. (-m.) the Supreme soul.-केलि a. lustful.

(लिः) a paramour.

amorous sport.

copulation.

क्रीडा dalliance of love, amorous sport.

copulation. -ग a. going of one's own accord, able to act or move as one likes.

(गा) an unchaste or libidinous woman; Y.3.6.

a female Kokila. -गति a. able to go to any desired place; अध्यास्त कामगति सावरजो विमानम् R.13.76.

गुणः the quality of passion, affection.

satiety, perfect enjoyment.

an object of sense. -चर, -चार a. moving freely or unrestrained, wandering at will; सर्वेषु लोकेष्वकामचारो भवति Bṛi. Up.7.25.2; नारदः कामचरः Ku.1.5. -चार a. unchecked, unrestrained.

(रः) unrestrained motion.

independent or wilful action, wantonness; न कामचारो मयि शङ्कनीयः R.14.62.

one's will or pleasure, free will; अव्यपवृक्ते कामचारः Mbh. on Śiva Sūtra 3.4. कामचारानुज्ञा Sk.; Ms.2.22.

sensuality.

selfishness. -चारिन् a.

moving unrestrained; Me.65.

libidinous, lustful.

self-willed. (-m.)

Garuḍa.

a sparrow. -ज a. produced by passion or desire; Ms.7.46,47,5. -जः anger; रथो वेदी कामजो युद्धमग्निः Mb.12.24.27. -जननी betel-pepper (नागवेली). -जानः, -निः See कामतालः. -जित् a. conquering love or passion; R.9.33. (-m.)

an epithet of Skanda.

of Śiva. -तन्त्रम् N. of a work. -तालः the (Indian) cuckoo. -द a. fulfilling a desire, granting a request or desire. (-दः) an epithet of Skanda and of Śiva. -दहनम् a particular festival on the day of full moon in the month फाल्गुन (Mar. होलिकोत्सव). -दा = कामधेनु q. v. -दर्शन a. looking lovely.

दानम् a gift to one's satisfaction.

a kind of ceremony among prostitutes; B. P. -दुघ a. 'milking one's desires', granting every desired object; प्रीता कामदुघा हि सा R.1.81,2.63; Māl.3.11. -दुघा, -दुह् f. a fabulous cow yielding all desires; आयुधानामहं वज्रं धेनूनामस्मि कामधुक् Bg.1.28. स्वर्गे लोके कामधुग्भवति Mbh. on P.VI.1.84. -दूती the female cuckoo. -दृश् f. a woman; विमोचितुं कामदृशां विहारक्रीडामृगो यन्निगडो विसर्गः Bhāg.7.6.17.

देव the god of love.

N. of Śiva.

N. of Viṣṇu.-दोहिन् a. granting desires. -धर्मः amorous behaviour.-धेनुः f. the cow of plenty, a heavenly cow yielding all desires; कलतिवलती कामधेनू; or कलिवली कामधेनू Vyākaraṇa Subhāṣita. -ध्वंसिन् m. an epithet of Śiva.-पति, -पत्नी f. Rati, wife of Cupid. -पालः N. of Balarāma; also of Śiva. -प्रद a. granting desires.

(दः) a kind of coitus.

the Supreme Being.-प्रवेदनम् expressing one's desire, wish or hope; कच्चित् कामप्रवेदने Ak. -प्रश्नः an unrestrained or free question; स ह कामप्रश्नमेव वव्रे Bṛi. Up.4.3.1. -फलः a species of the mango tree. -ला the plantain tree.-भाज् a. partaking of sensual enjoyment; कामानां त्वा कामभाजं करोमि Kaṭh.1.24. -भोगाः (pl.) sensual gratifications; प्रसक्ताः कामभोगेषु Bg.16.16. -महः a festival of the god of love celebrated on the full-moon day in the month of Chaitra. -मालिन् m. N. of Gaṇeśa. -मूढ, -मोहित a. influenced or infatuated by love; यत्क्रौञ्च- मिथुनादेकमवधीः काममोहितम् U.2.5.

रसः seminal discharge.

the spling -रसिक a. lustful, libidinous; क्षणमपि युवा कामरसिकः Bh.3.112. -रूप a.

taking any form at will; जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः Me.6.

beautiful, pleasing. (-पाः) (pl.) a district lying in the east of Bengal (the western portion of Assam); तमीशः कामरूपाणाम् R.4.83,84.-रूपिन् a.

taking any form at will; कामान्नी कामरूपी Tait. Up.3.1.5.

beautiful. -m.

a pole-cat.

a boar.

a Vidyādhara. -रेखा, -लेखा a harlot, courtezan. -लता membrum virile. -लोल a. overcome with passion, love-stricken. -वरः a gift chosen at will.

वल्लभः the spring.

the moon.

the mango tree. (-भा) moonlight.-वश a. influenced by love. (-शः) subjection to love.-वश्य n. subject to love. -वाद a. saying anything at will. -विहन्तृ a. disappointing desires. -वीर्य a. 'showing heroism at will,' an epithet of Garuḍa. -वृक्षम्a. paracitical plant. -वृत्त a. addicted to sensual gratification, licentious, dissipated; विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ Ms. 5.154. -वृत्ति a. acting according to will, self-willed, independent; न कामवृत्तिर्वचनीयमीक्षते Ku.5.82. (-त्तिः) f.

free and unrestrained action.

freedom of will.-वृद्धिः f. increase of passion. -वृन्तम् the trumpet flower.

शर a love shaft.

the mango tree.-शास्त्रम् the science of love, erotic science. -संयोगः attainment of desired objects.

सखः the spring.

the month of Chaitra.

the mango tree. -सू a. fulfilling any desire. किमत्र चित्रं यदि कामसूर्भूः R.5.33.-m. N. of Vāsudeva. -f. N. of Rukmiṇi;

सूत्रम् N. of an erotic work by Vātsyāyana.

'thread of love', love-incident' औद्धत्यमायोजितकामसूत्रम् Māl.1.4.-हैतुक a. produced by mere desire without any real cause; Bg.16.8.

कामम् [kāmam], ind.

According to wish or inclination, at will; कामंगामी.

Agreebly to desire; ये तिष्ठन्ति भवन्तु ते$पि गमने कामं प्रकामोद्यमाः Mu.1.25.

To the heart's content, U.3.16.

Willingly, joyfully; Śānti.4.4.

Well, very well (a particle of assent), it may be that; मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी Śi.2.43.

Granted or admitted (that), true that, no doubt, (generally followed by तु, तथापि, yet, still); कामं न तिष्ठति मदाननसंमुखी सा भूयिष्ठमन्यविषया न तु दृष्टिरस्याः Ś.1.3; 2.1; कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने R.4.13; कामं जीवति मे नाथः R.12.75; कामं नृपाः सन्तु सहस्रशो$न्ये R.6.22; Māl.9.34.

Indeed, forsooth, really; R.2.43; (often implying unwillingness or contradiction).

Better, rather (usually with न); काममामरणात्तिष्ठेद् गृहे कन्यर्तुमत्यपि । न चैवेनां प्रयच्छेत्तु गृणहीनाय कर्हिचित् ॥ Ms.9.89; H.1.112.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम etc. See. s.v.

काम m. (fr. 2. कम्; once कामVS. xx , 60 ), wish , desire , longing( कामो मे भुञ्जीत भवान्, my wish is that you should eat Pa1n2. 3-3 , 153 ), desire for , longing after( gen. dat. , or loc. ) , love , affection , object of desire or of love or of pleasure RV. VS. TS. AV. S3Br. MBh. R. etc.

काम m. pleasure , enjoyment

काम m. love , especially sexual love or sensuality

काम m. Love or Desire personified AV. ix

काम m. xii

काम m. xix (See. RV. x , 129 , 4 ) VS. Pa1rGr2.

काम m. N. of the god of love AV. iii. 25 , 1 MBh. Lalit.

काम m. (represented as son of धर्मand husband of रति[ MBh. i , 2596 ff. Hariv. VP. ] ; or as a son of ब्रह्माVP. ; or sometimes of संकल्पBhP. vi , 6 , 10 ; See. काम-देव)

काम m. N. of अग्निSV. ii , 8 , 2 , 19 , 3 AV. TS. Ka1tyS3r. S3a1n3khS3r.

काम m. of विष्णुGal.

काम m. of बलदेव(See. काम-पाल) L.

काम m. a stake in gambling Na1r. xvi , 9

काम m. a species of mango tree(= महा-राज-चूत) L.

काम m. N. of a metre consisting of four lines of two long syllables each

काम m. a kind of bean L.

काम m. a particular form of temple Hcat.

काम m. N. of several men

काम n. object of desire L.

काम n. semen virile L.

काम n. N. of a तीर्थMBh. iii , 5047

काम mfn. wishing , desiring RV. ix , 113 , 11

काम n. ( ifc. )desirous of , desiring , having a desire or intention(See. गो-क्, धर्म-क्; frequently with inf. in तुSee. त्यक्तु-क्.)

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--God of Love (s.v.); born of ब्रह्मा's heart. Burnt by शिव, was reborn as Pradyumna, son of कृष्ण, an अंश of वासुदेव. फलकम्:F1:  भा. III. १२. २६; VIII. 7. ३२; X. ५५. [2]; Vi. V. २७. २८.फलकम्:/F Sent by Indra to spoil Nara's penance; फलकम्:F2:  भा. XI. 4. 7.फलकम्:/F [page१-349+ ३३] to induce शिव to marry उमा. फलकम्:F3:  M. १५४. २०९-239.फलकम्:/F For having observed विभू- तिद्वादशीव्रतम्, अनङ्गवती the courtesan became co-wife with Rati, and her name was प्रीति. फलकम्:F4:  M. 7. १३; १००. ३२९.फलकम्:/F Icon of. फलकम्:F5:  M. २६१. ५३-6.फलकम्:/F Worshipped शिव in सिद्धेश्वरम् and attained divinity again. फलकम्:F6:  M. १९१. ११०.फलकम्:/F His arrow afflicted ब्रह्मा who was made to love his own daughter, cursed by ब्रह्मा to be burnt by Rudra; when pointed out that he only discharged his duty, he modified the curse to be born as son of कृष्ण, then of Vasu in Bharata line, to get overlordship of विद्याधरस् and finally attain godhood; afflicted the nine देवीस्. फलकम्:F7:  M. 3. ३३; 4. १२-21; २३. २३.फलकम्:/F
(II)--a son of Samkalpa. भा. VI. 6. १०.
(III)--a विश्वेदेव. Br. III. 3. ३०; वा. ६६. ३१.
(IV)--the son of श्रद्धा and Dharma and father of हर्ष (joy) through his wife Rati (सिद्धि-ब्र्। प्।)। Br. II. 9. ५८, ६२; वा. १०. ३४, ३८.
(V)--the Apsaras clan of Sobhayantya, originat- ed from. Br. III. 7. २४; वा. ६९. ५८.
(VI)--place of, in life; फलकम्:F1:  भा. I. 2. 9-१०;फलकम्:/F does not end in spite of भोग or enjoyment, but grows like fire with oblation; cf. रामायण; notwithstanding old age desire to live and to amass wealth does not go. फलकम्:F2:  वा. ९३. ९५, १००.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāma : nt.: Name of a tīrtha.

Sacred to Rudra (kāmākhyaṁ tatra rudrasya tīrtham); it was visited by the divine sages (devarṣisevitam); by bathing there one obtained siddhi quickly (kṣipram) 3. 80. 113.


_______________________________
*1st word in left half of page p307_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāma : nt.: Name of a tīrtha.

Sacred to Rudra (kāmākhyaṁ tatra rudrasya tīrtham); it was visited by the divine sages (devarṣisevitam); by bathing there one obtained siddhi quickly (kṣipram) 3. 80. 113.


_______________________________
*1st word in left half of page p307_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काम&oldid=495754" इत्यस्माद् पुनः प्राप्तिः