सामग्री पर जाएँ

कायस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायस्थः, पुं, (कायेषु सर्व्वभूतशरीरेषु अन्तर्यामि- तया तिष्ठतीति । काय + स्था + कः ।) पर मात्मा । (यथा उत्तरगीतायाम् । “कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते” ॥ काये ब्रह्मकाये तिष्ठतीति । काय + स्था + कः ।) नरजातिविशेषः । इति मेदिनी ॥ तत्पर्य्यायः । कूटकृत् २ पञ्जीकरः ३ । इति त्रिकाण्डशेषः ॥ करणः ४ पञ्जिकारकः ५ । इति जटाधरः ॥ तस्योत्पत्त्यादिर्यथा

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायस्थ¦ पु॰ कायेषु सर्वभूतरूपदेहेषु तिष्ठति अन्तर्यामितया स्था--क

७ त॰।

१ परमात्मनि मेदि॰। यथा च सर्व्वशरीरेषु अधिष्ठातृतयास्य स्थितिस्तथा अन्तर्यामिब्राह्मणेदर्शितं तच्च वाक्यं

१३

० पृ॰ दर्शितम्।

२ जातिभेदे करणरूपे व्रात्यक्षत्रिये करणशब्दे तस्य विवृतिः। ( अथ कायस्थानां शूद्रत्वाशूद्रत्वविषये बहुधा विप्रतिप-त्तिरस्ति अतस्तन्निरूपणाय प्रमाणान्युद्धृत्य मीमांस्यते।
“एवं हत्वाऽर्ज्जुनं रामः सन्धाय निशितान् शरान्। एकएव ययौ हन्तुं सर्व्वानेवातुरान् नृपान्। केचित्[Page1933-b+ 38] गहनमाश्रित्य केचित् पातालमाविशन्। सगर्भा चन्द्र-सेनस्य भार्य्या दाल्भ्याश्रमं ययौ। ततो रामः समा-यातो दाल्भ्याश्रममनुत्तमम्। पूजितो मुनिना सद्यःपाद्यार्ध्याचमनादिभिः। ददौ मध्याह्नसमये तस्मैभोजनमादरात्। रामस्तु याचयामास हृदिस्थं स्वंमनोरथम्। याचयामास रामाच्च कामं दाल्भ्यो महा-मुनिः। ततस्तौ परमप्रीतौ भोजनं चक्रतुर्मुदा। भोजना-नन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति। यत्त्वया प्रार्थितंदेव! तत् त्वं शंसितुमर्हसि। राम उवाच तवाश्रमे महा-भाग! सगर्भा स्त्री समागता। चन्द्रसेनस्य राजर्षेः क्षत्रि-यस्य महात्मनः। तन्मे त्वं प्रार्थितं देहि हिसेयं तांमहामुने!। ततो दाल्भ्यः प्रत्यवाच, ददामि तव वाञ्छि-तम्। दाल्भ्य उवाच। स्त्रियं गर्भममुं बालं तन्मे त्वंदातुमर्हसि। ततो रामोऽब्रवीद्दाल्भ्यं यदर्थमहमागतः। क्षत्रियान्तकरश्चाहं तत् त्वं याचितवानसि। प्रार्थितश्चत्वया विप्र! कायस्थो गर्भ उत्तमः। तस्मात् कायस्थइत्याख्या भविष्यति शिशोः शुभा। एवं रामो महा-बाहुर्हित्वा तं गर्भमुत्तमम्। निर्जगामाश्रमात् तस्मात्क्षत्रियान्तकरः प्रभुः। कायस्थ एष उत्पन्नः क्षत्रायांक्षत्रियात्ततः। रामाज्ञया स दाल्भ्येन क्षत्रधर्म्मात् बहि-ष्कृतः। कायस्थधर्म्मोदत्तोऽस्मै चित्रगुप्तस्य यः स्मृतः। तद्गोत्रजाश्च कायस्था दाल्भ्यगोत्रास्ततोऽभवन्। दाल्भ्यो-पदेशतस्ते वै धर्म्मिष्ठाः सत्यवादिनः। सदाचारपरानित्यंरता हरिहरार्च्चने। देवविप्रपितॄणाञ्च अतिथोनाञ्चपूजकाः” इति स्कान्दे रेणकामाहात्म्यम्। अत्र क्षात्र-धर्म्मद्बहिष्कृतः इत्यनेन सगरेण काम्बोजादीनामिवतस्य तद्वंशस्य च क्षत्रियधर्म्मयुद्धोपनयनादिराहित्य-प्रतीतावपि चित्रगुप्तधर्म्मत्वदानकथनेनोपनयनादिमत्त्वंवेदाधिकारित्वं च सूचितं तेन केबलयुद्धादिराहित्य-मात्रं चित्रगुप्तधर्म्मत्वदानेन लेखनाधिकारः सूचितः। चित्रगुप्तधर्म्मश्च तदुत्पत्तिसहितः पद्मपुराणे सृष्टिखण्डेउक्तोयथा--
“क्षणं ध्यानस्थितस्यास्य सर्व्वकायाद्विनिर्गतः। दिव्यरूपःपुमान् विभ्रत् मसीपात्रञ्च लेखनीम्। चित्रगुप्त इतिख्यातो धर्म्मराजसमीपतः। प्राणिनां सदसत्कर्म्मलेखायस निरूपितः ब्रह्मणा,ऽतीन्द्रियज्ञानी देवाग्न्योर्यज्ञभुक्स वै। भोजनाच्च सदा तस्माद हुतिर्दीयते द्विजः। ब्रह्मकायोद्भवो यस्मात् कायस्थो वर्ण उच्यते। नाना-[Page1934-a+ 38] गोत्राश्च तद्वंश्याः कायस्था भुवि सन्ति वै”। भविष्यपुराणे च। दत्तात्रेय उवाच। त्रिकालज्ञं महाप्राज्ञंपुलस्त्यमुनिपुङ्गवम्। उपसंगम्य पप्रच्छ भीष्मः शास्त्रभृतांवरः। चतुर्णामपि वर्णानामाश्रमाणां तथैव च। सम्भवःसङ्करादीनां श्रुतो विस्तरतो मया। कायस्थोत्पत्तयो लोकेख्याताश्चैव महामुने!। भूय एव महाप्राज्ञ! श्रोतुमिच्छामितत्त्वतः। वैष्णवा दानशीलाश्च पितृयज्ञपरायणाः। सुधियः सर्वशास्त्रेषुकाव्यालङ्कारबोधकाः। पोष्टारो निज-वर्गाणां ब्राह्मणानां विशेषतः। तानहं श्रोतुमिच्छामिकथयस्व महामुने एतन्म संशयं विप्र! वक्तुमर्हस्यशेषतः। इति पृष्टो मुनिप्राज्ञः गाङ्गेयं! प्राह तत्त्वतः। पुलस्त्यउवाच। शृणु गाङ्गेय! वक्ष्यामि कायस्थोत्पत्तिकारणम्। न श्रुतं यत् त्वया पूर्व्वं तन्मे कथयतः शृणु। येनेदंसकलं विश्वं स्थावरं जङ्गमं तथा। उत्पाद्य पाल्यतेभूयो निधनाय प्रकल्प्यते। अव्यक्तः पुरुषः शान्तो ब्रह्मालोकपितामहः। यथाऽसृजत् पुरा विश्वं कथयामितव प्रभो!। मुखतोऽस्य द्विजा जाता बाहुभ्यां क्षत्रि-यास्तथा। ऊरुभ्याञ्च तथा वैश्याः पद्भ्यां शूद्राः समु-द्भवाः। द्विचतुःषट्पदादींश्च प्लवङ्गमसरीसृपान्। एककालेऽसृजत् सर्व्वं चन्द्रसूर्य्यग्रहांस्तथा। एवं बहु-विधानेन विश्वमुत्पाद्य भारत!। उवाच तं सुतं ज्येष्ठंकश्यपं चातितेजसम्। प्रतियत्नेन भोः पुत्र! जगत्पालयसुव्रत!। इत्याज्ञाप्य सुतं ज्येष्ठं ऋषिसम्भवहेतुकम्। ततस्तुब्रह्मणा तेन यत् कृतं तन्निबोध मे”
“दश वर्षसहस्राणिदश वर्षशतानि च। समाधिस्थोऽभवत् प्राणान् संयम्यशान्तमानसः। ततः समाहितमतेयद्भूतं तद्वदामि ते। तच्छरीरान्महाबाहुः श्यामः कमललोचनः। कम्बुग्रीवोगूढशिराः पूर्णचन्द्रनिभाननः। लेखनोच्छेदनीहस्तोमसीभाजनसंयुतः। निःसृत्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः। उत्तमः सुविचित्राङ्गः ध्यानस्तिमितलोचनः। त्यक्त्वा समाधिं गाङ्गेय! तं ददर्श पितामहः। अध-ऊर्द्धं निरीक्ष्याथ पुरुषश्चाग्रतः स्थितः। नामधेयं हिमे तात! वक्तुमर्हस्यतःपरम्। यथोचितञ्च यत् कार्य्यं तत्त्वं मामनुशासय। पुलस्त्य उवाच। इत्याकर्ण्य ततोब्रह्मा पुरुषं स्वशरीरजम्। प्रहृष्य प्रत्युवाचेदमानन्दितमतिः पुनः। स्थिरचित्तं समाधाय ध्यानस्थमति-सुन्दरः। मच्छरीरात् समुद्भूतस्तस्मात् कायस्थसंज्ञकः। चित्रगुप्तेति नाम्ना वै ख्यातो भुवि भविष्यसि। धर्म्मा-[Page1934-b+ 38] धर्म्मविवेकार्थं धर्म्मराजपुरे सदा। स्थितिर्भवतु ते वत्स!ममाज्ञां प्राप्य निश्चलाम्। क्षत्रवर्णोचितो धर्म्मः पाल-नीयो यथाविधि। प्रजाः सृजस्व भो पुत्र! भुवि भाव-समन्विताः। तस्मै दत्त्वा वरं ब्रह्मा तत्रैवान्तरधीयत”।
“पुलस्त्य उवाच। चित्रगुप्तान्वये जाताः शृणु तान्कथयामि ते। श्रीमद्रा नागरा गौराः श्रीवत्साश्चैवमाथुराः। अहिफणाः सौरसेनाः शैवसेनास्तथैव च। वर्णा वर्णद्वयञ्चैव अम्बष्ठाद्याश्च सत्तम!। शृणु तेषाञ्चकर्म्माणि कुरुवंशविवर्द्धन!। पुत्रान् वै स्थापयामासचित्रगुप्तो महीतले। धर्म्माधर्म्मविवेकज्ञश्चित्रगुप्तो महा-मतिः। भूस्थानं बोधयामास सर्व्वसाधनमुत्तमम्। पूजनंदेवतानाञ्च पितॄणां यज्ञसाधनम्। वर्णानां ब्राह्मणानाञ्चसर्व्वदातिथिसेवनम्। प्रजाभ्यः करमादाय धर्म्माधर्म्मविलोकनम्। कर्त्तव्यं हि प्रयत्नेन पुत्राः स्वर्गस्य काम्यया। या माया प्रकृतिः शक्तिश्चण्डी चण्डप्रमर्द्दिनी। तस्यास्तुपूजनं कार्य्यं सिद्धिं प्राप्य दिवं गताः। स्वर्गाधिका-रमासाद्य यतो यज्ञभुजः सदा। भवद्भिः सा सदापूज्या ध्यातव्या मफलादिभिः। भवन्तं सिद्धिदा नित्यंपुत्रदा सा तु चण्डिका। तन्त्रोक्ता न सुरा पेया या नपेया द्विजातिभिः। वैष्णवं धर्म्ममाश्रित्य मद्वाक्यं प्रति-पालय। कर्त्तव्यं हि प्रयत्नेन लोलकद्वयहिताय वै। अनुशास्य सुतानेवं चित्रगुप्तो दिवं ययौ। धर्म्मराज-स्याधिकारी चित्रगुप्तो बभूव ह। स्वयं भीष्म! समुत्-पन्नाः कायस्था ये प्रकीर्त्तिताः। ये पृष्टास्ते मयाख्याताःसंवादं शृणु चापरम्”। ( पद्मपु॰ पातालखण्डे सूतं प्रति शौनकाद्युक्तिः।
“श्रोतुमिच्छामहे त्वत्तः श्रेयसि प्रेमसद्धियः। पुराणसंहि-तामेतां कायस्थस्थितिलक्षणाम्। को हेतुस्तस्य चोत्पत्तौ,किंविधः, कर्म्म कीदृशम्। कि वर्णः क्वास्तिकस्मैचित् कार्य्यवादाय को हि सः। किंकुलोनः किमाचारः किगोत्रःकस्य चान्वयः। एतद्विस्तरतो ब्रूहि कायस्थकृतशासनम्। सूत उवाच। इदमद्भुतमाख्यानं कायस्थस्थितिलक्षणम्। कथयामि महाभागा भगवद्गुणकीर्त्तये। विचित्रो जगतांहेतुर्भगवच्छश्वदाश्रयः। तस्योद्भवोऽपि वैचित्रो जगतःकृतवान् विधिः। चित्रोविचित्र इति तत् विज्ञप्तौ तावुभावपि। धर्म्मराजस्य सचिवौ दत्तावस्य तु वेधसा। असतां दण्ड-नेतारौ नृपनीतिविचक्षणौ। यथार्थवादिनौ स्यातांशान्तिकर्म्मणि तावुभौ। कायस्थसंज्ञया ख्यातौ सर्व-[Page1935-a+ 38] कायस्थपूर्वजौ। लेस्वनज्ञानविधिना मुख्यकार्यपरायणौ। अस्मिन् संसारपाथोधौ षड्विधाः कायवर्त्तिनः। तत्रस्थकायविज्ञानात् कायस्थत्वमिहैतयोः। धर्म्मराजस्य साचिव्यंकुर्वतोः शान्तिकर्मणि। हरेरनुग्रहोऽप्यास्ते तयोश्चित्रविचित्रयोः। एकविंशतिभेदेन याभ्यां कायस्थजातयः। इत्युदीर्य्य विधिस्तत्र वचश्चित्रविचित्रयोः। तूष्णीमासततस्ताभ्यां पृष्टं स्वात्मविचेष्टितम्। अस्माकं केच संस्काराकिं वर्णजा? वयं विभो!। तत्सर्वं कथयस्वावां भवत्सेवा-परायणौ। सूत उवाच। इति श्रुत्वा तयोर्वाक्यमनुमोद्यपितामहः। भक्तस्योत्तरमुत्कृष्टमुवाच प्रहसन्निव। ब्रह्मो-वाच। भवन्तावादिकल्पस्य प्रथमे युगनायके। परमायाञ्चशुद्धायामभूतां द्विजवेश्मनि। दासतां दिष्टतः प्राप्तौपरिदाक्षिण्यवर्त्तिनौ। स्वामिसेवापरायत्तौ मिथः स्नेहा-नुवर्त्तिनौ। द्विजन्मकिङ्करौ--तेषां गृहकर्मणि सन्ततम्। चक्रतुः प्रभुभावेन तदुच्छिष्टभुजौ युवाम्। त्रैदिवंसुखमासाद्य यावद्युगचतुष्टयम्। मर्त्यतामाप्य देवत्वंततएवं क्रमेण तु। तन्महाप्रलये जाते सर्वप्राणिहिते-रतौ। दासीसुतौ भवन्तौ, वां भगवद्वपुषि स्थितिः। अधु-ना सृष्टिसमये मत्तोजन्मापि वामिदम्। धर्माधिकारषपुषौ स्वामिबान्धवजीवनात्। यत्र वर्ण्णेभ्य उत्कृष्टोब्राह्मणः सर्वसम्मतः। तस्यानन्तरेजो यस्मात् क्षत्रियःपरिरक्षकः। विज्ञानजीवनोपायी व्यवहारनयान्वितः। वैश्यो वणस्तृतीयः स्याद् वर्णद्वितयसेवकः। मन्त्रवर्ज्जित-संस्कारो नमस्कारक्रियापरः। चतुर्थः शूद्रवर्णः स्याद्वर्ण्णत्रितयसेवकः। अनेकव्यवहारज्ञः क्षत्रियन्वयजश्च सः। तेषामुत्तमतां यायात् कायस्थोऽक्षरजीवकः। भवन्तौ क्षत्रवर्णस्थौ द्विजन्मानौ महाशयौ। कृतोपवी-तिनौ स्यातां वेदशास्त्राधिकारिणौ। पूर्व्वपुण्यबलोत्-कर्षसाध्यसाधनभाविनौ। सर्वज्ञकल्पौ भूयातां भगवद्गत-मानसौ। एवमाख्याय भगवान् सर्व्वामरगणान्वितः। अन्तर्दधे तयोरन्तः स्थितः प्रत्यक्षवृत्तितः”। (
“सूत उवाच। अस्मिन् जगति दुःखानि दुर्दान्ताएवभुञ्जते। तस्माद्दुर्नयकर्त्तारो निरयेष्वधिवासिनः। दुर्नयंसुनयं वापि सर्वेषां नयवर्त्तिनाम्। अन्यायिनामपितथा लिखतः कर्मसूत्रिणाम्। एतल्लिखनमध्यस्थं कर्म-सूत्रं यथातथम्। न न्यूनमधिकं वापि देहारम्भस्यकर्म यत्। जन्मानन्त्यभवं कर्म जीवानां भावितावुभौ। उप-योगं विनाप्येतौ लेखयामासतुः स्वतः। विलोक्य प्राणि-[Page1935-b+ 38] नामायुः संपूर्णं कर्म वा यथा। समानपतितानेव नाप-राबिति निर्णयः। धर्मराजानुवचनमेकवाक्यमिवप्रियम्। सम्मानयित्वा सुतरां क्षेत्रभूताविव स्थितौ। षट्कायमतविज्ञानं जानीतः कर्मयोगि यत्। कायस्थसंज्ञया चित्रविचित्रौ विष्णुवल्लभौ”।
“सूत उवाच। एवमाभाष्य मनसा प्रमाणपदसिद्धये। वचसा छन्दयामासमैत्रस्तौ प्रीतिहेतवे। अनेके भुवि सत्कीर्त्तिसम्भवायस्थितिं स्वकाम्। निरूपयन्ति नितरां मुनयो देवमानवाः। परिवारविभूत्यैव स्वसन्तानप्रसिद्धये। भवन्तावपि तस्मात्तुकुरुतां सुतसंस्थितिम्। इत्युक्त्वा कल्पयामास कन्ये द्वेपरमोत्तमे। मरुत्प्रभोः समाधेश्च तनये क्षत्रजन्मनः। सम्पन्नकुलशीले ते कर्त्तव्ये गृहमेधसे। कलत्रे वंशवि-स्तारहेतवे तु पृथक् पृथक्। एवमादिष्टधर्माणौ प्रणम्यस्वामिनं प्रति। देवादेशप्रमाणं स्यात् इत्युक्त्वास्त्वितिचक्रतुः। विधिना परिनेतारौ समये भवनोचिते। ततएवसमाम्नायहेतवे कृतनिश्चयौ। समाधिमानसौ धर्म-राजस्य वचनेरितौ। कालिकामादिजननीं प्रार्थयामासतुस्ततः। चित्रोऽप्यथ बिचित्रोपि मिथो निश्चित्य साम्प्रतम्। विचित्र! जगतः कार्य्यं त्वया तत्तद्विधीयताम्। कार्य-द्वयन्तु कर्त्तव्यमस्माभिः स्वामिवाक्यजम्। व्यापारोऽपिप्रकर्त्तव्यः कालिकापि हि सेव्यते” इत्युपक्रमे पद्मवै॰ पु॰पातालखण्डे
“सुभामा चित्रगुप्तस्य गृहस्वामित्वयोगिनी। भामिनी तु विचित्रस्य सुन्दरी सुन्दरस्थितिः। उभेअपि समाम्नाते पातिव्रत्यशिरोमणी। देवदत्तां पुरं प्राप्यसुखेनैवानुतिष्ठताम्। परेरिता प्रवृत्तैषा पुरी सायतनीकृता। चित्रगुप्तेन भामायां त्रयौत्पादिताः सुताः। उदारशीलाचरिता धर्मराजस्य वल्लभाः। शरीरवेगाःसुदृढाः पितृवत्कार्य्यहेतवः। विचित्रस्य सुताः पञ्च सम-भूवन् भहाशयाः। कलीरः सुसमः सूक्ष्मः सङ्गवान्कर्मकस्त्वमी। मामिनी कुक्षिजास्तावच्छार्दूलगुणशालिनः। तेषान्तु कल्पयामास कश्यपो जातकर्म वै। तदाचरतितत्पूर्वं नाम गर्भादि वैदिकम्। तयोः कुलपतिस्तस्मात्तावत् कश्यपसम्मतः। व्यातेने सकलाभीष्टमाशीःशतसमुच्चयैः। एतावेते च सर्वे स्युर्गोत्रिणः कश्यपाभिधाः”। ( एवं चित्रगुप्तवंश्यानां चन्द्रसेनवंश्यानाञ्च क्षत्रिय-वदुपनयनवेदाधिकारे स्थिते कालवशात् तदन्वजयाताना-मुपनयनादिलोपात् व्रात्यक्षत्नियत्वम्। व्रात्यानाञ्चाकृत-प्रायश्चित्तानाम् उप्रनयनादिराहित्यात् शूद्रधर्मत्वम्[Page1936-a+ 38] इदानीन्तनानाम् यद्यपि व्रात्यक्षत्रियाणां क्षत्रियतुल्या-शौचभागित्वमुचितं तथापि मनुना
“शनकैस्तु क्रिया-लोपादिमाः स्युः क्षत्रियजातयः। वृषलत्वं गता लोकेब्राह्मणादर्शनेन च” इति शूद्रत्वप्राप्तिं प्रति क्रियालोपंस्यवेदानध्ययनस्य च हेतुताया उक्तेः इदानीन्तनानामुभया-सद्भावेन वृषलधर्म्मत्वप्राप्त्या अकृतप्रायश्चित्तक्षत्रियाणा-मुपनयादिराहित्येन शूद्रधर्म्मप्राप्त्या मासाशौचव्यवहारोनानुपपन्नः। रघुनन्दनेन महानन्दिप्रभृतिक्षत्रियाणा-मपि कलौ शूद्रत्वस्योक्तेः शूद्रतुल्यतया मासाशौचव्यव-हारस्य युक्तत्वात् गतानुगतिकन्यायादेव तथा चार इत्यनु-मीयते। ब्रात्यप्रायश्चित्तञ्च मिता॰ आपस्तम्बेनोक्तं यथा
“यस्य प्रपितामहादेर्नानुस्मर्य्यते उपयनं तस्य द्वादशधर्षाणि त्रैविद्यकं ब्रह्मचर्य्यम्”। एतेषाञ्च बहुकालावधि-व्रात्यत्वं, यतो मनुना
“झल्लोमल्लश्च राजन्यात् ब्रात्यात्निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविड एव च” इति व्रात्यक्षत्रादेव तषामुत्पत्तेरुक्तेः बहुकालपति-तसावित्रीकस्यापि प्रागुक्तापस्तम्बवचनेन प्रायश्चित्तस्यविधानात् तथा प्रायश्चित्ताचरणे च उपनयनाद्यधिकारिताभवितुमर्हत्येव किन्तु वर्णसङ्करजातिभेदरूपकरणस्य नतथात्वं तन्निर्णयश्च वंशपरम्परास्मृत्यभावे दुर्घटएव
“शूद्रवद्वर्णसङ्करा” इति स्मृतेः तेषां शूद्रधर्मातिदेशात्,तेषां मासाशौचाद्याचारदर्शनात् तदन्येषामपि ब्रात्य-क्षत्रियरूपकरणानां तथैवाचार इति गम्यते। करणशब्दे उदा॰। तज्जातिस्त्रियां संयोगोपधत्वात् टाप्पुंयोगे तु ङीष्। कायस्तिष्ठत्यनया स्था--करणे घञ्चर्थेक

६ त॰ टाप्।

३ हरीतक्यां मेदि॰

४ धात्रीवृक्षे जटा॰

५ काकोल्यां भरतः

६ एलाद्वये

७ तुलस्याञ्च राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायस्थ¦ m. (-स्थः)
1. The Supreme Being.
2. A caste or tribe, or man of that tribe; the Kayet'h or writer caste, proceeding from a Kshet- [Page175-a+ 60] triya father and Sudra mother. f. (-स्था)
1. Yellow myrobalan: see हरीतकी।
2. Emblic myrobalan.
3. A drug, commonly Kakoli.
4. A woman of the Kayet'h caste. f. (-स्थी) The wife of a Kayet'h or scribe. E. काय the body or house. and स्थ who stays, or resides.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायस्थ/ काय--स्थ m. " dwelling in the body " , the Supreme Spirit L.

कायस्थ/ काय--स्थ m. a particular caste or man of that caste , the Kayath or writer caste (born from a क्षत्रियfather and शूद्रmother) Ya1jn5. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=कायस्थ&oldid=495872" इत्यस्माद् प्रतिप्राप्तम्