कीटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीटः, पुं, (कीट् + अच् ।) कृमिजातिः । इति शब्द- रत्नावली ॥ (यथा मनुः १ । ४० । “कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम्” ॥ “सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः । दोषैर्व्यस्तैः समस्तैश्व युक्ताः कीटाश्चतुर्विधाः ॥ दष्टस्य कीटैर्वायव्यैदंशस्तोदरुजोल्वणः । वेपथुश्वासहिक्काश्च दाहः शीतञ्च दारुणम् ॥ पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च । दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च ॥ तैर्भवन्तीह दष्टानां यथास्वञ्चाप्युपद्रवाः । येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत् ॥ एकजातीनतस्तूर्द्ध्वं कीटान् वक्ष्यामि भेदतः । सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च ॥ त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपराजितः । चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः ॥ तैर्दष्टस्य श्वयथुरङ्गमर्द्दोगुरुता गात्राणां दंशः कृष्णश्च भवति ॥ “प्रतिसूर्य्यः पिङ्गभासो बहुवर्णो महाशिराः । तथा निरुपमश्चापि पञ्चगौधेरकाः स्मृताः ॥ तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् । रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः ॥

"https://sa.wiktionary.org/w/index.php?title=कीटः&oldid=126997" इत्यस्माद् प्रतिप्राप्तम्