कारण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारणम्, क्ली, (कार्य्यतेऽनेन । णिजन्तात् कृञो ल्युट् ।) येन विना यन्न भवति तत् । तत्पर्य्यायः । हेतुः २ वीजम् ३ । इत्यमरः । १ । ४ । २८ ॥ निमित्तम् ४ प्रत्ययः ५ । इति जटाधरः ॥ (यथा, विष्णु- पुराणे । १ । १७ । ३० । “यतः प्रधानपुरुषौ यतश्चैतत् चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु” ॥) कारणत्वमाह । अन्यथासिद्धिशून्यत्वे सति नियत- पूर्ब्बवर्त्तित्वम् । तत्रिविधम् । समवायिकारणत्वम् १ असमवायिकारणत्वम् २ निमित्तकारणत्वम् ३ परमाणुपरिमाणभिन्नानां कारणत्वम् । इति भाषापरिच्छेदः । १६-१७ ॥ अणुपरिमाणन्तु न कस्यापि कारणम् । इति सिद्धान्तमुक्तावली (यथा, हेः रामायणे । १ । ६४ । ११ । “बहुभिः कारणैर्देव ! विश्वामित्रो महामुनिः । लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते” ॥) करणम् । (कृ वधे + स्वार्थे णिच् भावे ल्युट् ।) बधः । इति मेदिनी ॥ (आदिः । मूलम् । यथा, मनुः । ११ । ८४ । “ब्राह्मणः सम्भवेनैव देवानामपि दैवतम् । प्रमाणञ्चैव लोकस्य ब्रह्मात्रैव हि कारणम्” ॥ प्रमाणम् । यथा, मनुः । ८ । २०० । “सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न सम्भोग इति स्थितिः” ॥) इन्द्रियम् । (यथा, गीतायाम् । १३ । २० । “कार्य्यकारणकर्त्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तत्वे हेतुरुच्यते” ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारण नपुं।
कारणम्
समानार्थक:हेतु,कारण,बीज,प्रमाण,निमित्त,प्रत्यय,इति,हि,यत्_तत्,यतः_ततः
1।4।28।2।2
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः। हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्.।
: मुख्यकारणम्
पदार्थ-विभागः : कारणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारण¦ न॰ कारयति क्रियानिवर्त्तनाय प्रवर्त्तयति कृ--णिच्-ल्यु।
१ क्रियानिष्पादके हेतौ
२ उद्देश्ये
३ देहे
४ इन्द्रिये। कृ--बधे स्वार्थे णिच्--भावे ल्युट्।
५ बधे मेदि॰।
६ करवाद्यभेदे। करणएव कारणः।
७ कायस्थे पु॰। करण-मेव स्वार्थे अण्।
८ साधने
९ कर्म्मणि।
१० गीतभेदेरत्नकोषः। न्यायमते कारणत्वलक्षणभेदादिकं भाषा॰मुक्ताबल्योर्दर्शितं यथा।
“पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम्” भाषा॰। ( पारिमाण्डल्येति पारिमाण्डल्यम् अणुपरिमाणं,कारणत्वं तद्भिन्नानामित्यर्थः। अणुपरिमाणं तु न कस्यापिकारणं तद्धि स्वाश्रयारब्धद्रव्यपरिमाणारम्मकं भवेत् तच्च नसम्भवति परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजन-कत्वात् महदारब्धस्य महत्तरत्ववत् अणुजन्यस्याणुतरत्वप्रस-ङ्गात् एवं परममहत्परिमाणम् अतीन्द्रियसामान्यं विशे-षश्चेति बोध्यम्। इदमपि योगिप्रत्यक्षे विषयस्य न कार-णत्वं, ज्ञायमानसामान्यं न प्रत्यासत्तिः, ज्ञाप्यमानं लिङ्गं[Page1938-b+ 38] नानुमितिकारणम् इत्यभिप्रायेण। भानसप्रत्यक्षे आत्ममह-त्त्वस्य कारणत्वात् महत्परिसाणं कालारेर्बोध्यं तस्यापि नकारणत्वमित्याचार्य्याणामाशय इत्यन्ये तन्न ज्ञानातिरिक्तंप्रति कारणताया एव आचार्य्यैरुक्तत्वात्” मुक्ता॰।
“अन्यथासिद्धिशून्यस्य नियता पूर्ब्बवर्त्तिता। कारणत्वंभवेत् तस्य त्रैविध्यं परिकीर्त्तितम्। समवायिकारणत्वंज्ञेयमथाप्यसमवायिहेतुत्वम्। एवं न्यायनयज्ञैस्तृतीयमुक्तनिमित्तहेतुत्वम्”। यत्समवेतं कार्य्यं भवति ज्ञेयन्तुसमवायिजनकं तत्। तत्रासन्नं जनकं द्वितीयमाभ्यां परंतृतीय स्यात्” भाषा॰। ( ननु कारणत्वंकिम्? अत आह अन्यथेति। तस्य--कार-णत्वस्य। तत्र--समवायिकारणे, आसन्नं कारणं द्वितीयमस-सवायिकारणमित्यर्थः। अत्र यद्यपि तुरीतन्तुसंयोगानां पटा-समवायिकारणत्वं स्यात्, एवं वेगादीनामपि अभिघाता-द्यसमवायिकारणत्वं स्यात् एवं ज्ञानादिकमिच्छाद्यसमवा-यिकारणं स्यात्, तथापि पटासमवायिकारणलक्षणे तुरीतन्तु-संयोगभिन्नत्वं देयं, तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्य-समवायिकारणं भवत्येव, एवं वेगादिकं येगस्पन्दाद्यसमवा-यिकारणं भवत्येवेति तत्तत्कार्य्यासमवायिकारणलक्षणेतत्तद्विभिन्नत्वं न देयम् आत्मविशेषगुणानान्तु कुत्राप्यसमवा-यिकारणत्वं नास्ति तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव। तत्र समवायिकारणे प्रत्यासन्नं द्विविधं कार्य्यैकार्थप्रत्यास-त्त्या,कारणैकार्थप्रत्यासत्त्या च। आद्यं यथा घटादिकं प्रतिकपालसंयोगादिकं, तत्र कार्य्येण घटेन सह कारणस्यकपालसंयोगस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति, द्वितीयंयथा घटरूपं प्रति कपालरूपमसमवायिकारणं तत्र घट-रूपं प्रति कारणं घटः तेन सह कपालरूपस्य एकस्मिन्कपाले प्रत्यासत्तिरस्ति, तथाच क्वचित् समवायसम्बन्धेन,क्वचित् स्वसमवायिसमवायसम्बन्धेनेति फलितार्थः। इत्थञ्चकार्य्यकारणैकार्थान्यतरप्रत्यासत्त्या कारणं ज्ञाना-दिभिन्नमसमवायिकारणमिति सामान्यलक्षणं पर्य्यवसन्नम्आभ्यां समवायिकारणासमवायिकारणाभ्यां भिन्नं कारणंतृतीयं निमित्तकारणमित्यर्थः” मुक्ता॰। कारणताग्राहकं प्रमाणं च सर्व्वदर्शनसंग्रहे दर्शितं यथा(
“अन्वयव्यतिरेकावविनाभावनिश्चायकाविति ननु पक्षेसाध्यसाधनयोरव्यभिचारी दुरवधारणो भवेत् भूते,भविष्यति, वर्त्तमाने--अनुपलभ्यसाने च व्यभिचारशङ्कायाअनिवारणात्। ननु तथाविधस्थले तावकेऽपि मते[Page1939-a+ 38] व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोचः, विनापिकारणं कार्य्यमुत्पद्यतामित्येवं विधायाः शङ्कायाव्याघातावधिकतया निवृत्तत्वात्। तदेव ह्याशङ्क्येतयस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुः तदुक्तम्
“व्याघातावधिराशङ्केति” तस्मात्तदुत्पत्तिनिश्चयेन अवि-नाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्य्यहेत्वोःप्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः। कार्य्यस्योत्पत्तेःप्रागनुपलम्भः
१ कारणोपलम्भे
२ सति उपलम्भः
३ उपल-ब्धस्य पश्चात् कारणानुपलम्भात्
४ अनुपलम्भः
५ इति पञ्च-कारण्या धूमधूमध्वजयोः कार्य्यकारणभावो निश्चीयते”। ( कारणत्वञ्च नियतपूर्ब्बसत्त्वं तच्च कार्य्याव्यवहितप्राक्-क्षणावच्छेदेन कार्य्यसमानाधिकरणात्थन्ताभावाप्रतियोगि-त्वमिति नैयायिका मन्यन्ते। तच्च सत्त्वगर्भं न बेतिसन्देहे सत्त्वगर्भं श्रीहर्षखण्डने निराकृतं यथा(
“ननु तदसत्ताविशेषात्तत्कार्य्यस्यान्यदाशि प्रसङ्गः, न-कार्य्यस्याद्यसत्ताक्षणैवान्यदापि सामग्रीसत्ताऽविशेषात्तवापिकिं नान्यदा कार्य्यजन्म?। अथ न मम तदानीन्तनं साम-ग्रीसत्त्वं तदातनस्य कार्य्यजन्मनो नियामकं किन्तु ततःप्राक् सामग्रीसत्त्वं, तथादर्शनात्। तर्हि ममापि कालान्त-रस्थमपि तदसत्त्वं तदातनकार्य्य जन्मनोनियामकं, तथा-दर्शनादेव। मम तदव्यवहितोत्तरत्वं तदा कार्य्यजन्म-नियामकमिति चेत् न असमसमयत्वादागन्तुकत्वाच्चाविशेषेणनियम्यनियामकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एवसामग्य्रास्तदा कार्य्यनियमोऽभ्युपेयः तथादर्शनादित्येव मन्तव्यम्। तथा च समः समाधिः। तथापि कार्य-जन्मकालस्य कोविशेषः। अन्यथा यद्विशेषान्तरं तदपिविशेशान्तरवतः कालस्य स्यादिति अपर्य्यवसानमेव पर्य्य-वस्येत्, तत्काल इत्याकलय। तथापि तत्कालस्यानुगतं किंरूपम्? इति चेन्न रूपान्तरवतोऽपि किं रूपम्? इत्यपिपर्य्यनुयोगस्यानुवृत्तेः। किञ्च
“अन्तर्भावितसत्त्वञ्चेत्कारणंतदसत्ततः। नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः”। तथाह्यन्तर्भूतसत्त्वं यदि कारणत्वं तदा स्वविशिष्टे स्ववृत्ति-रसतः स्वाश्रयत्वमापादयति। विशिष्टस्यार्थान्तरत्वेऽपि चस्वस्मिन् स्ववृत्तिव्यतिरेकवत् स्वविशिष्टे स्ववृत्तिव्यतिरेकनियमद्र्शनात् न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्था-विशिष्टवृत्त्यभ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुःसर्व्वथैव कारणमसत्पर्य्यवस्यति। अपरापरसत्तानिवे-शने चापर्य्यावसानमेव। न च सत्ताभेदानन्त्यमस्त्येवेत्यपि[Page1939-b+ 38] पादप्रसारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानु-गमननिबन्धनलङ्घिनः प्रथमापि सत्ता न स्यादिति सत्त्व-वृद्धिमिष्टवतो सूलमपि ते नष्टमिति कष्टतरम्। न चस्वरूपसत्तोपगमाय स्वस्ति, भिन्नामप्यनुगतबुद्ध्याद्याधान-पदेऽभिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत। मा भूदनुगतिः स्वरूपसत्त्वस्येति च वदन् तद्गर्भिणीं कार-णतां कथमनुगमयितासि?। किञ्च स्वरूपसत्त्वं स्वरू-पात् घटाद्यात्मनो नाधिकमसतोऽपि स्वरूपं स्वरूपमेवन ह्यसन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि नस्यात् असतोऽघटादित्वात्। अथ सदपि सत्तामनन्त-र्भाव्य कारणं, तदानीमसदपि तत्तथास्तु सत्तासत्तयोःकारणकोट्यप्रवेशाविशेषात्। अथ न सत्ताकारण-कोटिनिविष्टा किन्तु कारणत्वं सत्त्वं नियतपूर्ब्बसत्तां हिकारणताम्मन्येइति मन्यसे तर्हि मत्पक्षे सैव कारणताऽस्तुतर्हि कारणसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमितिचेन्न भावानवबोधात् सत्तामसतीमभ्युपगच्छताऽपि सत्ता किंमयाभ्युपगतैव? अन्यथा कासावसतीति त्वमपि किं सत्ता-न्तत्सत्तामन्तर्भाव्य कारणत्वमिच्छसि? नत्वेवं, पूर्ववत् क्वापिसत्तात्यागो वा अनवस्थायां पर्य्यवसानं स्यात् असत्ताऽवि-शेषात्। असत्त्वाविशेसे कारणनियमः कथं स्यात् इति चेन्नसत्ताविशेषेऽपि तुल्यत्वात्। सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्यतज्जातीयस्य वा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं,सोऽप्यनियतो यदा कारणाभावस्तदा कार्य्याभावावश्यम्भावा-भ्युपगमात् नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्य्यो-त्पादात् अन्वयस्तु न कदाचिदपीति चेन्न तुल्यत्वात्। अन्वयोनास्तीत्यभ्युपगच्छतापि अन्वयोपगमात्। अन्वय-स्यापि सत्तान्तर्भावे कथितदोषापत्तेः, एतेन
“आशा-मोदकतृप्ता ये ये चोपार्ज्जितमोदकाः। रसवीर्य्यविपा-कादि तेषां तुल्यं प्रसज्यते” इत्यस्यापि बाधकत्वमाशा-मोदकायते। सत्तान्तर्भावानन्तर्मावाभ्यां प्रत्यादेशात्आशामोदकादिनापि च रसवीर्य्यविपाकादिजननात्तदसत्कथं कार्य्यं स्यात्? इति चेन्न सत्तामन्तर्भाव्यकार्य्य-त्वोपगमेकारणवत्कार्य्येऽपि उक्तदोषस्यानन्तर्भावे वाऽविशे-षस्य पूर्व्ववदावृत्तेः तस्मात्
“पूर्ब्बसम्बन्धनियमे हेतुत्वेतुल्य एव नौ। हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा”। आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमव-सेयम्? प्राक्सत्त्वनियमस्य विशेषस्यानभ्युपमादिति चेन्नइदमनुगतनियतं प्राक सदिति बुद्ध्या विशेषात्। भ्रान्त्यैवं-[Page1940-a+ 38] बुद्धिगोचरेऽतिप्रसङ्ग इति चेन्न यादृश्या हि धिया त्रि-चतुरादिकक्षानुधावनविश्रान्तया वस्तुसत्त्वनिश्चयस्ते, तादृ-श्यव विषयोकृतस्य ममापि कारणतानिश्चयः, केवलं ततःपरास्वपि कक्षासु बाधात् पूर्व्वपूर्व्वभ्रान्तिसम्भवेन नतत एव सत्त्वावधारणं वयं मन्यामहे इति विशेषः”। ( तत्र हेतौ
“पञ्चेमानि महाबाहो! कारणानि निबोधमे” गीता।
“न लिङ्गं धर्म्मकारणम्” मनुः। उद्देश्ये
“तस्यागमनकारणम्” रघुः। फलस्य कारणत्वञ्चइच्छाद्वारा, उपायेच्छां प्रति फलेच्छायाः कारणत्वात्सर्वोहि लोकः फलमिच्छन्नेव तदुपाये प्रवर्त्तमानो दृश्यतेइति तस्य तथात्वम्। कारणमस्त्यस्य अर्श॰ अच्।
१० उत्तरभेदे उत्तरशब्दे विवृतिः।
“मिथ्योत्तरे पूर्ब्ब-वादे कारणे प्रतिवादिनि” मिता॰ स्मृतिः। भावे तल्कारणता स्त्री। त्व कारणत्व न॰ कारणभावे
“एकः कार-णतां गतः” कुमा॰।
“कारणत्वं भवेत्तस्य” भाषा॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारण¦ n. (-णं)
1. Cause, motive, origin, principle: in logic, cause is of three kinds; Samavayi inherent or direct; Asamavayi proximate or indirect; and Nimitta instrumental or incidental.
2. Action, agency.
3. Killing, injuring.
4. An organ of sense.
5. An instru- ment or means.
6. An element, elementary matter.
7. A deity, as the remote or proximate cause of creation.
8. A number of scribes.
9. A kind of musical instrument.
10. A sort of song, &c. see करण।
11. The origin of a story (of a play or poem.) f. (-णा).
1. Pain, agony.
2. Casting into hell.
3. An astronomical period. E. कृञ् to do or act, in the causal form, and युच् or ल्युट् affix, or करण, and अण् added.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारणम् [kāraṇam], [कृ-णिच् ल्युट्]
A cause, reason; कारणकोपाः कुटुम्बिन्यः M.1.18; R.1.74; Bg.13.21; oft. with loc. of the effect; Bh.2.84.
Ground, motive, object; प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् Rām.2.73. 12. किं पुनः कारणम् Mbh.; Y.2.23; Ms.8.347; कारण- मानुषीं तनुम् R.16.22.
An instrument, means; गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् Y.3.2,65.
(In Nyāya phil.) A cause, that which is invariably antecedent to some product and is not otherwise constituted; or, according to Mill, 'the antecedent or concurrence of antecedents on which the effect is invariably and unconditionally consequent'; according to Naiyāyikas it is of three kinds; (1) समवायि (intimate or inherent); as threads in the case of cloth; (2) असमवायि (non-intimate or non-inherent), as the conjunction of the threads in the case of cloth; (3) निमित्त (instrumental) as the weaver's loom.
The generative cause, creator, father; Ku.5.81.
An element, elementary matter; Y.3.148; Bg.18. 13.
The origin or plot of a play, poem &c.
An organ of sense; हित्वा तनुं कारणमानुषीं ताम्.
The body.
A sign, document, proof or authority; प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् Ms.11.84.
That on which any opinion or judgment is based.
Action; आत्मना कारणैश्चैव समस्येह महीक्षितः Mb.12.59.13.
A legal instrument or document.
Agency, instrumentality.
A deity (as the proximate or remote cause of creation)
Killing, injuring.
A desire (वासना) created formerly (as पूर्ववासना); पूर्वं नित्यं सर्वगतं मनोहेतुम- लक्षणम् । अज्ञानकर्मनिर्दिष्टमेतत्कारणलक्षणम् ॥ Mb.12.211.6.
णा Pain, agony.
Casting into hell.
Urging, instigation. (-कारणात् for the reason that; द्वेष˚ on account of hatred; मत्कारणात् for my sake; Pt.1.22.)
Action; निमित्ते कारणात्मके Mb.12.289.7.
Comp. अन्तरम् a particular reason; प्रविष्टो$स्मि दुराधर्षं वालिनः कारणान्तरे Rām.4.1.28;
instrumental cause; येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे Rām.3.48.4. -अन्वित a. having a cause or reason. -आख्या a. N. of the organ of perception and action, of बुद्धि, अहंकार and मनस्.-उत्तरम् a special plea, denial of the cause of complaint; admission of the charge generally, but denial of the actual issue (in law). -कारणम् an elementary or primary cause; an atom; त्वं कारणं कारणकारणानाम् Ki.18. 35. -कारितम् ind. in consequence of; यदि प्रव्राजितो रामो लोभकारणकारितम् Rām.2.58.28. -गत a. referred to its cause, resolved into its principles. -गुणः a quality of the cause; Sāṅ. K.14. -बलवत् a. strong by motives; Pt.5.29. -भूत a.
caused.
forming the cause.-माला a figure of speech, 'a chain of causes'; यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात् K. P.1;e. g. Bg.2.62,63; also S. D.728. -मूलम् (in Rhet.) a law of causation. -वादिन् m. a complainant, plaintiff. -वारि n. the original water produced at the beginning of the creation. -विहीन a. without a cause.-शरीरम् (in Vedānta phil.) the inner rudiment of the body, causal frame.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारण n. cause , reason , the cause of anything( gen. , also often loc. ) Ka1tyS3r. MBh. Mn. etc.
कारण n. instrument , means
कारण n. motive origin , principle
कारण n. a cause (in phil. i.e. that which is invariably antecedent to some product See. समवा-यि-क्, असमवा-यि-क्, निमित्त-क्)
कारण n. an element , elementary matter Ya1jn5. iii , 148 Bhag. xviii , 13
कारण n. the origin or plot of a play or poem Sa1h.
कारण n. that on which an opinion or judgement is founded (a sign , mark ; a proof ; a legal instrument , document) Mn. MBh. etc.
कारण n. an organ of sense Ragh. xvi , 22 etc.
कारण n. an action MBh. xii , 12070
कारण n. agency , instrumentality , condition Katha1s. cxii , 178
कारण n. " the cause of being " , a father W.
कारण n. " cause of creation " , a deity W.
कारण n. the body L.
कारण n. a kind of musical instrument L.
कारण n. a sort of song L.
कारण n. a number of scribes or कायस्थs W.
कारण n. killing , injury L.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the lord who is निर्गुण and ब्रह्मा becomes कर्णात्मा after its conjunction with प्रकृति and a सगुण। वा. ४९. १५१. etc.