कालिदास
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिदासः, पुं, (काल्याः दासः । संज्ञायां ह्रखः ।) स्वना- मख्यातकविः । तत्पर्य्यायः । रघुकारः २ मेधारुद्रः ३ कोटिजित् ४ । इति त्रिकाण्डशेषः ॥ स तु रघुकुमारसम्भवश्रुतबोधमेघदूताभिज्ञानशकुन्तल- नलोदयशृङ्गारतिलकादिग्रन्थकर्त्ता विक्रमादित्य- राजसभास्थनवरत्नमध्ये सप्तमरत्नञ्च ॥ (यदुक्तम् । “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिदास¦ पु॰
६ त॰ संज्ञायां ह्रस्वः। रघुवंशादिकाव्यकारकेमहाकविभेदे तद्वृत्तान्तकालादिकमुच्यते
“इतःपूर्बं संवत्सरनामकशाकाब्दप्रवर्त्तको भारतवर्षेमालवदेशे उज्जयिनीनामराजधान्यामसीमगुणधामविक्रमादित्यनामा नृपतिरासीत्। तस्य धन्वन्तरिप्रभृतयोनव कविवराः सभासदो बभूवुः। तेषु कालिदास एवप्रथितयशा महाकविरासीत्। तेन च रघुवंश--कुमार-सम्भव--मेवदूतामिधं काव्यत्रयं, स्मृतिचन्द्रिकाभिध उत्क-लदेशप्रचलितो वेदोक्तकर्म्मप्रतिपादकप्रबन्धो ज्योतिर्विदा-भरणनामकं कालज्ञानशास्त्रं च क्रमेण निरमायि। अनन्तरञ्च मालविकाग्निमित्र--विक्रमोर्वशी--शाकुन्तलाभि-धानि दृश्यकाव्याति प्रणीतानि। एतच्च तत्कृतज्योतिर्वि-दाभरणग्रन्थे शेषाध्याये स्पष्टमुपलभ्यते यथा-
“मत्तोऽधुना कृतिरियं सति मालवेन्द्रे श्रीविक्रमार्कनृ-पराजवरे समासीत्” इति।
“धन्वन्तरिः क्षपणकोऽम-रसिंहशङ्कुर्वेतालभट्टघटस्व[क]र्परकालिदासाः। ख्यातोवराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नवविक्रमस्य”।
“यद्राजधान्युज्जयिनी महापुरी सदामहाकालमहेशयोगिनी”।
“शङ्क्वादिपण्डितवराः कवयस्त्वनेके ज्योतिर्विदः समभवंश्चवराहपूर्वाः। श्रीविक्रमस्य बुधसंसदि प्राज्यबुद्धेस्तै-रप्यहं नयमखः किल कालिदासः”।
“काव्यत्रयं सुमति-कृद् रघुवंशपूर्वं जातं यतो ननु कियच्छ्रुतिकर्म्मवादः। ज्योतिर्विदाभरणकालविधानशास्त्रं श्रीकालिदासकवितोहि ततो बभूव” इति
“वर्षे सिन्धुरदर्शनाम्बरगुणैर्याते कलेः[Page2018-b+ 38] संमिते मासे माधवसंज्ञितेऽत्र विहितो ग्रन्थक्रियोपक्रमः। ” इति च अनेन
३०
६८ अष्टषष्ट्युत्तरत्रिसहस्रसंख्यके कलेर-ब्दवृन्दे याते तद्ग्रन्थकरणं सुव्यक्तम्। इदानीञ्च कले-र्गताब्दाः
४९
७५ तेषुनिर्दिष्ट
३०
६८ संख्ययोनितेषु
१९
०७ वर्षाः समायान्ति। तेन इतः
१९
०७ वर्षगणात् पूर्वंकालिदासकवितो ज्योतिर्विदाभरणं जातं ततः पूर्बं रघुवंशादिकमभूदिति प्रतिभाति। एतत् सन्दर्भैर्यद्यपिदृश्यकाव्यत्रयकरणं न प्रतीयते तथापि दृश्यकाव्यानांप्रागुक्तानां ज्योतिर्विदाभरणग्रन्वात् पश्चात् काले कालि-दासकृतत्वेन न तेषां तत्र समुल्लेखः किन्तु तत्तद्ग्रन्थेष्वेवतत्कृतत्वं सुव्यक्तमेव। ऋतुसंहारनलोदययोर्यदि तत्-कालिदासकृतत्वं तदा ततः पराचीनतया न तत्रोल्लेखः। कालिदासश्च कतममन्वयं कतमञ्चजनपदमलञ्चकार तन्ना-कलयामः। किन्तु तस्य चरितविषयेऽस्मद्देशे भूयिष्ठप्रचा-रमेवमैतिह्यमस्ति। तदत्र सर्वत्र विज्ञापनाय प्रदर्श्यते। काचित् बिद्वत्तमा कन्या विवाहार्थं पित्रानीतान् बहून्पात्रभूतान् द्विजान् वादविचारेण पराजिग्ये। एवम्आगत्यागत्य तेस्याः सकाशात् विचारे पराजयमाप्त्वाप्रतिनिवृत्तेषु वरेषु तदुत्तरं पराजयभयेनेतरे वरा यदानैवागन्तुमैच्छन् तदा तत्पित्रा विचाराभावेनैव आगतमा-त्राय पात्राय कन्या देयेति प्रतिज्ञाते पूर्वपूर्बवरानयनेनिष्फलप्रयत्नतया बहुधा खिन्ना जातेर्ष्या दूताः पुनर्वरा-नयनार्थं तत्पित्रा नोदिताः स्वावलम्बितशाखाच्छेदितयाकालिदासमल्पबुद्धिमवेत्य तत्कन्याया वरत्वेनावधार्य्यानिन्युः। आनीताय च तस्मै अविचार्य्य तद्दोषगुणौतत्पिता तां कन्यां प्रायच्छत्। एवं तस्य विवाहे संवृत्तेदम्पत्योः परस्परालापकाले कालिदासेनापभ्रंशशब्दमात्रा-भिज्ञेनापभ्रंशशब्दः प्रायोजि। तत् श्रुत्वा च तद्भार्य्यातमत्यन्तं तिरस्कृत्य गृहात् निष्कासयामास। एवं पत्न्यानिष्कासितः कालिदासोऽतीव निर्वेदमापद्यारण्यं गत्वासरस्वतीमाराध्य तत्प्रसादात् लब्धविद्यः गृहं प्रतिनिववृते। आगत्य च रात्रौ गृहद्वारं रुद्धं विलोक्यतेन स्वपत्नीं प्रति (अनावृतकपाटं द्वारं देहि)इत्यभिहितम् तत् श्रुत्वा च स्वरविशेषेण तंस्वपतिमवगत्यकालिदासपत्न्याऽनुयुक्तम् (अस्ति कश्चित् वाग्विशेषः) इतिइत्येवं पत्न्या कृते वाग्विशेषास्तित्वप्रश्ने तद्वाक्यं पदत्र-यघटितमिति कृत्वा तत्रस्थमेकैकं पदमधिकृत्य तेन एकैकंकाव्यं विरचितम्। तत्र तद्वाक्यस्थम् अस्तीति प्रथमं[Page2019-a+ 38] पदमधिकृत्य
“अस्त्युत्तरस्याम्” इत्यादि सप्तदशसर्गात्मकंकुमारसम्भवाख्यं महाकाव्यम्, कश्चिदिति द्वितीयं पदम-धिकृत्य
“कश्चित् कान्ताविरहगुरुणा” इत्यादिकं मेघदूता-ख्यं खण्डकाव्यम्,
“वाग्विशेषः” इति तृतीये पदे तदेकदेशंवागिति पदमधिकृत्य
“वागर्थाविव संपृक्तौ” इत्या-दिकमूनविंशतिसर्गात्मकं रघुवंशाख्यं महाकाव्यञ्च तेनक्रमशो रचितम्। तद्रचनया च कालिदासः सर्वत्रप्रथितसुकवितया प्रख्यातिमुपलभ्य क्रमेण विक्रमादित्यस्यसभासदताम् आससादेति। मालविकाग्निमित्रस्य तत्कृतत्वविषये केचित् सन्दिहानाएवमाहुः। कालिदासाह्वयास्त्रयः कवय आसन् तत्र एकोविक्रमादित्यसभ्यः, अपरो भोजदेवसभ्यः अपरो भामिनी-विलासकर्त्ता जगन्नाथमिश्रः अभिनवकालिदासाख्यः। तेषां मध्येप्राचीनकालिदासस्य नैषा कृतिः शाकुन्तलस्येवतत्र वाग्वैदर्भीविरहादित्यन्यस्येवैषा कृतिरिति। तत्र मालविकाग्निमित्रस्य प्राचीनकालिदासकृतित्वाभावेतदीयसन्दर्भस्य भोजदेवपिवृव्यसभासदध्वनिकेन दशरूपकेकथन्तरां मालवाग्निमित्रनामत्वेन समुद्वारः सङ्गच्छते। भोजदेवात्तस्य प्राचीनत्वे एव तदुद्धारः सङ्गच्छते नान्यथाभोजदेवेन च सरस्वतीकण्ठाभरणे ग्रन्थनामादत्त्वैव माल-वाग्निमित्रनाटकपद्यस्य समुद्धाराच्च तद्ग्रन्थस्य ततःप्राचीनकालिदासकृतित्वम् नान्यकृतितेति निश्चेतव्यम्। किञ्चश्रीहर्षदेवनृपतेः सभ्यस्य रत्नाबल्यादिकारकस्य धावक-स्यैव ततः प्राचीननाटककर्त्तृत्वेन तद्ग्रन्थोपोद्घाते तस्यनामोल्लेखात् प्राचीनस्यैव कालिदासस्य तत्कर्त्तृत्वं सुव्य-क्तम्। भोजदेवसभ्यकालिदासस्य तत्कर्त्तृत्वे ततः प्राचीना-भिज्ञानशकुन्तलादिकर्त्तृनामकीर्त्तनस्यैवीचितत्वेन कि-मिति तदुपेक्ष्यातिविप्रकृष्टधावकादिनामोत्कीर्त्तनम्?सन्निकृष्टं परित्यज्य विप्रकृष्टग्रहणस्यान्याय्यत्वात्। प्राची-नकालिदासस्य मालविकाग्निग्रन्थकर्त्रपेक्षया प्राचीनत्वेनप्रथितयशस्कत्वेन च तन्नामोल्लेखस्यैवोचितत्वात्। भोजदेवसभ्यकालिदासश्च भोजदेवकालिकः तदेतत्भोजप्रबन्धे वर्ण्णितं यथा
“भवन्नाम्ना कान्य-क्षराणि सौभाग्यावलम्बितानि कस्य वा देशस्य भवद्विरहःसुजनान् बाधत इति। ततः कविर्लिखति राज्ञीहस्तेकालिदास इति राजा वाचयित्वा पादयोः पतति ततस्त-त्रासीनयोः कालिदासभोजराजयोरासीत् सन्ध्या”।
“यस्याश्चोरश्चिकुरनिकरः कालिदासोविलासः” प्रशन्नरा॰। [Page2019-b+ 38]
“उपमा कालिदासस्य भारवेरर्थगौरवम्। नैषधे पद-लालित्यं माघे सन्ति त्रयोगुणाः”।
“कालिदासकवितानवं वयः” इति च उद्भटः। स्वार्थे क तत्रैव।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिदास¦ m. (-सः) The name of a celebrated poet, author of Sakuntala, Vikramorvasi, the Megha Duta, the Raghu Vansa, the Nalodoya and other poems: he was one of nine poets or gems of VIKRAMA- DITYA'S court, and is supposed to have flourished in the century preceding the Christian æra; the name is however applied to more persons than one, and seems, in measure, to have been used as an honorary title; the work attributed to this author are amongst the most elegant compositions in the Sanskrit language. E. काली the goddess DURGA, and दास a slave, the final of काली being made short.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिदासः [kālidāsḥ], 1 N. of a celebrated poet (author of many works like Śākuntala, Raghuvaṁśa &c.).
N. of two other poets (author of Nalodaya and Śrutabodha).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिदास/ कालि-दास m. (fr. काली, the goddess दुर्गा, and दास, a slave , the final of कालीbeing shortened ; See. Pa1n2. 6-3 , 63 ), N. of a celebrated poet (author of the शकुन्तला, विक्रमोर्वशी, मालविकाग्निमित्र, मेघ-दूत, and रघु-वंश; described as one of the nine gems of विक्रमा-दित्य's court , and variously placed in the first , second , third , and middle of the sixth century A.D. ; the name is , however , applied to several persons , especially to two others who may have written the नलोदयand श्रुत- बोध[hence the N. is used to denote the number , " three "] , and seems , in some measure , to have been used as an honorary title).
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
KĀLIDĀSA : The greatest poet and dramatist in Sans- krit. Some scholars opine that Kālidāsa flourished in the 8th Century B.C. while others place his date upto the period 11th Century A.D. At any rate most of the scholars consider the period between 1st Century B.C. and 5th Century A.D. as the most probable date of the great poet. Some of the main theories in this regard are as follows;--
(1) Eighth century B.C. Towards the close of Raghu- vaṁśa Mahākāvya Kālidāsa has referred to the son of King Agnimitra. Therefore the poet must have lived in the 8th Century B.C. This is the view of the scholar Hippolyte Fanche.
(2) Second Century B.C. According to Dr. Kuñjan Rājā Kālidāsa lived in the second Century B.C., the reasons for the belief being as follows. The poet was a contemporary of King Agnimitra of the Suṅga dynasty. This Agnimitra is eulogised in Kālidāsa's Mālavikāgni- mitra. Agnimitra is referred to in the Bharatavākya (epilogue) of the drama also.
(3) First Century B.C. The traditional belief is that Kālidāsa was a member in the assembly of poets and scholars of the court of emperor Vikramāditya, who started the Vikrama era in B.C. 56.
Dhanvantarikṣapaṇakāmarasiṁha-Śaṅku--
Vetāla-Bhaṭṭa-Ghaṭakarpara-Kālidāsāḥ /
Khyato Varāhamihiro nṛpateḥ sabhāyāṁ
Ratnāni vai vararucir nava vikramasya.
4) Fifth Century A.D. According to Dr. Keith, Kāli- dāsa lived in the fifth Century A.D. One Candra- gupta II, who defeated the Śakas in 339 A.D. was King of Ujjain. He was known as Vikramāditya also. Dr.Keith thinks that the great poet might have been a member of this King's court. Perhaps Kālidāsa had remembered his royal patron Vikramāditya in his drama called Vikramorvaśīya. Dr. Keith is further of the view that Kālidāsa composed Kumārasambhava after attending the birth celebrations of Kumāragupta, son of King Vikramāditya.
(5) Sixth Century A.D. Three scholars, Fergusson, Max Muller and Kern have opined that Kālidāsa lived in the sixth Century A.D.
Whichever be the date of Kālidāsa it could be known from his works that he spent the major part of his life in Ujjain, and was inextricably indebted to the city in many ways. Raghuvaṁśa and Kumārasambhava are his two mahākāvyas. He had also written three dramas, Abhijñānaśākuntala, Vikramorvaśīya and Mālavikāgni- mitra and a lyric called Ṛtusaṁhāra. He wrote also a world-famous poem called Meghasandeśa.
_______________________________
*5th word in right half of page 374 (+offset) in original book.