कारवेल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवेल्लम्, क्ली, (कारं वेल्लति । वेल्ल चलने कर्म्म- ण्यण् । यद्वा कारेण वातगमनेन वेल्लति चलति गच्छति वा वेल्ल चलने अच् ।) कठिल्लकम् । करला इति भाषा । तत्पर्य्यायगुणाः । “कारवेल्लं कठिल्लं स्यात् कारवेल्ली ततो लघुः । कारवेल्लं हिमं भेदि लघु तिक्तमवातलम् ॥ ज्वरपित्तकफास्रध्नं पाण्डुमेहकृमीन् हरेत् । तद्गणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः” ॥ इति भावप्रकाशः ॥ अमरे पुंलिङ्गोऽयम् ॥

कारवेल्लः, पुं, (कारेण वायुवत् गत्या वेल्लति चल- तीति । कार + वेल्ल + अच् ।) लताविशेषः । करला इति भाषा । तत्पर्य्यायः । कठिल्लकः २ सुषवी ३ । इत्यमरः । २ । ४ । १५४ ॥ शुषवी ४ सुशवी ५ । इति तट्टीका ॥ कण्डुरः ६ काण्डकटुकः ७ सुकाण्डः ८ उग्रकाण्डः ९ कठिल्लः १० नासा- सम्बेदनः ११ पटुः १२ । इति राजनिर्घण्ठः । तत्पुष्पगुणः । धारकत्वम् । रक्तपित्तरोगे सुपथ्य- त्वञ्च ॥ तत्फलगुणः । शुक्रकफपित्तनाशित्वम् । रुचिकरत्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवेल्ल पुं।

कारवेल्लः

समानार्थक:कारवेल्ल,कठिल्लक,सुषवी

2।4।154।2।3

संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि। कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवेल्ल¦ पु॰ कारेण वातगत्या वेल्लति वेल्ल--चालने अच्। शाताभेदे (करेला)

२ तत्फले न॰।
“कारवेल्लं हिमंभेदि लघु तिक्तमवातलम्। ज्वरपित्तकफास्रघ्नं पाण्डुमेहकृमीन् हरेत्” भावप्र॰। स्वार्थे क कारवेल्लकोऽपि तत्रैवअल्पार्थे ङीष्।

२ क्षुद्रकारवेल्ले (उच्छा)। अमरः। कारवेल्लमुक्त्वा
“तद्गुणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः। कारवेल्लीफलं तक्रे स्वेदितं हिङ्गुमर्द्दितम्। भर्ज्जितं नव-नीतेन सैन्धवेन समन्वितम्” भावप्र॰।
“विदलितमुखमीषत्[Page1942-b+ 38] कारवेल्लीकठोरं पुलकितमिव तैलैः माधितं रामष्ठेन। रचितमरिचचूर्ण्णं सैन्धवेनातिपूर्ण्णं सुललितरसनाग्रं लोल-तामातनोति” पाकशा॰। कारवेल्लीफलं भेदि लघु तिक्तंमुशीतलम्। पित्तास्रकामलापाण्डुकफमेदकृमीन् हरेत्” वैद्यकम्। स्वार्थे क कारवेल्लिकाप्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवेल्ल¦ m. (-ल्लः) A kind of gourd, (Momordica charantia.) E. कार cer- tainty, and वेल्ल what goes; also with कन् added कारवेल्लक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवेल्लः [kāravēllḥ] ल्लकः [llakḥ], ल्लकः 1 N. of a bitter vegetable (Mar. कारलें ?)

A missile of the shape of कारवेल्ल, covered all over with sharp edges; गण्डशैलैः कारवेल्लैः लोहकण्टकवेष्टितैः Parṇal 4.75.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवेल्ल m. the gourd Momordica Charantia Sus3r.

कारवेल्ल n. its fruit L.

"https://sa.wiktionary.org/w/index.php?title=कारवेल्ल&oldid=495894" इत्यस्माद् प्रतिप्राप्तम्