कामल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामलः, पुं, स्त्री, (कम + णिच् + कलच् ।) रोग- विशेषः । का~ओल कामला इति च प्रसिद्धिः । इति मेदिनी ॥ तस्य निदानसम्प्राप्ती यथा, -- “पाण्डुरोगी च योऽत्यर्थं पित्तलानि निषेवते । तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” ॥ तस्य लक्षणम् । “हारिद्रनेत्रः सुभृशं हारिद्रत्वङ्नखाननः । रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः ॥ दाहाविपाकदौर्ब्बल्यसदनारुचिकर्षितः । कामला बहुपित्तैषा कोष्ठशाखाश्रया मता । कालान्तरात् खरीभूता कृच्छ्रा स्यात्कुम्भकामला” ॥ तस्यारिष्टलक्षणम् । “कृष्णपीतशकृन्मूत्रो मृशं शूवश्च मानवः । सरक्ताक्षिमुखच्छर्द्दिविण्मूत्रो यश्च ताम्यति ॥ दाहारुचितृडानाहतन्द्रामोहसमन्वितः । नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली” ॥ इति माधवकरः ॥

कामलः, पुं, (कामयते अभीष्टमस्मिन् । कम + अ- धिकरणे + कलच् ।) वसन्तकालः । मरुभूमिः । (कामं लाति गृह्णातीति । काम + ला + कः ।) का- मुके त्रि इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामल¦ त्रि॰ कम--कलच्।

१ कामुके। आधारे कलच्।

२ वसन्तकाले पु॰ कस्य जलस्यामलोऽसम्बन्धो यत्र।

३ मरुदेशे च मेदिनी।

४ रोगप्तेदे पुंस्त्री मेदि॰। तन्निदा-नादि।
“पाण्डुरोगी च योऽत्यर्थं पित्तलानि निषे-वते। तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” निदानम्।
“हरिद्रनेत्रः सुभृशं हारिद्रदृङ्नखाननः। रक्तपित्तशकृन्मूत्रो भेदकर्णो हतेन्द्रियः। दाहाविपाक-दौर्बल्यसदनारुचिकर्षितः। कामला बहुपित्तैषा कोष्ठ-शाखाश्रया मता। कालान्तरात् खरीभूता कृछ्रा स्यात्कुम्भकामला। तस्य सम्प्रप्तिः। तस्यारिष्टलक्षणं यथा। कृष्णप्रीतशकृन्मूत्रो भृशं शूनश्च भानवः। स रक्ताक्षिमुख-च्छर्द्दिविण्मूत्री यस्य ताम्यति। दाहारुचितृषानाह-तन्त्रामोहसमन्वितः। नश्यति श्वासकाशार्त्तो विड्भेदीकुम्भकामली। छर्द्यरोचकहृल्लासज्वरक्लोमनिपीडितः। नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते” माधव-निदानम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामल¦ mfn. (-लः-ला-लं) Libidinous, cupidinous. mf. (-लः-ला) A com- plaint, jaundice, excessive secretion or obstruction of bile. m. (-लः)
1. Spring.
2. A dry and sterile soil. E. काम desire, ला to bring, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामल [kāmala], a. Lustful, libidinous.

लः The spring.

A desert.

Excessive obstruction of bile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामल mfn. libidinous , lustful L.

कामल m. the spring L.

कामल m. dry and sterile soil , desert L.

कामल mf. a form of jaundice Sus3r. Hcat.

कामल mf. excessive secretion or obstruction of bile W.

"https://sa.wiktionary.org/w/index.php?title=कामल&oldid=495803" इत्यस्माद् प्रतिप्राप्तम्