कार्पासी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पासी, स्त्री, (कार्पास + जातित्वात् ङीष् । यद्वा कर्पासोऽस्त्यस्याः प्रज्ञाद्यण् ततो ङीप् ।) का- र्पासवृक्षः । कापास इति भाषा ॥ तत्पर्य्यायः । बदरा २ तुण्डिकेरी ३ समुद्रान्ता ४ । इत्यमरः । २ । ४ । ११६ ॥ पटदः ५ । इति रत्नमाला ॥ सारिणी ६ चव्या ७ तूला ८ गुडः ९ तुण्डके- रिका १० मरूद्भवा ११ पिचुः १२ बादरः १३ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । स्तन- दुग्धकारित्वम् । पित्तकफतृष्णादाहश्रमभ्रान्ति- मूर्च्छानाशित्वम् । बलकारित्वञ्च । इति राज- निर्घण्टः ॥ तत्पत्रगुणाः । वायुनाशित्वम् । रक्त- कारित्वम् । मूत्रवर्द्धकत्वम् । कर्णपिण्डिकानाद- पूयास्रावनाशित्वञ्च । तद्वीजगुणाः । स्तन्यदत्वम् । वृष्यत्वम् । स्निग्धत्वम् । कफकरत्वम् । गुरुत्वञ्च । इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पासी स्त्री।

कार्पासी

समानार्थक:तुण्डिकेरी,समुद्रान्ता,कार्पासी,बदरा

2।4।116।1।3

तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च। भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पासी f. the cotton plant Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कार्पासी&oldid=273250" इत्यस्माद् प्रतिप्राप्तम्