कालकूट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालकूटम्, क्ली, (कालं शिवमपि कूटयति अवसा- दयति यद्वा कालस्य मृत्योः कूटं आयोजन समष्टिः दूत इव वा ।) वोलम् । विषम् । इति राजनिर्घण्टः ॥ (यथा, भागवते ८ । ६ । २५ । “नभेतव्यं कालकूटात् विषाज्जलधिसम्भवात्” ॥)

कालकूटः, पुं क्ली, (कालस्य मृत्योः कूटः छद्मदूत इव ।) स्थावरविषभेदः । इत्यमरः ॥ १ । ८ । १० । (यथा भागवते ३ । २ । २३ । “अहो वकी यं स्तनकालकूटं जिघांसयाऽपाययदप्यसाध्वी” ॥ अस्य स्वरूपं यथा, -- “देवासुररणे देवैर्हतस्य पृथुमालिनः । दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः ॥ निर्य्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः सो हि क्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे शोधन- मारणाधिकारे ॥ * ॥ देशविशेषः । यथा, महाभारते २ । २० । २६ । “कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् । रम्यं पद्मसरो गत्वा कालकूटमतीत्य च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालकूट पुं-नपुं।

स्थावरविषभेदाः

समानार्थक:काकोल,कालकूट,हलाहल,सौराष्ट्रिक,शौक्लिकेय,ब्रह्मपुत्र,प्रदीपन,दारद,वत्सनाभ

1।8।10।1।2

पुंसि क्लीबे च काकोलकालकूटहलाहलाः। सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालकूट¦ न॰। कालं शिवमपि कूटयति कूट--उपतापे अण्उप॰ स॰, कालस्य मृत्योः कूटैव वा कालबर्ण्णस्य कूट-इव वा।

१ विषभेदे पु॰ न॰। विषभेदकालकूटलक्षण-गुणाद्युक्तं भावप्रकाशे यथा
“विषं तु गरलः क्ष्वेड-स्तस्य भेदानुदाहरे। वत्सनाभः सहारिद्रः सक्तुकश्चप्रदीपनः। सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च। हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव” इति विभज्य
“देवासुररणे देवैर्हतस्य पृथुमालिनः। दैत्यस्य रुधि-राज्जातस्तरुरश्वत्थसन्निभः। निर्याअः कालकूटोऽस्यमुनिभिः परिकीर्त्तितः। सहि क्षेत्रे शृङ्गवेरे कोङ्कणे-मलये भवेत्” इति लक्षितम्। ( विषशोधनस्य विधानादिकं तत्रैवोक्तं यथा-
“गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्यति। रक्तसर्षपतैलाक्ते तथा धार्य्यञ्च वाससि। ये गुणा गरलेप्रोक्तास्ते स्युर्हीनविशोधनात्। तस्माद्विषंप्रयोगे तु शोध-यित्वा प्रयोजयेत्”। शोधितविषगुणाः तत्रैव। (
“विषं प्राणहरं प्रोक्त व्यवायि च विकाशि च। आग्नेयं वातकफहृत् योगवाहि तमोवहम्। व्यवायि सक-लकायगुणव्यापनपूर्व्वकपाकस्थानगमनशीलम्। विकाशिअओजःशोषणपूर्व्वकसन्धिबन्धशिथिलीकरणशीलम्। आ-ग्नेयम् अधिकाग्न्यंशम्। योगवाहि सङ्गिगुणग्राहकम्। तमोवहं तमोगुणप्राधान्येन बुद्धिविध्वंसकम्।
“तदेव युक्ति-युक्तन्तु प्राणदायि रसायनम्। योगवाहि परं वातश्ले-ष्मजित्सन्निपातहृत्”।

२ काके पु॰ स्त्री राज॰। अति-कृष्णत्वात्मृत्योर्दूतरूपत्वाद्वा तस्य तथात्वम् स्त्रियां जा-तित्वात् ङीष्।

३ विषमात्रे च।
“कालिमा कालकूटस्य नापैति हरसङ्ग-मात्”।
“ततोदुर्य्योधनः पापः तद्भक्ष्ये कालकूटकम्। क्षिप्रं प्रक्षेपयामास भीमसेनजिघांसया” भा॰ आ॰

५०

०८ श्लोकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालकूट¦ mn. (-टः-टं) A kind of poison. E. काल YAMA, कूट to destroy, अप् affix; destroying even the regent of death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालकूट/ काल--कूट m. ( n. L. )a poison (contained in a bulbous root or tube) MBh. iii , 540 Pan5cat.

कालकूट/ काल--कूट m. a poison (produced at the churning of the ocean , swallowed by शिवand causing the blueness of his neck) MBh. i , 1152 BhP. etc.

कालकूट/ काल--कूट m. poison (in general) BhP. iii , 2 , 23.

कालकूट/ काल--कूट m. id. L.

कालकूट/ काल--कूट m. (for 1. and 3. See. p. 277 , col. 1 , and p. 279 , col. 2.)

कालकूट m. pl. (1. fr. कलक्) , N. of a country near the हिमा-लयand of the people inhabiting it MBh.

कालकूट mfn. relating to that country g. पलद्य्-आदि.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Kālakūṭa : m.: Name of a mountain.

Kṛṣṇa, Arjuna and Bhīma, while proceeding to the Magadha country from the Kuru country, crossed the Kālakūṭa 2. 18. 26; the Kālakūṭa mountain is mentioned among the places overrun by the army of the Kauravas as there was not enough room for it in the Hāstinapura 5. 19. 28, 30.

_______________________________
*4th word in right half of page p309_mci (+offset) in original book.

Kālakūṭa : m. (pl.): Name of a people.

Living in the north; Arjuna defeated them in his expedition to the north before the Rājasūya (diśaṁ dhanapater iṣṭām ajayat pākaśāsaniḥ) 2. 23. 9; (kālakūṭāṁś ca…vijitya saḥ) 2. 23. 14.

_______________________________
*4th word in right half of page p656_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=कालकूट&oldid=495989" इत्यस्माद् प्रतिप्राप्तम्