कीचक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीचकः, पुं, (चीकयति शब्दायते । चीक मर्षणे “चीकयतेराद्यन्तविपर्य्ययश्च” । उणां ५ । ३६ इति वुन् आद्यन्तविपर्य्ययश्च ।) अनिलयोगात् शब्दायमानवंशः । इत्यमरः । २ । ४ । १६१ ॥ सर- न्ध्रकवंशः । (यथा, कुमारे १ । ८ । “यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन” ॥) राक्षसविशेषः । इति शब्दरत्नावली ॥ दैत्यभेदः । वृक्षविशेषः । इति विश्वः ॥ नलः । इति राज- निर्घण्टः ॥ केकयराजपुत्त्रः । स च विराटराजस्य श्यालः सेनापतिश्च ॥ (यथा महाभारते ४ । कीचकवधपर्व्वणि १३ । ५ । “सेनापतिर्विराटस्य ददर्श द्रुप्दात्मजाम् । तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव । कीचकः कामयामास कामवाणप्रपीडितः” ॥ अयन्तु छद्मवेशधारिणा विराटभवनस्थेन भीम- सेनेन हतः । अस्य विवरणं महाभारते ४ पर्व्वणि १३ अध्यायमारभ्य द्रष्टव्यम् । देशविशेषः । तत्र बहुवचनान्तोऽयम् ॥ यथा, महाभारते १ । १५७ । २ । “मत्स्यान् त्रिगर्त्तान् पाञ्चालान्कीचकानन्तरेणच । रमणीयान्वनोद्देशान् प्रेक्षमाणाः सरांसि च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीचक पुं।

वाताहतवेणुः

समानार्थक:कीचक

2।4।161।2।1

शतपर्वा यवफलो वेणुमस्करतेजनाः। वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीचक¦ पु॰ कीत्यव्यक्तं चकति चक--तृप्त्यादौ अच्।

१ दैत्यभेदे
“कीचका नाम ते वंशा ये स्वनन्त्यनिलाहताः” इत्युक्ते

२ वेणुभेदे (तलतार्वाश)अमरः।
“यः पूरयन् कीचक-रन्ध्रमागान् दरीमुखोत्थेन समीरणेन” कुमा॰
“सङ्कीर्ण-कीचकवनस्खलितैकबालेत्यादि” माघः विराटराजश्याले

३ केकयात्मजे विराटसेनाधिपभेदे च कीचकस्य द्रौपद्या-मनुरागादिकथा भा॰ वि॰ अ॰ यथा-
“तस्मिन् वर्षे गतप्राये कीचकस्तु महाबलः। सेनापति-र्विराटस्य ददर्श द्रुपदात्मजाम्। तां दृष्ट्वा देवगर्भाभांचरन्तीं देबतामिव। कीचकः कामयामास कामवाणप्र-पीडितः”। इत्युपक्रम्य सैरिन्ध्रीरूपां द्रोपदीं प्रति तत्-प्रार्थने तया तस्य प्रत्याख्यानमुपवर्ण्णितं यथा-
“सैरिन्ध्र्युवाच। मा सूतपुत्त्र! मुह्यस्व माऽद्यात्याक्षीःस्वजीवितम्। जानीहि पञ्चभिदेवैर्न्नित्यं मामभिरक्षि-ताम्। न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम। तेत्वां निहन्युः कुपिताः साध्वसून् मा व्यनीनशः। अश-क्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि। यथा निश्चेतनो बा-लः कूलस्थः कूलमुत्तरम्। तर्त्तुमिच्छति मन्दात्मा तथात्वं तर्त्तुमिच्छसि। अन्तर्म्महीं वा यदि वोर्द्ध्वमुत्पतेःसमुद्रपारं यदि वा प्रधावसि। तथाऽपि तेभ्यो न वि-मोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः। त्वं का-लरात्रीमिव कश्चिदातुरः किं मां दृढं प्रार्थयसेऽद्य की-चक!। किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षु-रिव मन्यसे हि माम्”

१३ अ॰। तयैवं निरस्तेन तेनस्वभगिनीं सुदेष्णां प्रति तस्यावश्यतासम्पादनप्रार्थनेतया तत्रोपायविधानं वर्णितं यथा-
“प्रत्याख्यातो राजपुत्त्र्या सुदेष्णां कीचकोऽब्रवीत्। अ-मर्य्यादेन कामेन वोरेणाभिपरिप्लुतः। कीचकौवाच। यथा कैकेयि! सेरिन्ध्री समेयात्तद्विधीयताम्। येनोपायेनसैरिन्ध्री भजेन्मां गजगामिनी। तं सुदेष्णे! परीप्स-स्व नो चेत् प्राणान् प्रहासिषम्। वैशम्पायनौवाच। तस्य सा बहुशः श्रुत्वा वाचं विलपतस्तदा। विराटम-हिषी देवी कृपाञ्चके मनस्विनी। स्वातन्त्र्यमभिसन्धायतस्यार्थमनुचिन्त्य च। उद्योगञ्चैव कृष्णायाः सुदेष्णा[Page2057-b+ 38] सूतमब्रवीत्। सुदेष्णोवाच। पर्व्वणि त्वं समुद्दिश्यसुरामन्नञ्च कारय। तत्रैनां प्रेषयिष्यामि सुराहारींतवान्तिकम्। तत्र सम्प्रेषितामेनां विजने निरवग्रहे। सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि। वैशम्पा-यनौबाच। इत्युक्तः स विनिष्क्रम्य भगिन्या वचनात्त-दा। सुरामाहारयामास राजार्हां सुपरिष्कृताम्। म-द्यांश्च विविधाकारान् बहूंश्चोच्चावचांस्तदा। कारया-मास कुशलैरन्नपानं सुशोभनम्। तस्मिन् कृते तदा देवीकीचकेनोपमन्त्रिता। सुदेष्णा प्रेषयामास सैरिन्ध्रीं की-चकालयम्”। तत्प्रेषिताया द्रौपद्याः कीचकेन कथादि
“द्रौपद्युवाच। संप्रैषीद्राजपुत्त्री मां सुराहारीं तवान्ति-कम्। पानमाहर मे क्षिप्रं पिपासा मयि चाब्रवीत्। कीचकौवाच। अन्या भद्रे! नयिष्यन्ति राजपुत्त्र्याः प्र-तिश्रुतम्। इत्येनां दक्षिणे पाणौ सूतपुत्त्रः परामृशत्। द्रौपद्युवाच! यथैवाहं नाभिचरे कदाचित् पतीन्मदाद्वै-मनसाऽपि जातु। तेनैव सत्येन वशीकृतं त्वां द्रक्ष्यामिपापं परिकृष्यमाणम्। वैशम्पायन उवाच। स तामभि-प्रेक्ष्य विशालनेत्रां जिघृक्षमाणः परिभत्र्सयन्तीम्। जग्राह तामुत्तरवस्त्रदेशे स कीचकस्तां सहसाक्षिपन्ती-म्। प्रगृह्यमाणा तु महाजवेन मुहुर्विनिश्वस्य च रा-जपुत्त्री। चिक्षेप तं गाढसमृष्यमाणा प्रवेपमानाऽतिरु-षा शुभाङ्गी। तया समाक्षिप्ततनुः स पापः पपातशाखीब निकृत्तमूलः। सा गृहीता विधुन्वाना भूमावा-क्षिप्य कीचकम्। सभां शरणमागच्छद्यत्र राजा युधि-ष्ठिरः। तां कीचकः प्रधावन्तीं केशपाशे परामृशत्। अथैनां पश्यतो राज्ञः पातयित्वा पदाऽबधीत्। तस्यायोऽसौ तदाऽर्केण राक्षसः सन्नियोजितः। स कीचक-मपोवाह वातवेगेन भारत!। स पपात तदा भूमौ र-क्षोवलसमाहतः। विघूर्णमानो निश्चेष्टश्छिन्नमूल इवद्रुमः”। भा॰ वि॰

१५ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीचक¦ m. (-कः)
1. A bamboo whistling or rattling in the wind.
2. Any hollow bamboo.
3. A reed.
4. A Daitya or infernal demon so named.
5. A particular Rakshasa or goblin.
6. A kind of tree.
7. A prince, the son of KEKAYA. E. चीक to touch, to sound, वुन् Unadi affix, and the radical consonants transposed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीचकः [kīcakḥ], [Uṇ.5.56]

A hollow bamboo.

A bamboo rattling or whistling in the wind; शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः Me.58; R.2.12;4.73; Ku.1. 8.

N. of a people.

N. of the commander-in-chief of king Virāṭa; कीचकानां वधः पर्व Mb.1.2.58. (While Draupdī in the guise of Sairandhrī was residing at the court of king Virāṭa with her five husbands also disguised, Kīchaka once happened to see her, and her beauty stirred up wicked passion in his heart. He, thenceforward, kept a sinister eye on her, and endeavoured through the help of his sister, the king's wife, to violate her chastity. Draupadī complained of his unmannerly conduct towards herself to the king; but when he declined to interfere, she sought the assistance of Bhīma, and at his suggestion showed herself favourable to his advances. It was then agreed that they should meet at mid-night in the dancing hall of the palace. Pursuant to appointment Kīchaka went there and attempted to embrace Draupadī (as he fancied Bhīma to be owing to the darkness of night). But the wretch was at once seized and crushed to death by the powerful Bhīma.]-Comp. -जित् m. an epithet of Bhīma, the second Pāṇḍava prince.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीचक m. ( चीक्. Un2. v , 36 )a hollow bamboo (whistling or rattling in the wind , Arundo Karka) MBh. R. etc.

कीचक m. N. of a chief of the army of king विराट(conquered by भीम-सेन) MBh. i , 328 ; iv , 376 ff. Pan5cat.

कीचक m. N. of a दैत्यL.

कीचक m. of a राक्षसL.

कीचक m. pl. N. of a people (a tribe of the केकयs) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Kīcaka : m. (pl.): Name of a country and its people.

Epic events:

(1) Young Pāṇḍavas and Kuntī, in their wanderings after their escape from the lac house, passed through many countries one of them being the Kīcakas (te…vīrā…yayū…/…kīcakān antareṇa ca) 1. 144. 1-2;

(2) Dhṛtarāṣṭra, while recounting past exploits of Karṇa, mentioned that he had defeated the Kīcakas and made them pay tribute (vaṅgakīcakān/… yo jitvā samare vīraś cakre balibhṛtaḥ purā) 8. 5. 19-20.

_______________________________
*2nd word in left half of page p663_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=कीचक&oldid=496313" इत्यस्माद् प्रतिप्राप्तम्