काशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशी, स्त्री, (काशते शिवत्रिशूलोपरि । काशृङ् दीप्तौ + अच् गौरादित्वात् ङीष् । काश + इन् ङीप् वा । अथवा काशयति प्रकाशयतीदं सर्व्वं या । काश् + णिच् अच् गौरादित्वात् ङीष् ।) स्वनामख्याततीर्थम् । शिवपुरी । तत्प- र्य्यायः । वाराणसी २ तीर्थराजी ३ तपःस्थली ४ । इति जटाधरः ॥ काशिका ५ । इति शब्दरत्ना- वली ॥ काशिः ६ । इत्युणादिकोषः ॥ अविमुक्तम् ७ आनन्दवनम् ८ आनन्दकाननम् ९ अपुनर्भवभूमिः १० रुद्रावासः ११ महाश्मशानम् १२ । तस्या उत्पत्तिर्यथा, -- “ततस्तदैकलेनापि स्वैरं विहरता मया । स्वविग्रहात् स्वयं सृष्टा स्वशरीरानपायिनी ॥ प्रधानं प्रकृतिं त्वां तु मायां गुणवतीं पराम् । बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा । मयाद्य पुरुषेणैतत् क्षेत्रञ्चापि विनिर्म्मितम्” ॥ स्कन्द उवाच । सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः । ताभ्याञ्च रममाणाभ्यां तस्मिन् क्षेत्रे घटोद्भव ! ॥ परमानन्दरूपाभ्यां परमानन्दरूपिणि ! । पञ्चक्रोशपरीमाणे स्वपादतलनिर्म्मिते ॥ मुने प्रलयकालेऽपि न तत् क्षेत्रं कदाचन । विमुक्तं न शिवाभ्यां यदविमुक्तं ततो विदुः ॥ न यदा भूमिवलयं न यदापां समुद्भवः । वशिष्ठवामदेवौ च मूर्त्तिरूपधरावुभौ ॥ द्रष्ठव्यौ यत्नतः काश्यां महाविघ्नविनाशनौ । सीमाविनायकं नाथं करुणेशं ततो व्रजेत् ॥ त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका । आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः ॥ चतुर्व्वक्त्रेश्वरं लिङ्गं ब्रह्मेशस्तु ततः परम् । ततो भनःप्रकामेश ईशानेशस्ततः परम् ॥ चण्डीचण्डेश्वरौ दृश्यौ भवानीशङ्करौ ततः । ढुण्ढिं प्रणम्य च ततो राजराजेशमर्च्चयेत् ॥ लाङ्गलीशन्ततोऽभ्यर्च्च्य ततस्तु नकुलीश्वरम् । परान्नेशमथो नत्वा परद्रव्येश्वरं ततः ॥ प्रतिग्रहेश्वरञ्चापि निष्कलङ्केशमेव च । मार्कण्डेयेशमभ्यर्च्च्य ततश्चाप्सरसेश्वरम् ॥ गङ्गेशोऽर्च्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् नन्दिकेशं तारकेशं महाकालेश्वरं ततः ॥ दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्ततः । वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः ॥ विनायकांस्ततः पञ्च विश्वनाथं ततो व्रजेत् । ततो मौनं विसृज्याथ मन्त्रमेनमुदीरयेत् ॥ अन्तर्गृहस्य यात्रेयं यथावत् या मया कृता । न्यूनातिरिक्तया शम्भुः प्रीयतामनया विभुः ॥ इति मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिमण्डपे । विश्राम्य यायात् भवनं निष्पापः पुण्यवान्नरः” ॥ * “संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः । कार्य्या यात्रा प्रयत्नेन महापुण्यसमृद्धये ॥ नमस्यपञ्चदश्याञ्च कुलस्तम्भं समर्च्चयेत् । दुःखं रुद्रपिशाचत्वं न भवेद्यस्य पूजनात् ॥ श्रद्धापूर्ब्बमिमा यात्राः कर्त्तव्याः क्षेत्रवासिभिः । पर्व्वखपि विशेषेण कार्य्या यात्राश्च सर्व्वतः ॥ न वन्ध्यं दिवसं कुर्य्याद्विना यात्रां क्वचित् कृती । यात्राद्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम् ॥ आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुर्ध्रुवम् । यस्य वन्ध्यं दिनं यातं काश्यां निवसतः सतः ॥ निराशाः पितरस्तस्य तस्मिन्नेव दिने भवेत् । स दष्टः कालसर्पेण स दष्टो मृत्युना स्फुटम् ॥ स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः । सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रा व्यधात् स च ॥ मणिकर्ण्यान्तु यः स्नातो यो विश्वेशं निरैक्षत । सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ॥ दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका” ॥ इति श्रीस्कन्दपुराणे काशीखण्डे १०० अध्यायः ॥

काशी, [न्] त्रि, (काशोऽस्यास्ति इति । इनिः । काशरोगयुक्तः । इति राजवल्लभः ॥ (काशते इति काश णिनिः । प्रकाशशीलः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशी¦ स्त्री काशते काश--इन् स्त्रियां ङीप्। काश-णिच्--अच् गौरा॰ ङीष्। असिवरुणयोर्मध्यवर्त्तिन्यांस्वनामख्यातायां शिवपुर्य्याम्। तन्निरुक्त्यादि काशीख॰।
“निर्व्वाणकाशनाद्यत्र काशीति प्रथिता पुरी। अविमुक्तेमहाक्षेत्रे न मुक्ते शम्भुना क्वचित्। प्रागेव हिमुनेऽनर्घ्यं जातं जाम्बुनदं स्वयम्। पुनः स्वर्धुनि-तोयेन हीरेण यदि सङ्गतम्। चक्रपुष्करिणीतीर्थंप्रागेव श्रेयसांपदम्। ततः श्रेष्ठतरं शम्भोर्मणिश्र-वणभूषणात्। आनन्दकानने तस्मिन्नविमुक्ते शिवा-[Page2032-a+ 38] लवे। प्रागेव मुक्तिः संसिद्धा गङ्गा--सङ्गात्ततोऽधिका। यदाप्रभृति सा गङ्गा मणिकर्णीसमागता। तदा-प्रभृति तत् क्षेत्रं दुष्प्रापं त्रिदशैरपि। कृत्वा कर्माण्य-नेकानि कल्याणानीतराणि च। तानि क्षणात् समुत्-क्षिप्य काशीसंस्थोऽमृतो भवेत्। तस्य वेदान्तवेद्यस्यनिदिध्यासनतो विना। विना साङ्ख्येन योगेन काश्यांसंस्थोऽमृतो भवेत्। कर्म्मनिर्मूलनकृता विना ज्ञानेनकुम्भज!। शशिमौलिप्रसादेन काश्यां संस्थोऽमृतोभवेत्। यत्नतोऽयत्नतो वापि कालात् त्यक्त्वा कलेवरम्। तारक-स्योपदेशेन काशीसंस्थोऽमृतो भवेत्। अनेकजन्मसं-सिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः। असिसंभेदयोगेन काशी-संस्थोऽमृतो भवेत्। देहत्यागोऽत्र वै दानं देहत्यागोऽ-त्र वै तपः। देहत्यागोऽत्र वै योगः काश्यां निर्व्वाणसौ-ख्यकृत्। प्राप्योत्तरवहां काश्यामपि दुष्कृतवानपि। यायात स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम्। महेन्द्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान्। सर्व्वान्सर्वेशमालोक्य रक्षाञ्चक्रुः पुरा पुरः। असिन्महासि-रूपाञ्च पापिसङ्गतिखण्डिनीम्। दुष्टप्रवेशं धुन्वानांधुनीं देवा विनिर्म्ममुः। वरणाञ्च व्यधुस्तत्र क्षेत्रविघ्ननिर्वारिणीम्। दुर्वृत्तस्य प्रवृत्तेश्च निवृत्तिकरणीं सुराः। दक्षिणोत्तरदिग्भागे कृत्वासिं वरणां सुराः। क्षेत्रस्यमोक्षनिःक्षेपरक्षां निर्वृतिमाययुः। क्षेत्रस्य पश्चाद्दिग्भा-गे तं देहलिविनायकम्। स्वयं व्यापारयामास रक्षार्थंशशिशेखरः। अनुज्ञातप्रवेशानां विश्वेशेन कृपाव-ताम्। ते प्रवेशं प्रयच्छन्ति नान्येषां हि कदाचन”। अत्रार्थे प्राचीनेतिहासमुक्त्वा माहात्म्यादिकमुक्तं यथा-
“एवं काश्यां प्रविश्यापि पापी धर्म्मानुषङ्गतः। नक्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात्। तस्माद्विश्वेश्व-राज्ञैव काशीवासेऽत्र कारणम्। असिश्च वरणा यत्रक्षेत्ररक्षाकृतौ कृते। वाराणसीति विख्याता तदारभ्यमहामुने!। असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका। वाराणसीह करुणामयदिव्यमूर्त्तिरुत्सृज्य यत्र तु तनुंतनुभृत् सुखेन। विश्वेशदृङ्महसि यत् सहसा प्रवि-श्य रूपेण तां वितनुतापदवीन्दधाति। जातो मृतोबहुषु तीर्थवरेषु रे त्वं जन्तो! न जातु तव शान्तिरभून्नि-मज्य। वाराणसीति गदतीह मृतोऽमृतत्वं प्राप्याधुनामम बलात् स्मरशासनः स्याः। अन्यत्र तीर्थसलिलेपतितो द्विजन्मा देवादिभावमयते न तथा तु काश्याम्। [Page2032-b+ 38] चित्रं यदत्र पतितःपुनरुत्थितं न प्राप्नोति पुक्वशजनोऽपिकिमग्रजन्मा। सैषा पुरी संसृतिरूपपारावारस्य पारंपुरुषः पुरारिः। यस्यां परं पौरुषमर्थमिच्छन् सिद्धिंनयेत् पौरपरम्परासः। तीर्थान्तराणि मनुजः परि-तोऽपगाह्य हित्वा तनुं कलुषितां, दिवि दैवतं स्यात्। वाराणसीपरिसरे तु विसृज्य देहं सन्देहभाग्भवति देहल-वाप्तयेऽपि। वाराणसी शमवशीकरणादृतेऽपि योगादयो-गिजनताञ्जनतापहन्त्री। तत्तारकं श्रवणगोचरतांनयन्ती तद्ब्रह्म दर्शयति येन पुनर्भवो न। वाराणसी-परिसरे तनुमिष्टदात्रीं धर्म्मार्थसौख्यनिलयामहहा विसृज्य। इष्टं पदं किमपि हृष्टतरोऽभिलाष्य-लाभोऽस्तु मूलमपि नो यदवाप शून्यम्। आः काशि-रासिजनता ननु वञ्चिताभूद्भालेबिलोचनवता वनि-तार्द्धभाजा। आदाय यत् सुकृतभाजनमिष्टदेहं निर्वा-णमात्रमपवर्जयताऽपुनर्भु। वाराणसी स्फुरदसीमगु-णैकभूमिर्यत्र स्थितास्तनुभृतः शशिभृत्प्रभावात्। सर्वे गलेगरलिणोऽक्षियुजो ललाटे, वामार्द्ध, वामतन-वोऽतनवस्ततोऽन्ते। आनन्दकाननमिदं सुखदं पुरैवतत्रापि चक्रसरसी मणिकर्णिकाऽथ। स्वःसिन्धुसङ्ग-तिरथोपरमास्पदञ्च विश्नेशितुः किमिह तन्न विमुक्तये यत्। वाराणसीह वरणासिसरिद्वरिष्ठासंभेदखेददमनी द्युनदीलसच्छ्रीः। विश्रामभूमिरचलामलभोक्षलक्ष्म्याहैनां विहाय किमु सीदति मूढजन्तुः। किं विस्मृतंत्वहह गर्भजमामनस्यं कार्त्तान्तद्रूतकृतबन्धनताडनं वा। शम्भोरनुग्रहपरिग्रहलभ्यकाशीं मूढो विहाय किमु यातिकरस्थमुक्तिम्। तीर्थान्तराणि कलुषाणि वहन्ति सद्यःश्रेयोद्रवन्त्यपि बहु त्रिदिवं नयन्ति। पानावगाहन-विधानतनुप्रहाणैर्वाराणसी तु कुरुते वत मूलनाशम्। काशीपुरीपरिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृतस्तनुमाप्तुवन्ति। भालेविलोचनवतीं गलनीललक्ष्मींवामार्द्धबन्धुरबधूं विवुधैकराध्याम्। ज्ञात्वा प्रभावम-तुलं मणिकर्ण्णिकाया यत् पुद्गलन्त्यजति चाशुचि पूय-गन्धि। स्वात्मावबोधमहसा सहसा मिलित्वा कल्पान्त-रेष्वपि स नैव पृथक्त्वमेति। रागादिदोषपरिभूतम-नोहृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम्। येकल्पयन्ति परतीर्थसमां समन्तात्ते पापिनो न सह तैःपरिभाषणीयम्। वाराणसीं स्मरहरप्रियराजधानींत्यक्त्वा कुतो व्रजसि मूढ! दिगन्तरेषु। प्राप्याप्यजाड्यसु-[Page2033-a+ 38] लभां स्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमुकामयेथाः?। विद्याधनानि सदनानि गजाश्वभूत्या स्नक्-चन्दनानि वनिताश्च नितान्तरम्याः। स्वर्गोऽप्यगम्यैह नो-द्यमभाजि पुंसि वाराणसी त्वसुलभाऽसुलभा विमु-क्तिः। धात्रा धृतानि तुलया तुलनामवैतुं वैकुण्ठ-मुख्यभुवनानि च काशिका च। तान्युद्ययुर्लघु-तया न्यगि यं गुरुत्वात् तस्थौ पुरीह पुरुषार्थचतुष्ट-यस्य। काशीपुरीमधिवसन् हि नरोऽनरोऽपिह्यारीप्यमाण इह मान्यैहैकरुद्रः। नानोपसर्गजनिसर्गजदुःखभारै कर्म्मापनुत्य स विशेत् परमेशधाम्नि। स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यांकाश्यामहह परिगृह्णीत न कुतः। वपुस्तेजोरूपंस्थिरतरपदानन्दसदनं विमूढोऽसौ जन्तुः स्फुटितमिवकाश्यां विनिमयन्। अहो लोकः शोकं किमिह सहतेहन्त हतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वंसितधनैः। क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधनेश्रुतौ किञ्चिद्भूयः प्रविशति न येनोदरदरीम्। काशिवा-सिनि जने वनेचरे द्वित्रिभुज्यपि समीरभोजने। स्वैरचा-रिणि जितेन्द्रियेऽप्यहो काशिवासिपुरुषे विशिष्टता नास्तीहदुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरन्तकृता। हिकाश्याम्। वीजानि कर्म्मजनितानि यदूषरायांनाङ्कूरयन्ति हरदृग्ज्वलितानि तेषाम्। शशकामसका वकाः शुकाः कलविङ्गाश्च वृकाः सजम्बुकाः। तुरगोरगवानरा नरा गिरिजे! काशिमृताः गतामृ-ताः। अरुद्ररुद्राक्षफणीन्द्रभूषणा त्रिपुण्ड्र चन्द्रार्द्धधराधराङ्गताः। निरन्तरं काशिनिवासिनो जना गिरी-न्द्रजे! पारिषदा मता मम। यावन्त एव निवसन्ति चजन्तवोऽत्र काश्यां जलस्थलचराझषजम्बुकाद्याः। तावन्त एव मदनुग्रहरुद्रदेहादेहावसानमधिगम्य मयिप्रविष्टाः। ये तु वर्षेषवो रुद्रा दिवि! देवि! प्रकीर्त्तिताः। वातेषवोऽन्तरीक्षे ये ये भुव्यन्तेषवः प्रिये!। रुद्रा दशदश प्राच्यवाचीप्रत्यगुदक्स्थिताः। ऊर्द्धदिक्स्थाश्च येरुद्राः पठ्यन्ते वेदवादिभिः। असंख्याताः सहस्राणिये रुद्रा अधिभूतले। तत्सर्वेभ्योऽधिकाः काश्यांजन्तवो रुद्ररूपिणः। रुद्रावासस्ततः प्रोक्तमविमुक्तंघटोद्भव!। तस्मादभ्यर्च्च्य काशीस्थान् वर्ण्णान् वर्ण्णेत-राश्रमान्। श्रद्धयेश्वरबुद्ध्या च रुद्रार्च्चाफलभाक् नरः। श्मशब्देन शवः प्रोक्तः शानं शयनमुच्यते। निर्वचन्ति[Page2033-b+ 38] श्मशानार्थं मुने! शब्दार्थकोविदाः। महान्त्यपि चभूतानि प्रलये समुपस्थिते। शेरतेऽत्र शवा भूत्वा श्मशा-नन्तु ततो महत्। अप्सु भूरिह लये लयं व्रजेदापऔ-र्ववदनोग्रकन्दरे। मातरिश्वनि महातनूनपाद्व्योम्नि सं-क्षयति वै सदागतिः। व्योम चापि लयमेत्यहङ्कृतौ सापिषोडशविकारसंयुता। लीयते महति बुद्धिसंज्ञके हामहान् प्रकृतिमध्यगो भवेत्। सा गुणत्रयमयी चनिर्गुणं तं पुमांसमवगुह्य तिष्ठति। पञ्चविंशतितमः परःपुमान् देहगेहपतिरेष जीवकः। प्राकृतः प्रलय एष उच्यतेहंसयानहरिरुद्रवर्जितः। कालमूर्त्तिरथ तञ्च पुरुषंहेलया कलयतीश्वरः परः। स वै महाविष्णुरिती-ज्यते बुधैस्तं वै महादेवमुदाहरन्ति। सोऽन्तादिमध्यैः परिवर्जितः शिवः स श्रीपतिः सोऽपि हि पार्वतो-पतिः। दैनन्दिनेऽथ प्रलये त्रिशूलकोटीं समुत्क्षिप्यपुरीं हरः स्वाम्। बिभर्त्ति संवर्त्तमहास्थिभूषणस्ततोहि काशी कलिकालवर्जिता। स्कन्द उवाच। वारा-णसीति काशीति रुद्रावास इति द्विज!। महाश्मशानमित्येवं प्रोक्तमानन्दकाननम्। इति देवीपुरः प्रोक्तंदेवदेवेन शम्भुना। यथा विष्णौ पुराख्यातं तथैवचमया श्रुतम्”। सा च सप्तमोक्षपुर्य्यन्तर्गता।
“अयोध्या मथुरामाया का-शी काञ्चिरवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायि-काः। काशी॰।
“अन्यानि यानि तीर्थानि काशीप्राप्ति-कराणि च। काशीं प्राप्यैव मोक्षन्ते नान्यथा कल्पकोटि-भिः” भा॰ टी॰ नीलकण्ठधृतम्
“तत्र हि जन्तोः प्राणेषूत्क्रमंमाणेषु रुद्रस्तारकं व्रह्म व्याचष्टे येनासावमृतीभूय-मोक्षीभवति” श्रुतिः। तेन काशीमृतानां जन्तूनांशिवसकाशात्तत्त्वज्ञानलाभेन तत्क्षणात् मुक्तिः तत्त्व-ज्ञानस्य प्रारब्धेतरसर्व्वकर्म्मनाशकत्वात् तेनैव सर्व-कर्म्मनाशः। सञ्चितकर्म्मणां कायव्यूहेन भोगात्परिक्षपणमित्यन्ये। इतरतीर्थमृतानां तु ब्रह्मादि-लोकप्राप्तौ तत्र श्रवणमननाद्यपेक्षेति भेदः।
“सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत्”। काशी॰
“कदा काश्यां गमिष्यामि कदा द्रक्ष्यामिशङ्करम्। इति ब्रुवाणः सततं काशीवासफलं लभेत्।

२ काशीस्थदेवीमूर्त्तिभेदेच
“विश्वेशं माधवं दुण्ढिं दण्डपार्णिञ्च भैरवम्। वन्देकाशीं गुहां गङ्गां भवानीं मणि-कर्णिकाम्। स्वल्पार्थे ङीप्।

३ खल्पकाशतृणे भरतः[Page2034-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशी [kāśī], See काशि. -Comp. -नाथः an epithet of Śiva. -यात्रा pilgrimage to Benares.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशी f. = काशि, BenaresSee.

काशी f. N. of the wife of सुदेवand mother of सुपार्श्वHariv. 9204 VP.

काशी See. above.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (च्)--a kingdom of मध्यदेश; फलकम्:F1:  Br. II. १६. ४१; १८. ५१; III. ७४. २१३ and २६८.फलकम्:/F a tribe; फलकम्:F2:  M. ११४. ३५; १६३. ६७; २७३. ७३.फलकम्:/F a Janapada फलकम्:F3:  वा. ४५. ११०; ४७. ४८.फलकम्:/F enlisted by जरासन्ध against the Yadus. फलकम्:F4:  भा. X. [५० (V) 3].फलकम्:/F [page१-373+ ३८]
(III)--the mother of Sarvaga (सर्ववृक-वा। प्।) by भीमसेन. M. ५०. ५४; वा. ९९. २४७; Vi. IV. २०. ४६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀŚĪ I : (VĀRĀṆASĪ. BANARAS). (See under Divo- dāsa also).

1) General. One of the oldest and most popular sacred centres in India, Kāśī is reputed for its Viśva- nātha temple of hoary traditions, according to one of which the Śivaliṅga in the temple was installed by Brahmā himself. (Hālāsya Māhātmya).

2) Pilgrimage on foot to Kāśī. Devotees from many parts of India go on pilgrimage to Kāśī on foot, bathe in the holy waters of the Gaṅgā and thus earn spiritual satisfaction and release from worldly attachments. The reason for the above is stated in the Agni Purāṇa as follows:-- Once, at Kailāsa Śiva told Pārvatī that the temple at Kāśī was called ‘Avimukta’ (unreleased) as it never perished, and all Japa, tapa, homa and dāna made there never cease to give auspicious results. One should walk on foot to Kāśī and live there. Having gone there one should never leave the place. There are eight great tīrthas at Avimukta, i.e. Hariścandra tīrtha, Āvrātakeśvara tīrtha, Japyeśvara tīrtha, Śrī Parva- tīrtha, Mahālayatīrtha, Bhṛgu tīrtha, Caṇḍeśvara tīrtha and Kedāratīrtha. These tīrthas extend to two yojanas to the east of the Kāśī temple and half-a- yojana to the west of it. The river Varaṇā is also there, and Vārāṇasī is at the centre of all these. Whatever is done at Vārāṇasī like bath, Japa, homa, worship of Devas, dāna, obsequies for the dead, oneself living there etc. is productive of devotion and salvation. (Agni Purāṇa, Chapter 112).

3) References to Kāśī in the Mahābhārata.

(i) Pāṇḍu once conquered Kāśī. (Bhīṣma Parva, Chapter 9).

(ii) Bhīma married Balandharā, daughter of the King of Kāśī. (Ādi Parva, Chapter 35, Verse 77).

(iii) Bhīmasena conquered Kāśī. (Sabhā Parva, Chap- ter 30, Verse 6).

(iv) Sahadeva conquered Kāśī. (Udyoga Parva, Chap- ter 50, Verse 31).

(v) In the war between the Pāṇḍavas and the Kaura- vas, the King of Kāśī fought on the side of the former. (Udyoga Parva, Chapter 196, Verse 2).

(vi) Arjuna conquered Kāśī. (Ādi Parva, Chapter 122, Verse 40).

(vii) Śrī Kṛṣṇa conquered Kāśī. (Droṇa Parva, Chap- ter 11, Verse 15).

(viii) Karṇa once conquered Kāśī on behalf of Duryo- dhana. (Karṇa Parva, Chapter 8, Verse 19).

(ix) Kāśī had been ruled by the Kings called Haryaśva. Sudeva, and Divodāsa. (Anuśāsana Parva, Chapter 30, Verses 12 to 15).

(x) King Vṛṣadarbha and Uśīnara had ruled over Kāśī. (Anuśāsana Parva, Chapter 30, Verse 9).

(xi) Bhīṣma conquered Kāśī during the Svayaṁvara of Ambā. (Anuśāsana Parva, Chapter 44, Verse 38).

(xii) The horse sent out in connection with Yudhiṣ- ṭhira's Aśvamedha passed through Kāśī also. (Aśva- medha Parva, Chapter 83, Verse 14).

(xiii) For the origin of the name Kāśī see under Divodāsa.


_______________________________
*8th word in right half of page 395 (+offset) in original book.

KĀŚĪ II : An inhabitant-citizen-of Kāśī. (Bhīṣma Parva, Chapter 106, Verse 18).


_______________________________
*1st word in left half of page 396 (+offset) in original book.

KĀŚĪ III : A son of Kaviprajāpati. (Anuśāsana Parva, Chapter 85, Verse 133).


_______________________________
*2nd word in left half of page 396 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काशी&oldid=496141" इत्यस्माद् प्रतिप्राप्तम्