काश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश ऋ ङ द्युतौ । कविकल्पद्रुमः ॥ (भ्वां--आत्मं-- अकं--सेट् ।) ऋ अचकाशत् । ङ काशते चन्द्रः । दन्त्यान्त इति केचित् । इति दुर्गादासः ॥
काश य उ ऋ ङ द्युतौ । इति कविकल्पद्रुमः ॥ (दिवां-- आत्मं-अकं-सेट् ।) य ङ काश्यते । उ काशित्वा काष्ट्वा । ऋ अचकाशत् । इति दुर्गादासः ॥
काशः, पुं क्ली, (काशते दीप्यते शोभते इति यावत् । काशृ ङ दीप्तौ + पचाद्यच् ।) तृणभेदः । केश्या इति भाषा । इति मेदिनी ॥ (यथा रघुः ४ । १७ । “पुण्डरीकातपत्रस्तं विकसत् काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम्” ॥) तत्पर्य्यायः ॥ इक्षुगन्धा २ पोटगलः ३ । इत्यमरः । २ । ४ । १६२ ॥ कासः ४ । इति भरतः ॥ काशी । ५ । इति मुकुटादयः ॥ काशा ६ । इति नयना- नन्दः ॥ वायसेक्षुः ७ काण्डेक्षुः ८ अमरपुष्पकः ९ । इति रत्नमाला ॥ काशकः १० वनहासकः ११ । इति शब्दरत्नावली ॥ इक्ष्वारिः १२ काकेक्षुः १३ इक्षुरः १४ इक्षुकाण्डः १५ शारदः १६ सित- पुष्पकः १७ नादेयः १८ दर्भपत्रः १९ लेखनः २० काण्डकाण्डकः २१ कच्छलकारकः २२ । अस्य गुणाः । शिशिरत्वम् । गौल्यत्वम् । रुचिकारित्वम् । पित्तदाहनाशित्वम् । तृप्तिबलशुक्रकारित्वम् । श्रम- शोषकफापहत्वञ्च । इति राजनिर्घण्टः ॥ कण्ठक- ण्डूयनम् । इति शब्दरत्नावली ॥ तत्पर्य्यायगुणाः । “काशः काकेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा । इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः ॥ काशः म्यान्मधुरस्तिक्तः स्वादुपाके हिमः सरः । मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित्” ॥ इति भावप्रकाशः ॥
काशः, पुं, (केन जलेन कफात्मकेन अश्यते व्याप्यते- ऽत्र । क + अश + अधिकरणे घञ् ।) क्षतम् । “कण्टकारीतुलां नीरद्रीणे पक्त्वा कषायकम् । पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ॥ पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः । मुस्तं कर्कटशृङ्गी च त्र्युषणं धन्वयासकः ॥ भार्गी रास्ना सटी चैव शर्करा पलविंशतिः । प्रत्येकञ्च पलान्यष्टौ प्रदद्यात् घृततैलयोः ॥ पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम् । चतुष्पलं तुगाक्षीर्य्याः पिप्पलीञ्च चतुष्पलाम् ॥ क्षिप्त्वा निदध्यात् सुदृढे मृण्मये भाजने शुभे । लेहोऽयं हन्ति हिक्कार्त्तिकासश्वासानशेषतः” ॥ कण्टकार्य्यावलेहः । इति कासाधिकारः । इति भावप्रकाशः ॥ * ॥ अपि च । “हरीतकीकणा शुण्ठी मरिचं गुडसंयुतम् । काशघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे । प्रस्थसिद्धो घृताद्वातकाशनुद्दह्निदीपनः” ॥ इति गारुडे १७४ अध्यायः ॥ “मनःशिला बलापूलं काकपर्णञ्च गुग्गुलुम् । जातिपत्रं कोलिपत्रं तथा चैव मनःशिला ॥ एभिश्चैव कृता वर्त्तिर्बदराग्नौ महेश्वर ! । धूमपानं काशहरं नात्र कार्य्या विचारणा” ॥ इति च गारुडे १९४ अध्यायः ॥ “कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा । फेनोरसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला । एषां वर्त्तिर्हन्ति काशं तिमिरं पटलं यथा” ॥ इति तत्रैव १९८ अध्यायः ॥ “अभयामलकं द्राक्षा पिप्पली कण्टकारिका । शृङ्गं पुनर्नवा शुण्ठी जग्धा काशं निहन्ति वै” ॥ इति च तत्रैव १९९ अध्यायः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश पुं-नपुं।
काशम्
समानार्थक:काश,इक्षुगन्धा,पोटगल
2।4।162।2।4
ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश¦ दीप्तौ भ्वा॰ आत्म॰ अक॰ सेट्। काशते अकाशिष्ट, काशाम्बभूवकाशामास काशाञ्चक्रे चकाशे। णिच् अचकाशत्--त। ऋदित्त्वात् चङि नोपधाह्रस्यः।
“काली कपालाभरणाचकाशे”
“तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभा-मण्डलया चकाशे” कुमा॰
“नंनम्यमानाः फलदित्सयेवचकाशिरे तत्र लता विलोलाः” भट्टिः। काशी काशकःकाशितः काशमानः काशः काशनं काशितुम् काशित्वाप्रकाश्य। यङ् लुक् चाकाशीति। वेदे ह्रस्वः चाकशीतिअनु + अनुरूपदीप्तौ अनुकाशतेअभि + सर्व्वतः प्रकाशे अभिकाशते
“अन्योअनश्नन्नभिचाक-शीति” शत॰ व्रा॰
१४ ,
७ ,
१ ,
१२ , आभिमुख्येन दर्शनेसक॰।
“घृतस्य धारा अभिचाकशीमि” ऋ॰
४ ,
५८ ,
५ ,
९ ,
“व्यञ्ज्यमानाभिचाकशीमि”
९ ,
“आभिचाकशीमि अभिपश्यामि” भा॰अव + अवकाशे स्ववासयोग्यताप्राप्तौ
“उभयतो मांसैः संछन्नंनावकाशते” शत॰
८ ,
७ ,
४ ,
२० , यदमुत्राग्रेऽधिश्रयति पत्नींह्यवकाशयिष्यन् भवति”
“अथ यत्पुत्नीं नावकाशयेत्” शत॰
१ ,
३ ,
१ ,
२० , अवकाशः
“कृत्वावकाशे रुचिसंप्रकॢप्तम्” भट्टिः अवेक्षणे सक॰।
“ज्ञातप्रियानूचानानवकाशयेत्” का॰ श्रौ॰
९ ,
७ ,
१६ ,
“अवकाशयेत् अवेक्षयेत्” कर्कः। आ + समन्तात्स्थितौ आकाशः। अभिज्ञापने सक॰।
“संप्र-त्युरः पुरुषमाकाश्य” शत॰ ब्रा॰
७ ,
४ ,
१ ,
४३ ,
“आकाश्यअभिज्ञाप्य” भा॰। [Page2030-a+ 38] उद् + ऊर्द्ध्वगतौ ऊर्द्ध्वप्रकाशे च। उत्काशते उत्काशः। नि + तुल्यत्वे नीकाशः घञि पूर्वस्वरदीर्वः। सम् + नि + निष्काशने।
“न सन्निकाशयेद्धर्म्मम्” भा॰ आश्व॰
४६ अ॰। निर् + निःसारणे।
“मात्रा निष्काशयेदेषा पुनः सन्धान-काङ्क्षया” सा॰ द॰। अत्र निःकसोरूपत्वेन निष्कासयेदि-त्येव पाठोयुक्तःप्र॰ + प्रकृष्टदीप्वौ
“एषु सर्व्वेषु भूतेषु गूढोत्मा न प्रका-शते” कठो॰।
“उभावपि प्रकाशेते प्रवृद्धौ वषमाविव” भा॰ वि॰
७५
५ श्ली॰। प्रति + प्रतिरूपप्रकाशे सारूप्ये च प्रतीकाशः।
“यमस्य त्वागृहेऽरसं प्रतिचाकशान” अथ॰
६ ,
२९ ,
३ ,वि + मुकुलीभावापनोदनेन प्रकाशे। पुष्पं विकाशते। प्रकाशेच।
“आदित्य इव तं देशं कृत्स्नं सर्व्वं व्यकाशयत्” भा॰ आ॰
७४
५६ श्लो॰ वीकाशः। सम् + सम्यक्प्रकाशे सादृश्येन प्रकाशे च सङ्काशः
“प्रतिस्रोत-स्तृणाग्राणां सहस्रं सञ्चकाशिरे” रामा॰
काश¦ --दीप्तौ दिवा॰ आ॰ अक॰ सेट्। काश्यते अकाशिष्ट काशाम्-बभूव आस चक्रे चकाशे ऋदित् णिच् अचकाशत् त
काश¦ पु॰ केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र अश--व्याप्तौआधारे घञ्।
१ काशरोगे, भरतः। कासशब्दे विवृतिः
“काशाश्रुलालाविलः” शान्तिश॰
२ क्षुते (हां चि) शब्दर॰। तयोः जलेनाकीर्ण्णत्वात्तथात्वम्। काश दीप्तौ अच्। (केशिया)
३ वृणभेदे
“केशः काशस्तवकविकाशः” सा॰ द॰
“आकर्ण्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतांसितचामरस्य” मावः
“कैलासकाशनीकाशमूर्त्त्या” दशकु॰
“काशः स्यान्मधुरस्तिक्तः स्वादुपाकोहिमः सरः। मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगहृत्” भावप्र॰ तद्-गुणाद्युक्तम् तत्पुष्पे न॰। ईषदश्नाति अश--अच् कोःका।
४ मूषिकभेदे पुंस्त्री स्त्रियां ङीष्।
“भूम्या आखू-नालभेत” इत्युपक्रमे
“काशान् दिग्भ्यः” यजु॰
२४ ,
२५ ,
“काशान् मूषिकभेदान्” वेददी॰।
५ ऋषिभेदे पु॰ काशस्यगोत्रापत्यम् अश्या॰ फञ्। काशायन तद्गोत्रापत्ये पुंस्त्री
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश(ऋ)काशृ¦ r. 1st cl. (काशते) also (उ ऋ) (उकाशृ) r. 4th cl. (काश्यते)
1. To shine. With निर् prefixed. To expel.
2. To hide or obscure; with प्र, To make or become manifest.
काश¦ m. (-शः)
1. Cough, catarrah: see कास।
2. Sneezing. n. (-शं)
1. A species of grass, (Saccharum spontaneum.)
2. Irritation in the throat. f. (-शी) Kasi or Benares, the holy city so called. (-शी or -शा) Saccharum spontaneum, as above. E. कश् to sound, in the causal form, अच् affix; or काश् to shine, अच् and ङीष् fem. aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काशः [kāśḥ] शकः [śakḥ] शम् [śam], शकः शम् [काश्-अच्] A kind of grass used for mats, roofs, &c. -शम् A flower of that grass; Ku. 7.11; R.4.17; Ṛs.3.1,2,28. चरति पुलिनेषु हंसी काशां- शुकवासिनी सुसंहृष्टा Pratimā.1.2.
शः = कास q. v.
Appearance.
Splendour. यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया Bhāg.12.1.2. -Comp. -कृत्स्नः N. of a Grammarian.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश m. " the becoming visible , appearance " , only in स-क्See.
काश m. N. of a man g. अश्वा-दि
काश m. of a prince (the son of सुहोत्रand father of काशि-राज) Hariv. VP.
काश m. a species of grass (Saccharum spontaneum , used for mats , roofs , etc. ; also personified , together with the कुशgrass , as one of यम's attendants) Kaus3. R. Kum. etc.
काश f( आ, ई). id. L.
काश n. id. L.
काश wrongly spelt for कासSee.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a son of शुनहोत्र (Sutahotra-वा। प्।) (Suho- tra-वि। प्।). Br. III. ६७. 4; वा. ९२. 3; Vi. IV. 8. 5.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kāśa : m. (pl.): Name of a people.
People in the kingdoms of different Kṣatriyas became Vṛṣalas due to nonregard for Brāhmaṇas and due to their not following the Kṣatriya dharma; these were Dramiḍas, Kāśas etc (prajā vṛṣalatāṁ prāptā brāhmaṇānām adarśanāt//ta ete dramiḍāḥ kāśāḥ…/vṛṣalatvaṁ parigatā vyutthānāt kṣatradharmataḥ) 14. 29. 15-16; (dramiḍā kāśā…/…tās tāḥ kṣatriyajātayaḥ/vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt) 13. 35. 17-18.
_______________________________
*2nd word in left half of page p657_mci (+offset) in original book.
Mahabharata Cultural Index

Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kāśa.--Roth[१] finds this word, which denotes a species of grass (Saccharum spontaneum) used for mats, etc., in one passage of the Rigveda,[२] but the reading is uncertain. The word has this sense in the Taittirīya Āraṇyaka.[३]
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index
- यन्त्रोपारोपितकोशांशः-Vedic Index of Names and Subjects