काव्य

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काव्यम्, क्ली, (कवेरिदं कर्म्म भावो वा । ष्यञ् ।) ग्रन्थः । इति मेदिनी ॥ रसयुक्तवाक्यम् । यथा, -- “वाक्यं रसात्मकं काव्यं दोषास्तस्यापकर्षकाः । उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः” ॥ एषां प्रत्येकं लक्षणानि लिख्यन्ते । तत्रादौ वाक्य- लक्षणं यथा, -- “वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” ॥ रसलक्षणं यथा, -- “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम्” ॥ दोषलक्षणं यथा, -- रसापकर्षका दोषास्ते पुनः पञ्चधा मताः । पदे तदंशे वाक्यार्थे सम्भवन्ति रसेऽपि यत्” ॥ गुणलक्षणं यथा, -- “रसस्याङ्गित्वमाप्तस्य धर्म्माः शौर्य्यादयो यथा । गुणा माधुर्य्यमोजोऽथ प्रसाद इति ते त्रिधा” ॥ अलङ्कारलक्षणं यथा, -- “शब्दार्थयोरस्थिरा ये धर्स्माः शोभातिशायिनः ॥ रसादीनुपकुर्व्वन्तोऽलङ्कारास्तेऽङ्गदादिवत्” ॥ रीतिलक्षणं यथा, -- “पदमंधटनारीतिरङ्गसंस्थाविशेषवत् । उपकर्त्री रसादीनां सा पुनः स्याच्चतुर्व्विधा । वैदर्मी चाथ गौडी च पाञ्चाली लाटिका तथा” ॥ इति माहित्यदर्पणम् ॥ * ॥ तत् काव्यं त्रिविधं ध्वनिगुणीभूतव्यङ्ग्यचित्रमेदेन । तत्राद्यास्य लक्षणम् । “इदमुत्तममतिशयिनि व्यङ्ग्य वाच्यात् ध्वनिर्बुधैः कथितः” । हितीयस्य लक्षणम् । “अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु सध्यकम्” ॥ तृतीयस्य लक्षणम् । “शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” । इति काव्यप्रकाशः ॥ “एतेषां विवरणानि तत्तच्छब्दे द्रष्टव्यानि” ॥

काव्यः, पुं, (कवेः भृगोरपत्यं पुमान् इति “कुर्व्वाद्दिभ्यो ण्यः” ४ । १ । १५१ । इति ण्यः । यञ् इति केचित् ।) शुक्राचार्य्यः । इति मेदिनी ॥ (यथा, महाभारते १ । सम्भवपर्व्वणि ७६ । ६ । “जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् । पौरहित्येन याज्यत्वे काव्यं तूशनसं परे” ॥ तामसमन्वन्तरीयऋषिविशेषः । यथा, मार्कण्डेये ७४ । ५९ । “ज्यीतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा । पीबरश्च तथा ब्रहान् सप्त सप्तर्षयोऽभवन्” ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काव्य पुं।

शुक्राचार्यः

समानार्थक:शुक्र,दैत्यगुरु,काव्य,उशनस्,भार्गव,कवि

1।3।25।1।3

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काव्य¦ पु॰ कवेः भृगुपुत्रस्यापत्यम् यञ्। शुक्रे अमरः
“भृगोःपुत्रः कविर्विद्वान् शुक्रः कविसुतग्रहः” भा॰ आ॰

६० ।
“जिगीषया ततोदेवावव्रिरेऽङ्गिरसं मुनिम्। पौरोहित्येनयाज्यार्थे काव्यं तूशनसं परे” भा॰ आ॰

७५ अ॰। कवे-रिदम् यञ्।

२ कविसम्बन्धिनि। कव--वर्ण्णने स्तुतौ चकर्म्मणि ण्यत्।

३ वर्ण्णनीये

४ स्तुत्ये च त्रि॰ स्त्रियांटाप्
“दुर्य्योधनस्य रूपेण शृणु काव्यां गिरं मम” भा॰ स॰

६० अ॰।
“भाष्याणि तर्कयुक्तानि देहवन्ति विशांपते!। नाटका विविधाः काव्याः कथाख्यायिककारिकाः” भा॰ स॰

११ अ॰। शार्ङ्गरवादौ तु काव्यशब्दस्य यञन्तस्यैव ग्रहणात् ततः स्त्रियां ङीन्। कवेः कर्म्म ष्यञ्। कविकृतगद्यपद्यात्मके

५ वाक्यविशेषे न। काव्यप्र॰ तत्करणप्रयोजनमुक्तं यथा--
“काव्यं यशसेऽर्थकृते व्यवहारविदे शिबेतरक्षतये। सद्यःपरनिर्वृतये कान्तासम्मिततयोपदेशयुजे” मू॰
“कालिदासादीनामिव यशः, श्रीहर्षादेर्धावकादीनामिवधनं, राजादिगतोचिताचारपरिज्ञानम्, आदित्यादेर्म्मयू-रादीनामिवानर्थनिवारणं, सकलप्रयोजनमौलिभूतं सम-गन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमा-नन्दं, प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मि-तार्थतात्पर्य्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोर्गुण-भावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत्काव्यंलोकोत्तरवर्णनानिपुणकविकर्म्म, तत् कान्तेव सरसतापा-दनेनाभिमुखीकृत्य रामादिवत् वर्त्तितव्यं न रावणादिव-दित्युपदेशञ्च, यथायोगं कवेः सहृदयस्य च करोतीतिसर्व्वथा तत्र यतनीयम्। अस्य कारणमाह” वृत्तिःशक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। काव्य-ज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे” मू॰[Page2023-b+ 38]
“शक्तिः कवित्ववीजरूपः संस्कारविशेषः, यां विना काव्यन प्रसरेत् प्रसृतं वा उपहसनीयं स्यात्, लोकस्यस्थावरजङ्गमात्मकलोकवृत्तस्य, शास्त्राणां छन्दोव्याकर-णाभिधानकोषकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्र-न्थानां, काव्यानाञ्च महाकविसम्बन्धिनाम्, आदिग्रह-णादितिहासादीनाञ्च विमर्शनाद्व्युत्पत्तिः, काव्यं कर्त्तुंविचारयितुञ्च ये जानन्ति तदुपदेशेन करणे योजने चपौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः न तु व्यस्ता-स्तस्य काव्यस्योद्भवे निर्म्माणे समुल्लासे च हेतुर्नतुहेतवः” वृत्तिःसा॰ द॰ अन्यप्रकारं काव्यस्य प्रयोजनं मुक्तं यथा
“चतुर्ब्बर्गफलप्राप्तिः सुखादल्पधियामपि। काव्यादेवयतस्तेन तत्स्वरूपं निरूप्यते” सू॰।
“चतुर्ब्बर्गफलप्राप्तिर्हि काव्यतो रामादिवत् प्रवर्त्तितव्यंन रावणादिवदित्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेणसुप्रतीतैव। उक्तञ्च
“धर्म्मार्थकाममोक्षेषु वैचक्षण्यं क-लासु च। करोति कीर्त्तिं प्रीतिञ्च साधुकाव्यनिषेवण-मिति”। किञ्च काव्याद्धर्म्मप्राप्तिर्भगवन्नारायणचरणा-रविन्दस्तवादिना
“एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गेलोके च कामधुग्भवति” इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव। अर्थप्राप्तिश्च प्रत्यक्षसिद्धा। कामप्राप्तिश्चार्थद्वारैव। मोक्ष-प्राप्तिश्चैतज्जन्यधर्म्मफलाननुसन्धानात् मोक्षोपयोगि-वाक्ये व्युत्पत्त्याधायकत्वाच्च। चतुर्वर्गप्राप्तिर्हि वेदशा-स्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते। परमानन्दसन्दोहजनकतया सुखादेव सुकुमारबुद्धीनानपिपुनः काव्यादेव। ननु तर्हि परिणतबुद्धिभिः सत्सुवेदशास्त्रेषु काव्येषु किमिति यत्नः करणीय इत्यपि नवक्तव्यम् कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोप-शमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधी-यसी न स्यात्। किञ्च। काव्यस्योपादेयत्वमाग्नेयपुराणे-ऽप्युक्तम्।
“नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्ल्लभा। कवित्वं दुर्ल्लभं तत्र शक्तिस्तत्र सुदुर्ल्लभेति”
“त्रिवर्गसाधनंनाट्यमिति” च। विष्णुपुराणे
“काव्यालापाश्च येकेचिद्गीतकान्यखिलानि च। शब्दमूर्त्तिधरस्यैतेविष्णोरंशा महात्मनः” इति वृत्तिः। तस्य लक्षणं तत्रैव
“वाक्यं रसात्मकं काव्यं दोषास्तस्यापकर्षकाः। उत्कर्ष-हेतवः प्रोक्ता गुणालङ्कार रीतयः” सू॰। अन्थेतु गुणालङ्काररीतियुक्तं दोषरहितं वाक्यं का-[Page2024-a+ 38] व्यमिति वदन्ति। आनन्दविशेषजनकवाक्यं काव्यमितिरसगङ्गाधरः। तद्भेदाः प्रथमं त्रिविधाः उत्तममध्यमाधमभेदात्। यथाह काव्यप्र॰
“इदमुत्तममतिशयिनि व्यङ्गे वाच्याद्ध्वनिर्बुधैः कथितः। अतादृशि गुणीभूतव्यङ्ग्ये काव्यं तु मध्यमम्। शब्दचित्रं वाच्यचित्रमव्यङ्ग्यन्त्ववरं स्मृतम्”। रसगङ्गाधरे तु अर्थचित्रापेक्षया शब्दचित्रस्याल्पचम-त्कारकारित्वात्तस्याधमाधमत्वोक्त्या काव्यभेदचातुर्बि-ध्यमुक्तम्। मा॰ द॰ मते अव्यङ्ग्यस्य काव्यत्वा-भावात् ध्वनिगुणीभूतव्यङ्ग्यभेदेन द्वैविध्यमिति भेदः। तद्भेदाः सोदाहरणं दर्शिता तत्र यथा।
“काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यञ्चेति द्विधा मतम्”। मू॰तत्र।
“वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम्” मू॰
“वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्नितिव्युत्पत्त्या ध्वतिर्नामोत्तमं काव्यम्” वृत्तिः
“भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ।
“अविवक्षितबाच्योऽन्योविवक्षितान्यपरवाच्यश्च”। मू॰
“तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः। लक्षणा-मूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम्। विवक्षि-तान्यपरवाच्यस्त्वभिधामूलः। अत एवात्र वाच्यं विव-क्षितम् अन्यपरं व्यङ्ग्यनिष्ठम् अत्र हि वाच्योऽर्थःस्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः। यथाप्रदीपो घटस्य। अभिधामूलस्य बहुविषयतया पश्चा-न्निर्द्देशः। अविवक्षितवाच्यस्य भेदावाह” वृत्तिः
“अर्थान्तरं सङ्क्रमिते वाच्येऽत्यन्तं तिरस्कृते। अविवक्षितवाच्योऽपि ध्वनिर्द्वैविध्यमृच्छति” मू॰।
“अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्य-न्ततिरस्कृतवाच्यश्चेति द्विविधः। यत्र स्वयमनुपयुज्यमानोमुख्योऽर्थः स्वविशेषरूपेऽर्थान्तरे परिणमति तत्र मुख्यार्थस्यस्वविशेषरूपार्थान्तरसङ्क्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम्यथा।
“कदली कदली करभः करभः करिराजकरः करि-राजकरः। भुवनत्रितयेऽपि विभर्त्ति तुलामिदमूरुयुगं नचमूरुदृशः”। अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभियासामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टस्वार्थपरा” जाड्याद्यतिशयश्च व्यङ्ग्यः। यत्र पुनः स्वार्थं सर्व्वथा परित्यजन्नर्थान्तरे परिणमतितत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम्। [Page2024-b+ 38] यथा
“निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते”। अत्रान्धशब्दो मुख्यार्थे बाधितोऽप्रकाशरूपमर्थं बोधयतिअप्रकाशातिशयश्च व्यङ्ग्यः। अन्धत्वाप्रकाशत्वयोः सा-मान्यविशेषभावाभावान्नार्थान्तरसङ्क्रमितवाच्यत्वम्। यथा
“भम धम्मिअ! वीसत्थो सो सुणहो अज्जमारिओ देन। गोलाणईकच्छकुडङ्गवासिना दरीअसी-हेन”। अत्र भ्रम धार्म्मिकेत्यतो भ्रमणस्य विधिःप्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्य्यवस्यतीतिविपरीतलक्षणाशङ्का न कार्य्या। यत्र खलु विधिनिषे-धावुत्पद्यमानावेव निषेधबिध्योः पर्य्यवस्यतस्तत्रैव तदव-सरः। यत्र पुनः प्रकरणादिपर्य्यालोचनेन विधिनिषे-धयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव। तदुक्तम्
“क्वचिद्बाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम्। पूर्व्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु”। अत्राद्येमुख्यार्थस्यार्थान्तरे सङ्क्रमणं (प्रवेशः) न तु तिरोभावःअत एवात्राजहत्स्वार्थलक्षणा। द्वितीये तु स्वार्थ-स्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था” वृत्तिः॥
“विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं ततः। असंलक्ष्यक्रमोयत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा” मू॰
“विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः सं-लक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः” वृत्तिः।
“तत्राद्यो रसभावादिरेक एवात्र गण्यते। एकोऽपिभेदोऽनन्तत्वात् सङ्खेयस्तस्य नैव यत्” मू॰
“उक्तस्वरूपो रसभावादिरसंलक्ष्यक्रमव्यङ्ग्यः। अत्र व्य-ङ्ग्यप्रतीतेर्व्विभावादिप्रतीतिकारणकत्वात् क्रमोऽवश्यमस्तिकिन्तु उत्पलपत्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते। एषुरसादिषु च एकस्यापि भेदस्यानन्तत्वात् सङ्ख्यातुम-शक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवो-क्तम्। तथाहि एकस्यैव शृङ्गारस्य एकोऽपि स-म्भोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदा-त् प्रत्येकञ्च विभावादिवैचित्र्यात् सङ्ख्यातुमशक्यःका गणनात्र सर्व्वेषाम्” वृत्तिः॥
“शब्दार्थोभयशक्त्युत्थे व्यङ्ग्येऽनुस्वानसन्निभे। ध्वनिर्ल-क्ष्यक्रमंव्यङ्ग्यस्त्रिविधः कथितो बुधैः” मू॰
“क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दश-क्त्युद्भवत्वेन अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेनच त्रैविध्यात् संलक्ष्यक्रमव्यङ्ग्यनाम्नो ध्वनेः काब्य-स्यापि त्रैविध्यम्” वृत्तिः। तत्र[Page2025-a+ 38](
“वस्त्वलङ्काररूपत्वाच्छब्दशक्त्यद्भवो द्विधा” मू॰।
“अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारो” वस्तुमात्रंगृह्यते। तत्र वस्तुरूपशब्दशक्त्युद्भवो व्यङ्ग्यो यथा।
“पन्थिअ! ण एत्थ सत्तरमत्थिमणं पत्थरत्थले गामे। उण्ण-अपओहरं पेक्खिअ उण जै वससि ता वससु”। अत्र स्रस्तरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेतिवस्तु व्यज्यते। अलङ्काररूपो तथा
“दुर्गालङ्घि-तविग्रहोमनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलोगृहीतगरिमा विष्वग्वृतोभोगिभिः। नक्षत्रेशकृतेक्षणोगिरि गुरौ गाढां रुचिं धारयन् गामाक्रस्य विभूति-भूषिततनू राजत्युमावल्लभः” अत्र प्राकरणिकस्य उमानाममहादीवीवल्लभभानुदेवनृपतेर्वर्ण्णने द्वितीयार्थसूचि-तमप्राकरणिकस्य पार्व्वतीवल्लभस्य वर्ण्णनमसम्बद्धं माप्रसाङ्क्षीदितीश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते। तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः। यथा वा
“अमितः समितः प्राप्तैरुत्कर्षैर्हर्षदः प्रभो!। अहितः सहितः साधुर्यशोभिरसतामसि”। अत्रामितइत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः व्यङ्ग्यस्या-लङ्कार्य्यत्वेऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपच-र्य्यते” वृत्तिः।
“वस्तु वालङ्कृतिर्व्वापि द्विधार्थः सम्भवी स्वतः। कवेःप्रौढोक्तिसिद्धो वा तन्निबद्धस्य चेति षट्॥ षड्भिस्तै-र्व्यज्यमानस्तु वस्त्वलङ्काररूपकः। अर्थशक्त्युद्भवोव्यङ्ग्यो याति द्वादशभेदताम्” मू॰॥
“स्वतः सम्भवी औचित्याद्बहिरपि सम्भाव्यमानः। प्रौढोक्त्या सिद्धो न त्वौचित्येन। तत्र क्रमेण यथा।
“दृष्टिं हे प्रतिवेशिनि! क्षणमिहाप्यस्मद्गृहे दास्यसिप्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति। एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलंनीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः”। अनेनस्वतःसम्भविना वस्तुमात्रेण एतत्प्रतिपादिकायाभाविपरपुरुषोपभोगजनखक्षतादिगोपनरूपं वस्तुमात्रंव्यज्यते।
“दिशि मन्दायते तेजो दक्षिणस्थां रवेरपि। तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे”। अनेनस्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिकइति व्यतिरेकालङ्कारो व्यज्यते।
“आपतन्तममुंदुरादूरीकृतपराक्रमः। बलोऽवलोकयामास मातङ्गमिवकेसरी”। अत्रोपमालङ्काररूपेण स्वतःसम्भविना[Page2025-b+ 38] व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्य-तीति बस्तु व्यज्यते।
“गाढकान्तदशनक्षतव्यथासङ्क-टादरिबधूजनस्य यः,। ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम्”। अत्र स्वतः सम्भविनाविरोधालङ्कारेणाधरो निर्द्दष्टः शत्रवो व्यापादिताश्चेतिसमुच्चयालङ्कारो व्यङ्ग्यः।
“सज्जेइ सुरहिमासो णआपणेइ जुवैजणलक्खसहे। अहिणअसहआरमुहेणअअल्लबपत्तणे अणङ्गस्म सरे”। अत्र वसन्तः शरकारःकामो धन्वी युवतयो लक्ष्यं पुष्पाणि शरा इति कविप्रौ-ढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजृम्भणरूप वस्तुव्यनक्ति।
“रजनीषु विमलभानोः करजालेन प्रकाशितं वीर!। घवलयति भुवनमण्डलमखिलं तव कीर्त्तिसन्ततिः सततम्”। अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीर्त्तिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्ग्यः
“दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः। मणिव्याजेनपर्य्यस्ताः पृथिव्यामश्रुविन्दवः”। अत्र कविप्रौढोक्तिसि-द्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तुव्यज्यते।
“धम्मिल्लेनवमल्लिकासमुदयो, हस्ते सिता-म्भोरुहं, हारः कण्ठतटे, पयोधरयुगे श्रीखण्डलेपो घनः। एकोऽपि त्रिकलिङ्गभूमितिलक! त्वत्कीर्त्तिराशिर्ययौनानामण्डनतां पुरन्दरपुरीवामभ्रुवां विग्रहे”। अत्रकविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्ग-स्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते
“शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः। सुमुखि! येन तवाधरपाटलं दशति विम्बफलंशुकशावकः”। अत्रानेन कविनिबद्धस्य कस्यचित् कामिनःप्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इतिवस्तु प्रतीयते।
“सुभगे कोटिसङ्ख्यत्वमुपेत्य मदनाशुगैः। वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्”। अत्रकविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसङ्ख्य-त्वप्राप्त्या निखिलवियोगिमरणेन वस्तुना शराणांपञ्चता शरान् विमुच्य वियोगिनः श्रितेत्युत्प्रेक्षालङ्कारोव्यज्यते
“मल्लिकामुकुले चण्डि! भाति गुञ्जन्मधुव्रतः। प्रयाणे पञ्चवाणस्य शङ्खमापूरयन्निव”। अत्र कविनि-बद्धवक्तृप्रौढोक्तिसिद्धेन उत्प्रेक्षालङ्कारेण कामस्यायमु-न्मादकः कालः प्राप्तस्त्रत्कथं
“मानिनि! मानं न मुञ्च-सीतिवस्तु व्यज्यते।
“महिलासहस्सभरिए तुह हिअर-[Page2026-a+ 38] सुहअ! सा अमाअन्ती। अणुदिणमणणम्मा अङ्गं तणुअंपि तणु एइ”। (अत्रामायन्तीति) कविनिबद्धवक्तृ पोढो-क्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणेऽपि तवहृदये न वर्त्तत इति विशेषोक्त्यलङ्कारोव्यज्यते। न खलुकतेः कविनिबद्धस्येव रागाद्याविष्टता। अतः कविनिब-द्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयचमत्कारिणी-ति पृथक्प्रतिपादिता। एषु च अलङ्कृतिव्यञ्जनस्थलेषुरूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृद-यसंवेद्यं न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम्”। वृत्तिः
“एकः शब्दार्थशक्त्युत्थे” मू॰ उभयशक्त्युद्भवे व्यङ्ग्ये ए-कोध्वनेर्भेदः। यथा
“हिममुक्तचन्द्ररुचिरः सपद्मकोमदयन् द्विजान् जनितमीनकेतनः”। अभवत् प्रसादित-सुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः”॥ अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारोव्यङ्ग्यः। एवञ्च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानांभेदः”। वृत्तिः
“तदष्टादशधा ध्वनिः” मू॰। अविवक्षितवाच्योऽर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवा-श्चेति त्रि{??}धः। विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्य-ङ्ग्यत्वेनैकः। संलक्ष्यक्रमव्यङ्ग्यवाच्यत्वेन च शब्दार्थाभ-यशक्तिमूलतया पञ्चदशेति अष्टादशभेदो ध्वनिः” वृत्तिःएषु च।
“वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः” मू॰।
“तत्र अर्थान्तरसङ्क्रमितवाच्यो ध्वनिः पदगतो यथा। धन्थः स एव तरुणो नयने तस्यैव नयने च। युवजन-मोहनविद्या भवितेयं यस्य सम्मुखे सुमुखी”। अत्र द्वि-तीयनयनशब्दो भाग्यवत्तादिगुणविशिष्टनयनपरः। वाक्य-गतो यथा।
“त्वामस्मि वच्मि विदुषां समुदायोऽत्रतिष्ठति। आत्मीयां मतिमादाय स्थितिमत्र विधेहि तत्” अत्र प्रतिपाद्यस्य सम्मुखीनत्वादेव लब्धे प्रतिपाद्यत्वे‘ त्वा-मिति’ पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं लक्षयति। एवं वच्मीत्यनेनैव कर्त्तरि लब्धे‘ अस्मीति’ पुनर्व्वचन-मन्यव्यावृत्तिविशिष्टं मदर्थं लक्षयति। तथा‘ विदुषांसमुदाय’ इत्यादिवचनेनैव वक्तुः प्रतिपादने सिद्धे पुनः‘ वच्मीति’ वचनं‘ उपदिशामि’ इति वचनविशेषरू-पमर्थं लक्षयति। एतानि च लक्षितानि स्वातिशयंव्यञ्जयन्ति। एतेन मम वचनं तवात्यन्तं हितं तदवश्यमे-तत् कर्{??}व्यमित्यभिप्रायः। तदेवमयं वाक्यगतोऽर्थान्तरस-इमित{??}च्यो ध्वनिः। अत्यन्ततिरस्कृतवाच्यः पदगतो यथा[Page2026-b+ 38]‘ निश्वासान्ध इवेत्यादि’। वाक्यगतो यथा।
“उपकृतं बहुतत्र’ किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीदृशमेव सदा सखे! सुखितसास्स्व ततः शरदांशतम्” अन्येषां वाक्यगतत्वे उदाहृतम्। पदगतत्वेयथा।
“लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः। तदा सुधास्पदमभूदधुना तु ज्वरो महान्” अत्र लाव-ण्यादीनां तादृगनुभवैकगोचरताव्यञ्जकानां तदादिशब्दा-नामेवप्राधान्यम्। अन्येषान्तु तदुपकारित्वमेवेति तन्मूलएव ध्बनिव्यपदेशः। तदुक्तं ध्वनिकृता
“एकावयवसं-स्थेन भूषणेनेव कामिनी। पदद्योत्येन सुकवेर्ध्वनिनाभाति भारती”। एवं भावादिष्वप्यूह्यम्।
“भुक्तिमुक्तिकृ-देकान्तसमादेशनतत्परः। कस्य नानन्दनिष्यन्दं विदधातिसदागमः”। अत्र सदागमशब्दः सन्निहितमुपनायकं प्रतिसच्छास्त्रार्थमभिधाय‘ सतः पुरुषस्यागमः’ इति वस्तुव्यनक्ति। ननु‘ सदागमः सदागम इवेति’ न कथमुष-माध्वनिः, सदागमशब्दार्थयोरुपमानोपमेयभावाविवक्ष-णाद्रहस्यसंगोपनार्थमेव हि द्व्यर्थपदप्रतिपादनं प्रकरणा-दिपर्य्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात्।
“अनन्यसाधारणधीर्धृतास्विलवसुन्धरः। राजते कोऽपिजगति स राजा पुरुषोत्तमः”। अत्र पुरुषश्रेष्ठः पुरु-षोत्तम इवेत्युपमाध्वनिः। अनयोः शब्दशक्तिमूलौ संल-क्ष्यक्रमभेदौ।
“सायं स्नानमुपासितं मलयजेनाङ्गंसमालेपितं यातोऽस्ताचलमौलिमम्बरमणिर्विश्रब्धमत्रा-गतिः। आश्चर्य्यं तव सौकुमार्य्यमभितः क्लान्ताऽसियेनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति तेनासितुम्”। अत्र स्वतःसम्भविना वस्तुना कृतपरपुरुषपरिचया स्ना-ताऽसीति वस्तु व्यज्यते। तच्चाधुना क्लान्ताऽसि न तुपूर्वं कदाचिदपि तवैवंबिधः क्लमो दृष्ट इति बोधयतोऽ-धुनापदस्यैवेतरपदार्थोत्कर्षादधुनापदस्यैव पदान्तरापे-क्षया वैशिष्ट्यम्।
“तदप्राप्तिमहादुःखविलीनाशेषपा-तका। तच्चिन्ताविपुलाह्णादक्षीणपुण्यचया तथा। चिन्त-यन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम्। निरुच्छारुतयामुक्तिं गताऽन्या गोपकन्यका”। अत्राशेषचयपदप्रभावा-दनेकजन्मसहस्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यव-सिततया भगवद्विरहदुःखचिन्ताह्णादयोः प्रत्यायनमित्य-तिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या। अत्र च व्यञ्ज-कस्य प्रौढौक्तिमन्तरेणापि सम्भवात स्वतःसम्भविता।
“पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम्। देव! त्रि-[Page2027-a+ 38] पथगात्मानं गोपयत्युग्रमूर्द्धनि”। अत्र‘ पश्यन्तीति’ कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्येदातारस्तव सदृशा इति व्यतिरेकालङ्कारोऽसंख्यपदद्योत्यः। एवमन्येष्वत्यर्थशक्तिमूलसंलक्ष्यक्रमभेदेषूदाहार्य्यम्। तदेवंध्वनेः पूर्ब्बोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थोव्यङ्ग्यो वाक्यमात्रे भवन्नेकः। अन्ये पुनः सप्तदश वाक्येपदे चेति चतुस्तिंशदिति पञ्चत्रिंशद्भेदाः” वृत्तिः।
“प्रबन्धेऽपि मतो धीरैरर्थशक्त्युद्भवो ध्वनिः” मू॰।
“प्रबन्धो महावाक्यम्। अनन्तरोक्तद्वादशभेदोऽर्थश-क्त्युत्थः। यथा महाभारते गृध्रगोमायुसंवादे
“अलंस्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसङ्कुले। कङ्कालबहुलेघोरे सर्वप्राणिभयङ्करे। न चेह जीवितः कश्चित्कालधर्म्ममुपागतः। प्रियो या यदि वा द्वेष्यः प्राणिनांगतिरीदृशी”। इति दिवसे शक्तस्य गृध्रस्य श्मशानेमृतं बालमुपादाय तिष्ठतां दिवसे तं परित्यज्य गमन-मिष्टम्।
“आदित्योऽयं स्थितो मूढाः! स्नेहं कुरुतसाम्प्रतम्। बहुविघ्नो मुहूर्त्तोऽयं जीवेदपि कदाचन। अमुं कनकवर्ण्णाभं बालमप्राप्तयौवनम्। गृध्रवाक्यात्कथं बालास्त्यजध्वमविशङ्किताः”। इति निशि समर्थस्यगोमायोर्दिवसे परित्यागोऽनभिलषित इति वाक्यसमूहेनद्योत्यते। अत्र स्वतःसम्भवी व्यञ्जकः। एवमन्येष्वेका-दशभेदेषूदाहार्य्यम्। एवं वाच्यार्थस्य व्यञ्जकत्वे उदाहृतम्। लक्ष्यार्थस्य यथा
“निःशेषच्युतचन्दनं स्तनतटं निर्म्मृष्ट-रागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि! दूति! बान्धवजनस्याज्ञातपीडागमे!वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्”। व्यङ्ग्यार्थस्य यथा
“उअ णिच्चल णिप्पन्दोभिसिणोपत्तम्पिरेऐ बलाआ। णिम्मलमरगअभाअणपरिठ्ठिआ संख-सुत्तिब्ब”। अनयोः स्वतःसम्भविनौ लक्ष्यव्यङ्ग्यार्थौव्यञ्जकौ। एवमन्येष्वेकादशभेदेषूदाहार्य्यम्” वृत्तिः।
“पदांशवर्ण्णरचनाप्रबन्धेष्वस्फुटक्रमः। असंलक्ष्यक्रमव्यङ्ग्योध्वनिस्तत्र पदांशगः” मू॰।
“प्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः। यथा
“चलापाङ्गां वृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्या-ख्यायीव स्वनसि मृदु कर्णान्तिकचरः। करं व्याधु-न्वत्याः पिबसि रतिसर्व्वस्वमधरं वयं तत्त्वान्वेषान्मधु-कर! हतास्त्वं स्वलुकृती”। अत्र‘ हताः’ इतिन पुनर्दुःखं प्राप्तवन्त इति हन्प्रकृतेः।
“मुहुरङ्गु-[Page2027-b+ 38] लिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम्। मुख-मंसविवर्त्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितन्तु”। अत्र‘ तु’ इति निपातस्यानुतापव्यञ्जकत्वम्।
“न्यक्कारोह्ययमेव मे यदरयस्तत्राप्यसौ तापसः, सोऽ{??}त्रैव नि-हन्ति राक्षसकुलं, जीवतत्यहो रावणः। धिग्पि{??}शक्रजितं, प्रबोधितवता किं कुम्मकर्णेन वा?स्वर्गग्रामटिकाविलुण्टनवृथोच्छूनैः किमेभिर्भुजैः”‘ अरयः’ इति बहुवचनस्य,‘ तापसः’ इत्येकवचनस्य,‘ अत्रैवेति’ सर्व्वनाम्नः,‘ निहन्तीति’ ‘ जीवतीति’ चतिङः‘ अहो’ इत्यव्यगस्य,‘ ग्रामटिकेति करूपतद्धितस्य,‘ विलुण्ठनेति’ व्युपसर्गस्य,‘ भुजैरिति’ बहुवचनस्य व्यञ्जक-त्वम्।
“आहारे विरतिः‘ समस्तविषयग्रामे निवृत्तिः परा,नासाग्रे नयनं, तदेतदपरं यच्चैकतानं भनः। मौन-ञ्चेदमिदञ्च शून्यमधुना यद्विश्वमाभाति ते तद्ब्रूयाःसखि! योगिनी किमसि भोः! किं वा वियोगिन्यसि”। अत्र तु‘ आहार इति’ विषयसप्तम्याः,‘ समस्तेति’‘ परेति’ च विशेषणद्वयस्य,‘ मौनं चेदमिति’ प्रत्यक्ष-परामर्शिनः सर्वनाम्नः,‘ आभातीति’ उपसर्गस्य,‘ स-खीति’ प्रणयस्मारणस्य,‘ असि भो’ इति सोपहा-सोत्प्रासस्य,‘ किं वा’ इत्युत्तरपक्षदार्ट्यसूचकस्य वाश-ब्दस्य,‘ असीति’ वर्त्तमानोपदेशस्य, तत्तद्विशेषव्यञ्जकत्वंसहृदयसंवेद्यम्। वर्णरचनयोरुदाहरिष्यते। प्रबन्धेमहाभारते शान्तः। रामायणे करुणः मालतीमाधव-रत्नावल्यादौ शृङ्गारः। एवमन्यत्र”। वृत्तिः।
“तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्म्मताः। सङ्करेण त्रिरूपेणसंसृष्ट्या चैकरूपया। वेदखाग्निशराः

५३

०४ शुद्धैरिषु-वाणाग्निसायकाः”

५३

५५ मू॰
“शुद्धैः शुद्धभेदैरेकपञ्चाशता योजने इत्यर्थः। दिङ्मात्रंतूदाह्रियते।
“अत्युन्नतस्तनयुगा तरलायताक्षी द्वारिस्थिता तदुपयानमहोत्सवाय। सा पूर्णकुम्भनवमीरज-तोरणस्वक्सम्भारमङ्गलमयत्नकृतं विधत्ते”। अत्र‘ स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्रज इति’ रूपकध्वानरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः।
“ध्रिन्व-न्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानिमधोर्दिनानि। निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्य-सौहृदसगर्व्वसमीरणानि”। अत्र निस्तन्द्रेत्यादिलक्ष-णामूलध्वनीनां संसृष्टिः। अथ गुणीभूतव्यङ्ग्यम्”। वृत्तिः
“अपरन्तु गुणीभूतव्यङ्ग्यं वाच्यादनुचमे व्यङ्ग्ये” मू॰। [Page2028-a+ 38]
“अपरं काव्यम्। अनुत्तमत्वं न्यूनतया साम्येन चसम्भवति” वृत्तिः।
“तत्र स्यादितराङ्गं काक्वाक्षिप्तञ्च वाच्यसिद्ध्यङ्गम्। सन्दिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम्। व्यङ्ग्य-मसुन्दरमेवं भेदास्तस्योदिता अष्टौ” मू॰।
“इतरस्य रसादेरङ्गं रसादि व्यङ्ग्यं यथा
“अयं सरसनोत्कर्षी पीनस्तनविमर्द्दनः। नाभ्यूरुजघनस्पर्शीनीवीविस्रंसनः करः”। अत्र शृङ्गारः करुणस्याङ्गम्।
“मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वत्सैन्यसागररवोद्ग-तकर्ण्णतापः। हा! हा! कथं नु भवतो रिपुराज-धानी--प्रासादसन्ततिषु तिष्ठति कामिलोकः”। अत्रौत्-सुक्यत्राससन्धिसंसृष्टस्य करुणस्य राजविषयरतावङ्ग-भावः।
“जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधियावचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्। कृता लङ्काभर्त्तु-र्व्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता नत्वधिगता”। अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दश-क्तेरेव रामत्वमवगम्यते। वचनेन तु सादृश्यहेतुकतादा-तुम्यारोपणमाविष्कुर्व्वता तद्गोपनमपाकृतम् तेन वाच्यंसादृश्यं वाक्यार्थान्वयोपपादकतयाऽङ्गतां नीतम्। काक्वाक्षिप्तं यथा
“मथ्नासि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युरस्तः। संचूर्ण्णयामिगदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन”। अत्र‘ मथ्नाम्येवेत्यादि’ व्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम्।
“दीपयन् रोदसीरन्ध्रमेष ज्वलतिसर्व्वतः। प्रतापस्तव राजेन्द्र। वैरिवंशदवानलः”। अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्गः प्रतापस्यदवानलत्वारोपसिद्ध्यङ्गम्।
“हरस्तु किञ्चित् परिवृत्त-धैर्य्यश्चन्द्रोदयारम्भैवाम्बुराशिः। उमामुखे विम्बफलाधरौष्ठेष्यापारयामास विलोचनानि”। अत्र विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्येसन्देहः।
“ब्राह्मणातिक्रमत्यागो भवतामेव भूतये। जामदग्न्यश्च वो मित्रमन्यथा दुर्म्मनायते”। अत्र परशु-रामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्यच समं प्राधान्यम्।
“सन्धौ सर्ब्बस्वहरणं विग्रहेप्राणनिग्रहः। अन्वापदीननृपतौ न सन्धिर्न च वि-ग्रहः”। अत्र अन्वापदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपायः व्यङ्ग्यं व्युत्पन्नानामपिझटित्यस्फुटम्।
“अनेन लोकगुरुणा सतां धर्म्मोपद-[Page2028-b+ 38] र्शिना। अहं ब्रतवती स्वैरमुक्तेन किमतः परम्अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्य्यक्योषिति बला-त्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम्।
“बाणीरकुडुङ्गुड्डीणसौणिकोलाहलं सुणन्तीए। घरकम्मबावडाए बहूए सीअन्ति अङ्गाइम्”। अत्रदत्तसङ्केतः कश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात्
“सी-दन्त्यङ्गानि” इति वाच्यस्य चमत्कारः सहृदयसंवेद्यइत्यसुन्दरम्। किञ्च यो दीपकतुल्ययोगितादिषु उपमाद्य-लङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव काव्यस्यदीपकादिमुखेनैव चमत्कारविधायित्वात् तदुक्तं ध्वनि-कृता
“अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते। तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः”। यत्रच शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्य्यासः यथा
“दृष्ट्या केशव! गोपरागहृतया किञ्चिन्न दृष्टं मया तेनात्रस्खलितास्मि नाथ! पतितां किं नाम नालम्बसे। एकस्त्वंविषमेषु खिन्नमनसां सर्वाबलानां गतिर्गोप्यैवंगदितःसलेशमवताद्गोष्ठे हरिर्वश्चिरम्”। अत्र गोपरागादिश-ब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां‘ सलेशमिति’ पदेन स्फुटतयाबभासः। सलेशमितिपदस्य परित्यागे ध्व-निरेव। किञ्च यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानांरसाभ्यन्तरे गुणीभावः तत्र प्रधानकृत एव काव्यव्य-हारः तदुक्तं तेनैव
“प्रकारोऽयं गुणीभूतव्यङ्ग्यो-ऽपि ध्वनिरूपताम्। धत्ते रसादितात्पर्य्यपर्य्यालोचनयापुनरिति”। यत्र च
“यत्रोन्मदानां प्रमदाजनाना-मब्भ्रंलिहः शोणमणीमयूखः। सन्ध्याभ्रमं प्राप्नुवता-मकाण्डेऽप्यनङ्गनेपथ्यबिधिं व्यधत्त” इत्यादौ रसा-दीनां नगरीवृत्तादिवस्तुमात्रेऽङ्गत्वं तत्र तेषामतात्पर्य्य-विषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः। तदु-क्तमस्मत्सगोत्रकविपण्डितमुख्यश्रीचण्डिदासपादैः
“का-व्यार्थस्याखण्डबुद्धिवेद्यस्य तन्मयीभावेनास्वाददशायांगुणप्रधानभावावभासस्तावन्नानुभूयते कालान्तरे तु प्रकर-णादिपर्य्यालोचनया भवन्नप्यसौ न काव्यव्यपदेशं व्या-हन्तुमीशस्तस्यास्वादमात्रायत्तत्वादिति”। केचित् चि-त्राख्यं तृतीयं काव्यभेदमिच्छन्ति तदाहुः
“शब्दचित्रंवाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” इति तन्नयदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्व-मपि नास्तीति प्रागेवोक्तम्। ईषद्व्यङ्ग्यत्वमिति चेत्किं नाम ईषद्व्यङ्ग्यत्वम् आस्वाद्यव्यङ्ग्यत्वम् अना-[Page2029-a+ 38] स्वाद्यव्यङ्ग्यत्वं वा। आद्ये प्राचीनभेदयोरन्तःपातः। द्वितीये त्वकाव्यत्वम्। यदि चानास्वाद्यत्वं तदा क्षुद्रत्वमेव। क्षुद्रतायामनास्वाद्यत्वात्। तदुक्तं ध्वनिकृता
“प्रधा-नगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितेः। उभे काव्येततोऽन्यद्यत्तच्चित्रमभिधीयते इति” वृत्तिः। तच्च काव्यं प्रकारान्तरेण द्विविधं महाकाव्यखण्डकाव्यभेदात्। तल्लक्षणादिकं सा॰ द॰

६ परि॰ उक्तं यथा
“सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः। सद्वंशःक्षत्त्रियो वापि धीरोदात्तगुणान्वितः। एकवंशभवाभूपाः कुलजा बहवोऽपि वा। शृङ्गारवीरशान्तानामे-कोऽङ्गी रस इष्यते। अङ्गानि सर्वेऽपि रसाः सर्वे ना-टकसन्धयः। इति हासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम्। चत्वारस्तस्य वर्गाः स्युस्तेष्वेकञ्च फलं भवेत्। आदौनमस्क्रियाशीर्व्वा वस्तुनिर्देश एव वा। क्वचिन्निन्दाखलादीनां सताञ्च गुणकीर्त्तनम्। एकवृत्तमयैः पद्यैर-वसानेऽन्यवृत्तकैः। नातिस्वल्पा नातिदीर्घाः सर्गा अष्टा-धिका इह। नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते। सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत्। सन्ध्या-सूर्य्येन्दुरजनीप्रदोषध्वान्तवासराः। प्रातर्म्मध्याह्नमृग-याशैलर्त्तुवनसागराः। सम्भोगविप्रलम्भौ च मुनिस्वर्ग-पुराध्वराः। रणप्रयाणोपयममन्त्रपुत्रोदयादयः। वर्ण्ण-नीया यथायोगं साङ्गोपाङ्गा अमी इह। कवेर्वृत्तस्य वानाम्ना नायकस्येतरस्य वा। नामास्य सर्गोपादेयकथयासर्गनाम तु। अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यान-सञ्ज्ञकाः। प्राकृतैर्निर्म्मिते तस्मिन् सर्गा आश्वासस-ञ्ज्ञकाः। छन्दसा स्कन्दकेनैतत् क्वचिद्गलितकैरपि। अपभ्रंशनिबन्धेऽस्मिन् सर्गाः कडवकाभिधाः। तथाप-भ्रंशयोग्यानि छन्दांसि विबिधान्यपि। भाषाविभाषानियमात् काव्यं सर्गसमुज्झितम्। एकार्थ-प्रवणैः पद्यैः सन्धिसामग्र्यवर्ज्जितम्। स्वण्डकाव्यंभवेत् काव्यस्यैकदेशानुसारि च”। तच्च काव्यं प्रकारान्तरेण द्विविधं
“दृश्यश्रव्यत्वभेदेन पुनःकाव्यं द्विधा मतम्। दृश्यं तत्राभिनेयं तत् रूपारोपात्तु-रूपकम्” इति सा॰ द॰ उक्तेः

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काव्य¦ m. (-व्यः) A name of SUKRACHARYA, the preceptor of the demons. f. (-व्या)
1. Understanding, intelligence.
2. A female fiend: see पूतना।
3. A Pitri of a particular order, the son of KAVI or SUKRA. n. (-व्यं) A poem, poetical composition. E. कवि a poet, &c. ञ्यत् derivative or pleonastic aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काव्य [kāvya], a. [कवि-यण्]

Possessed of the qualities of a sage or a poet.

Praiseworthy, fit to be described

Prophetic, inspired, poetical; अशंसीत् काव्यः कविः Rv.8.8.11. -व्यः N. of Śukra, preceptor of the Asuras; Mb.1.76.6; दानवेन्द्रैर्हतं दूरात् काव्यः कचमजीवयत् Bm.1.289.

व्या Intelligence.

A female fiend;-व्याः m. (pl.) A class of manes; Ms.3.199.

व्यम् A poem; महाकाव्यम्; मेघदूतं नाम काव्यम् &c.

Poetics, poetry, a poetical composition. (काव्य is defined by writers on Poetics in different ways; तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि K. P.1; वाक्यं रसात्मकं काव्यम् S. D.1; रमणीयार्थप्रतिपादकः शब्दः काव्यम् R. G.; शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली Kāv.1.1; निर्दोषा लक्षणवती सरीतिर्गुणभूषिता । सालङ्काररसा$नेकवृत्तिर्वाक् काव्यनामभाक् ॥ Chandr.1.7.)

Happiness, welfare.

Wisdom; काव्यानि वदतां तेषां संयच्छामि वहामि च Mb.12.124.34.

Inspiration. (The purposes of a Kāvya as mentioned by Mammaṭa are: काव्यं यशसे$र्थकृते व्यवहारविदे शिवेतरक्ष- तये । सद्यःपरनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ K. P.1.) -Comp. -अर्थः a poetical thought or idea. ˚आपत्तिः Necessary conclusion; a figure of speech; Kuval.59. ˚चौरः a robber of the ideas of another poet, a plagiarist; यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति Vikr.1.11.-अलङ्कारः N. of a work on poetics by Vāmana.-आदर्शः N. of a work on poetics by Daṇḍin. -चौरः a stealer of other men's poems. -प्रकाशः N. of a work on Rhetorics by Mammaṭa. -मीमांसकः a rhetorician, critic. -मीमांसा N. of a work on Rhetorics by Rāja- śekhara. -रसिक a. one who has a taste for and can appreciate the beauties of poetry. -लिङ्गम् Poetic Reason, a figure of speech; thus defined: काव्यलिङ्गं हेतो- र्वाक्यपदार्थता K. P.1; e. g. जितो$सि मन्द कन्दर्प मच्चित्ते$स्ति त्रिलोचनः Chandr.5.119. -हास्यम् a farce.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काव्य mfn. (fr. कवि) , endowed with the qualities of a sage or poet , descended or coming from a sage , prophetic , inspired , poetical RV. i , 117 , 12 ; viii , 8 , 11 VS. AV.

काव्य mfn. id. RV. v , 39 , 5 ; x , 144 , 2 VS.

काव्य mf( आ)n. coming from or uttered by the sage उशनस्Para1s3. MBh. ii , 2097

काव्य m. ( गणकुर्व्-आदि)a patr. of उशनस्RV. TS. etc.

काव्य mf( आ)n. of the planet शुक्रVarBr2S. Sarvad.

काव्य m. pl. poems MBh. ii , 453

काव्य m. a class of Manes S3a1n3khS3r. La1t2y. Mn. iii , 199

काव्य m. the descendants of कविVP.

काव्य m. N. of a female fiend(= पूतना) L.

काव्य n. wisdom , intelligence , prophetic inspiration , high power and art (often in pl. ) RV. AV. S3Br. xi

काव्य m. a poem , poetical composition with a coherent plot by a single author (opposed to an इतिहास) R. Sa1h. etc.

काव्य m. term for the first tetrastich in the metre षट्-पद

काव्य m. a kind of drama of one act Sa1h. 546

काव्य m. a kind of poem (composed in Sanskrit interspersed with Prakrit) Sa1h. 563

काव्य m. happiness , welfare L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भृगु and दिव्या; also शुक्र, उशन, the आचार्य for devas and asuras; Kavisuta and the name of a planet; wife गोनाम, had four sons, त्वष्ट, वरूत्री, शण्ड, and Marka; फलकम्:F1:  Br. III. 1. ७६; ६८. ८६; ७२. ९५; ७३. 1, ३७. वा. ५९. ९०; ६२. ४१; ६५. ७४-7.फलकम्:/F the lord of भृगुस्; फलकम्:F2:  Vi. ७०. 4.फलकम्:/F cursed ययाति. फलकम्:F3:  Vi. IV. १०. 7.फलकम्:/F Asuras defeated by Indra appealed to काव्य and resolved to go to रसातल; काव्य encouraged them and said that rains, vegetation, etc., would stand completely with them and only (1/4) with the devas; at that time the devas appealed to him for help; but काव्य went to महादेव and learnt the मन्त्र for their success; in the meantime he asked them to keep quiet and perform austerities after lay- ing their weapons down. महादेव insisted on कुण्ड- धूम observance for a thousand years with their heads down; while so engaged the asuras got afraid of the devas and appealed to his mother and the wife of भृगु; she offered them shelter but finding them being killed by the devas she resolved to deprive Indra of his place; then Indra appealed to विष्णु whose body he entered; but she set on [page१-371+ ३६] fire the whole world of devas, when out of rage विष्णु killed her; भृगु cursed him to be born seven times among men; then by power of तपस् he restored his wife to life; शुक्र's religious observance so as to please him; penance over, महेश्वर granted him three things: non-defeat by others, lordship over wealth, and eternal life; on this he praised नीललोहित by many names; pleased, शिव disappeared; then शुक्र was attracted towards जयन्ती the daughter of Indra and promised to be with her for ten years unknown to the asuras by means of माया; when काव्य returned the asuras were pleased; but during the ten years बृहस्पति appeared before the asuras in the guise of काव्य and pretended to speak to them the मन्त्र he had heard; the asuras accepted him; ten years were over and a daughter देवयानि was born to शुक्र who appeared before the asuras; finding two काव्यस् the asuras became mystified and काव्य said that he was बृहस्पति in disguise; the asuras did not believe in the real शुक्र who left them in anger; soon they found out the mistake and approached शुक्र through प्रह्लाद and he became pleased; then he approached ब्रह्मा who said that after ten युगस् and in the स्वारोचिष Yuga the asuras would get back their kingdom; saying this he pointed out to two disciples सण्ड and Marka equal to बृहस्पति, and at last the devas were defeated. Seeing the success of the asuras विष्नु took different avatars to put them down. फलकम्:F4:  वा. ९७. ९४ to end and ch. ९८; Br. III, ७२. ९६ to the end; ७३. 1-६४.फलकम्:/F
(II)--an अङ्गिरस, and one of the seven sages of तामस Manu; फलकम्:F1:  Br. II. ३२. ९८ and १०४; ३३. 7; ३६. ४७.फलकम्:/F a मन्त्रकृत्। फलकम्:F2:  वा. ५९. ९६.फलकम्:/F
(III)--a son of सेनाजित्. M. ४९. ५०; वा. ९९. १७३.
(IV)--a son of भरताग्नि. वा. २९. 8. [page१-372+ ३२]

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀVYA : Son of Kavi, one of the Prajāpatis. (Anuśā- sana Parva, Chapter 85). Also, a synonym of Śukra.


_______________________________
*4th word in right half of page 402 (+offset) in original book.

KĀVYA (M) : Agni Purāṇa, Chapters 390 to 400 contain a discussion on poetry, which is the basis for literary criticism in India. The above discussion in Agni Purāṇa, comprehends the forms and features of poetry, rasa (sentiment), style, the art of acting and the drama, and other matters related to poetry and art.


_______________________________
*5th word in right half of page 402 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāvya (‘descendant of Kavi’) is the constant[१] patronymic of Uśanas. In the Pañcaviṃśa Brāhmaṇa it is also applied to Iḍhat[२] and Ukṣṇorandhra.[३]

  1. Rv. i. 51, 11;
    83, 5;
    121, 12;
    vi. 20. 11;
    viii. 23, 17;
    Av. iv. 29, 6;
    Taittirīya Saṃhitā, ii. 5, 8, 5, etc.
  2. xiv. 9, 16.
  3. xiii. 9, 19.

    Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 48, 49.
"https://sa.wiktionary.org/w/index.php?title=काव्य&oldid=496129" इत्यस्माद् प्रतिप्राप्तम्