सामग्री पर जाएँ

किञ्चित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किञ्चित् व्य, (किम्च चित्च पाणिनिमते पदद्वयम् । मुग्धबोधमते तु “किमः क्त्यन्तात् चिच्चनौ” । इति चित्प्रत्ययः ।) अल्पम् । तत्पर्य्यायः । ईषत् २ मनाक् ३ । असाकल्यम् । यथा । असाकल्ये तु चिच्चन । इत्यमरः । ३ । ४ । ३ ॥ (यथा विवेकचूडामणौ ११ । “चित्तस्य शुद्धये कर्म्म न तु वस्तूपललब्धये । वस्तुसिद्धिर्विचारेण न किञ्चित् कर्म्मकोटिभिः” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किञ्चित् अव्य।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।4।8।2।1

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किञ्चित्¦ अव्य॰ किम् + चित् किञ्च चिच्च समा॰ वा।

१ असाकल्ये,

२ अल्पे च राजनि॰। अस्य पदद्वयत्वमते

१ अकिञ्चित्करइत्यादौ सह सुपेति समास इति वोध्यम्। इदन्तया नि-र्द्देष्टुमशक्यत्वमेव किञ्चित्त्वम्।
“कम्पेन किञ्चित् प्रति-गृह्य मूर्द्ध्नः” रघुः
“किञ्चित् प्रकाशस्तिमितोग्रतारैः”।
“आवर्ज्जिता किञ्चिदिव स्तनाभ्याम्” कुमा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किञ्चित्¦ ind.
1. Something somewhat.
2. A part, a little. n. किं what, चित् to think, affix क्विप्।

"https://sa.wiktionary.org/w/index.php?title=किञ्चित्&oldid=496236" इत्यस्माद् प्रतिप्राप्तम्