कामरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामरूपः, पुं, (मूलप्रकृतिर्भगवती कामरूपिणी सती यत्र देशे विराजमाना स देशस्तन्नाम्ना एव उच्यते ।) स्वनामख्यातदेशः । तत्पर्य्यायः । प्राग्- ज्योतिषः २ । इति त्रिकाण्डशेषः ॥ तत्र काम- गिरौ योनिपीठे कामाख्या देवी वर्त्तते । यथा । “योनिपीठं कामगिरौ कामाख्या तत्र देवता” । “सर्व्वत्र विरला चाहं कामरूपे गृहे गृहे” ॥ इति तन्त्रचूडामणौ पीठमाला ॥ (अयं हि गणेश- गिरिशिखरस्थो देशः । यदुक्तं तन्त्रे । “कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम् । कामरूपाभिधो देशो गणेशगिरिमूर्द्ध्वनि” ॥ कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतं यावत् ॥ अयं खलु वङ्गदेशस्य ईशानभागे आसामप्रदेशस्य पश्चिमभागे वर्त्तते ॥)

कामरूपः, त्रि, (कामं काम्यं मनोहरं रूपं यस्य ।) मनोज्ञरूपः । स्वेच्छारूपः । (यथा महाभारते । १ । सुपर्णस्तुतौ २३ । ६ । “कामरूपः कामगर्भः कामबीर्य्यो विहङ्गमः” ॥) तथा च । मेघदूते ६ । “जातं वंशे भूवनविदिते पुष्करावर्त्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामरूप¦ पु॰
“कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम्। (यावदतिशेषः) कामरूपाभिधोदेशो गणेशगिरिमूर्द्धनि” इत्युक्तकालेश्वरादिगिरिचतुष्टयमध्यवर्त्तिनि गणेशगिरिमूर्द्धस्थेप्राग्ज्योतिषाख्ये देशभेदे।
“योनिपीडे कामगिरौकामाख्या तत्र देवता” इत्युपक्रमे
“सर्व्वत्र विरला चाहंकामरूपे गृहे गृहे” तन्त्रचूडा॰। कामेन रूपमस्य।

२ यथेष्टरूपधारिणि त्रि॰
“जानामि त्वां प्रकृतिपुरुषंकामरूपं मघोनः” मेघ॰।
“स्वेच्छाधीनविग्रहं दुर्ग-सञ्चारक्षमम्” मल्लि॰। कामं काम्यं सुन्दरं रूपमस्य

३ अतिशोभने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामरूप¦ mfn. (-पः-पी-पं)
1. Pleasing, beautiful.
2. Taking any or every shape at will. m. (-पः) A district lying east of Bengal, the west- ern portion of Asam. E. काम desire, and रूप form or figure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामरूप/ काम--रूप n. a shape assumed at will

कामरूप/ काम--रूप mfn. assuming any shape at will , protean MBh. R. Megh.

कामरूप/ काम--रूप m. a god L.

कामरूप/ काम--रूप m. pl. N. of a people and of their country (east of Bengal and in the west part of Assam) Ragh. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=कामरूप&oldid=495799" इत्यस्माद् प्रतिप्राप्तम्