काम्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काम्यम्, त्रि, (काम्यते इति । कम् + णिच् + कर्म्मणि यत् ।) कमनीयम् । सुन्दरम् । इति हेमचन्द्रः ॥ (“काम्यानां स्वफलार्थञ्च दोषघातार्थमेव च । अतः काम्यं नैमित्तिकं प्रायश्चित्तमिति स्थितिः” ॥ इति जावालः ॥) कामनायुक्तव्यक्तिः । कर्त्तव्यकर्म्म । यथा, मुग्धबोधटीकाकृद्रामतर्कवागीशधृता स्मृतिः “यत् किञ्चित् फलमुद्दिश्य यज्ञदानजपादिकम् । क्रियते कायिकं यच्च तत्काम्यं परिकीर्त्तितम्” ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काम्य¦ त्रि॰ कम--णिङ् कर्मणि यत्।
१ कामनाविषये
“काम्योहि वेदाधिगमः कर्मयोगश्च वैदिकः” मनुः।
“काम्यानां स्वफलार्थञ्च दोषघातार्थमेव च। अतः-काम्यं नैमित्तिकं प्रायश्चित्तमिति स्थितिः” प्रा॰ त॰जावालः। काम्यत्वञ्च तत्तत्फलकामनावदधिकारि-कर्त्तव्यत्वम्। काम्यकर्मणामपि फलाभिसन्धानाभावेनानु-ष्ठाने मोक्षदत्वम् तदेतत् मल॰ त॰ निर्णीतम्। मनुः
“इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते। निष्कामं ज्ञानपूर्व्वन्तु निवृत्तमुप्रदिश्यते। प्रवृत्तं कर्म्भसंसेव्य देवानामेति सार्ष्टिताग्। निवृत्तं सेवमानस्तुभूतान्यत्येति पञ्च वै”।
“कामनापूर्व्वकं कर्म्म शरीर-प्रवृत्तिहेतुत्वात् प्रवृत्तं तदेव कर्म्म कामनारहितम्पुनर्ब्रह्मज्ञानाभ्यासपूर्व्वकं संसारनिवृत्तिहेतुत्वात् निवृ-त्तमुच्यते। सार्ष्टितां समानगतिताम् ऋषेर्गत्यर्थत्वात्। पञ्च भूतान्यत्येति अतिक्रामति मोक्षं प्राप्नोतीत्यर्थः” विष्णुपुराणम्।
“विशिष्टफलदाः काम्या निष्कामाणांविमुक्तिदाः”। भगवद्गीतापि
“युक्तः कर्म्मफलं त्यक्त्वा शान्ति-माप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तोनि-बव्यते”। युक्तईश्वराय कर्म्माणि, न फलाय इत्येवंसमाहितः फलं त्यक्त्वा कर्म्माणि कुर्व्वन्निति शेषःशान्तिं मोक्षाख्यां नैष्ठिकीं निष्ठायां भवाम्। सत्व-शुद्धिज्ञानप्राप्तिसर्वकर्म्मसन्न्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः। अयुक्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततयाकामतः प्रवृत्तेरिति यावत्। फले सक्तः मम फलायइदं, कर्म्म करोमीत्येवं फले सक्तोनियतं बन्धं प्राप्नोतितथाचार्ज्जुनं प्रति भगवद्धाक्यम्।
“मयि सर्व्वाणिकर्म्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममोभूत्वायुध्यस्व विगतज्वरः”। सन्न्यस्य निःक्षिप्य समर्प्य इतियावत्। अध्यात्मचेतसा विवेकबुद्ध्या अहंकर्त्ता ईश्व-राय भृत्यवत् करोमीत्यनया बुद्ध्या। निराशीस्त्यक्तकाम-सङ्कल्पः। अतएव निर्म्मनोमसतारहितः विगत-[Page1907-a+ 38] ज्वरः विगतसन्तापः। व्यक्तमाह सएव
“यत् करोषियदश्नासि यज्झोषि ददासि यत्। यत् तपस्यसिकौन्तेय! तत् कुरुष्व मदर्पणम्”। विष्णुपुराणे।
“कर्म्मा-ण्यसङ्कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूपे। अवाप्य तां कर्ममहोमनन्ते तस्मिं ल्लयं ते त्वमलाः प्रायन्ति”। तां कममहीं भारवर्षरूपाम्। भाग॰ एकादशस्कन्धे
“वेदो-क्तमेव कुर्व्वाणोनिःसङ्गोऽर्पितुमोश्वरे। नैष्कर्म्म्यां लभतेसिद्धिं रोचनार्था फलश्रुतिः”। वेदोक्तमेव कुर्वाणो न तुनिषिद्धम्। ननु कर्मणि क्रियमाणे तस्मिन्नासत्तिस्तत्फलञ्च स्यात् नतु नैष्कर्म्म्यरूपा फलसिद्धिः? अतआहनिःसङ्ग इति अनभिनिवेशितवान्, ईश्वरेऽर्पितुं न फलो-द्देशेन। अथ फलस्य श्रुतत्वात् कर्मणि कृते फलं भवत्येवइत्यत आह रोचनार्था इति। कर्मणि रुच्युत्पादानार्था। अतएव तत्रैव
“फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम्। श्रेयोविवक्षया प्रोक्ता यथा भैषज्यरोचनम्। उत्पत्त्यैवहि कामेषु प्राणेषु स्वजनेषु च। आसक्तमनसोमर्त्याआत्मनोऽनर्थहेतुषु। न तानविदुषः स्वार्थं भ्राम्यतो-वृजिनाध्वनि। कथं युञ्ज्यात् पुनस्तेषु तांस्तमोविशतोबुधः। एवं व्यवस्थितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिंकुसुमितां न वेदज्ञा वदन्ति हि”। इयं फलश्रुतिर्न श्रेयः-परमपुरुषार्थपरा न भवति किन्तु बहिर्मुखानां मोक्ष-विवक्षया अवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम्। यथा भैषज्ये औषधे रुच्युत्पादनम्। यथा
“पिब निन्वंप्रदास्यामि खलु ते स्वण्डलड्डुकान्। पित्रैवमुक्तः पिबतितिक्तमप्यतिबालकः”। अत्र यथा तिक्तनिम्बादिपानस्य नखलु खण्डलड्डुकादिलाभ एव प्रयोजनम् किन्त्वारोग्यम्। तथा वेदोऽप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्म्माणिविधत्ते। ननु कर्मकाण्डे मोक्षस्य नामापि न श्रूयतेकुत एवं व्याख्यायते यथाश्रुतस्यैवाघटनादित्यतआहउत्पत्त्येति द्वाभ्याम्। उत्पत्त्या स्वभावतएव कामेषु पश्वा-दिषु प्राणिषु आयुरिन्द्रियबलवीर्य्यादिषु पुत्रदारादिषुपरिपाकतोदुःखहेतुषु अतस्तान् स्वार्थं परमसुखमविदुषःअजानतो अतो नतान् प्रह्वीभूतान् बुधोवेदोयद्बोधयतितदेव श्रेय इति विश्वसितानित्यर्थः तानेवम्भूतान् वृजि-नाध्वनि पापे वर्त्मनि देवादियोनौ भ्राम्यतः। पुनस्तमोभूतवृक्षादियोनौ विशतः पशुकाम इति चायुरिन्द्रिया-दिकाम इति च पुत्रादिकाम इति च कथं पुनस्तेषु स्वयंबुधोवेदोयुञ्ज्यात्। तथासत्यनाप्तः स्यादिति भावः। [Page1907-b+ 38] कथं तर्हि कर्ममीमांसकाः कर्मफलपरतां वदन्ति तत्राहएवमिति व्यवस्थितम्। वेदस्याभिप्रायमविज्ञाय कुसुमिताम्अवान्तरफलरोचनतया रमणोयां परमफलश्रुतिं वदन्तियतस्ते कुबुद्धयः तदाह हि यस्मात् वेदज्ञा व्यासादयःतथा न वदन्तीति। अतएव निष्कामकर्मणात्मज्ञानमित्युक्तम्। यथा
“अयमेव क्रियायोगोज्ञानयोगस्य साधकः। कर्म-योगं विना ज्ञानं कस्यचिन्नैव दृश्यते”। सोऽपि दुरितक्षय-द्वारा न साक्षात्। तथाच
“ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः। श्रुतिः
“तमेतं वेदार्थवचनेन ब्राह्मणाविविदिषन्ति ब्रह्मचर्थ्येण तपसा दानेन श्रद्धया यज्ञेनान-शनेन चेति” तमात्मानम्। अतएव यज्ञादीनां ज्ञान-शेषताञ्चावधार्य्य निष्कामेषु कर्मसु प्रवर्त्तते। पण्डिते-नापि मूर्खः काम्ये कर्मणि न प्रवर्त्तयितव्यः इत्याहभाग॰ षष्ठस्कन्धे
“स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञायकर्म हि। न राति रोगिणेऽपथ्यं वाञ्छतेऽपि भिष-क्तमः’। राति ददाति। फलकामनानिन्द्यत्वमुक्तं तत्रैव
“अकामः सात्विकोलोको यत्किञ्चिद्विनिवेदयेत्। तेनैवस्थानमाप्नोति यत्र गत्वा न शोचते। धर्मबाणिजिका-मूढाः फलकामा नराधमाः। अर्च्चयन्ति जगन्नाथं तेकामानाप्नुवन्त्यथ। अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्। पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम्। मूर्द्ध्नाप्रतीच्छते दत्तमकामेन द्विजोत्तमाः” ! इति वामनपुरा॰काम्यमपि दानं विष्णुप्रीतये सार्व्वकालिकम् यथाम॰ त॰
“पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्व्वकालिकम्श्रीदत्तः
“सार्व्वकालिकं मलमासादावपि विष्णुप्रीत्यर्थंदेयम्” मल॰ त॰ रघु॰।
“सम्यक् संसाधनं कर्म कर्त्तव्यमधि-कारिणा। निष्कामेण सदा पार्थ! काम्यं कामान्वि-तेन च” प्रा॰ त॰ भविष्यपु॰। काम्यञ्च
“यांत्कञ्चित् कुरुतेकर्भयज्ञदानजपादिकम्। क्रियते कायिकं यच्च तत्काम्य-मिति कीर्त्तितम्” इत्युक्तलक्षणम्। काम्याच्च सर्वाङ्गो-पेतात् फलनिष्पत्तिः इति कात्या॰ श्रौ॰ प्रतिपादि-तम् तच्च कात्यायनशब्दे
१८
६५ पृ॰ प्रदर्शितम्।
२ अभिरूपे सुन्दरे च
“नासौ न काम्यो नच वेद सम्यक्” रघुः। कामाय हितं यत्।
३ कामोद्दीपके त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काम्य¦ mfn. (-म्यः-म्या-म्यं)
1. Agreeable, desirable, amiable.
2. Performed through the desire of some advantage, (a religious ceremony, &c.)
2. Optional, supererogatory, performed for some particular object and opposed to the नित्यकर्म्म or fixed and indispensable observance.
4. Relating to desire, will, &c.
5. Done through lust or passion. E. काम desire, love, &c. and यत् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काम्य [kāmya], a. [कम्-ण्यत्]
To be desired, desirable; सुधा विष्ठा च काम्याशनम् Śānti.2.8.
Optional, performed for some particular object (opp. नित्य); अन्ते काम्यस्य कर्मणः R.1.5; Ms.2.2;12.89; Bg.18.2.
Beautiful, lovely, charming, handsome; नासौ न काम्यः R.6.3; U.5.12. -म्यम् A class of buildings (Māna. 31.2.3).
म्या A wish, desire, intention, request; ब्राह्मणकाम्या Mk.3; R.1.35; Bg.1.1.
A cow; ŚB. on MS.1.3.49. -Comp. -अभिप्रायः a self-interested motive or purpose. -कर्मन् n. a rite performed for some paticular object and with a view to future fruition. -गिर् a. sweet-voiced, having a pleasing voice; प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया Śi.6.8. (-f.) an agreeable speech.
दानम् an acceptable gift.
a free-will offering; voluntary gift.-मरणम् voluntary death, suicide. -वृत्तम् voluntary vow.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काम्य Nom. P. यति, to have a desire for (only ifc. e.g. पुत्र-काम्यति, to have a desire for children) Pa1n2. 3-1 , 9 Comm. on Pa1n2. 8-3 , 38 and 39 Vop. xxi , 1 S3a1ntis3. Bhat2t2. ix , 59.
काम्य mf( आ)n. desirable , beautiful , amiable , lovely , agreeable RV. VS. R. ii , 25 , 9 ; v , 43 , 13 Ragh. vi , 30 S3a1ntis3. ii , 7 Bhartr2. iii , 40
काम्य mf( आ)n. to one's liking , agreeable to one's wish Ka1tyS3r. iv , 5 , 1 S3a1n3khS3r. iii , 11 , 5 A1s3vGr2. iv , 7
काम्य mf( आ)n. optional (opposed to नित्यor indispensable observance) , performed through the desire of some object or personal advantage (as a religious ceremony etc. ) , done from desire of benefit or from interested motives Ka1tyS3r. xii , 6 , 15 A1s3vS3r. ii , 10 A1s3vGr2. iii , 6 Kaus3. 5 ChUp. v , 2 , 9 Mn. ii , 2 MBh. etc.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काम्य वि.
(कम् + ण्यत्) ‘वाच्छनीय’; इष्ट, वह कृत्य जिसका अनुष्ठान किसी कामना विशेष अथवा फलविशेष को उद्दिष्ट कर किया जाता है; यह श्रौत ‘काम्येष्टि’ का विकल्प है, आश्व.गृ.सू. 3.6.1; स्त्री इसका अनुष्ठान कर सकती है, आप.गृ.सू. 8.4; काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमा- दीनि, वेदान्तसार 4।