कुजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुजा, स्त्री, (कुजाः पृथिवीजाः वृक्षाः आश्रयत्वेन सन्ति अस्याः इति अच् ततष्टाप् । यथा, -- “कदली दाडिमी धान्यं हरिद्रा मानकं कचुः । विल्वाशोकौ जयन्ती च विज्ञेया नवपत्रिका” ॥ इति मन्त्रोक्तनवपत्रिकासु “तव स्थानमिदं मर्त्त्ये” इत्यादि निर्द्देशेन चास्याः आश्रयत्वात् तथात्वम् ।) कात्यायनी देवी । इति मेदिनी ॥ (कोः पृथिव्याः जायते । जन + डः टाप् च । सोता देषी भूमेः तदुत्पत्तिकथा कालिका पुराणे ३७ अध्यायेः । “ततः पुरोधसं राजा गोतमं मुनिसत्तमम् । तत्पुत्त्रञ्च शतानन्दं पुरोधायाकरोन्मखम् ॥ द्वौ पुत्त्रौ तस्य सञ्जातौ यज्ञभूमौ परौ स्मृतौ । एका च दुहिता साध्वी भूम्यन्तरगता शुभा” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुजा¦ स्त्री कोः पृथिव्याः जायते जन--ड। सीतादेव्यां त-स्याः पृथिवीतोजन्मकथा कालि॰

३७ अ॰
“तच्छ्रुत्वा जनको राजा प्रविश्यान्तःपुरं स्वकम्। भा-र्य्याभिर्मन्त्रयामास यज्ञार्थं पुत्रजन्मने। मन्त्रयित्वा तदाराजा महिषीप्रमुखैः स्वयम्। चतसृभिस्तु भार्य्या-भिर्यज्ञार्थं दीक्षितोऽभवत्। ततः पुरोधसं राजा गौ-तमं मुनिसत्तमम्। तत्पुत्रञ्च शतानन्दं पुरोधायाक-रोन्मखम्। द्वौ पुत्रौ तस्य सञ्जातौ यज्ञभूमौ परौस्मृतौ। एका च दुहिता साध्वी मूम्यन्तरगता शुभा। नारदस्योपदेशेन यज्ञभूमिं ततो नृपः। हलेन दारयामासयज्ञवाटावधि स्वयम्। तद्भूमौ जातसीतायां शुभांकन्यां समुत्थिताम्। लेभे राजा मुदा युक्तः सर्वलक्षण-संयुताम्। तस्यान्तु जातमात्रायां पृथिव्यन्तर्हिता[Page2067-b+ 38] स्वयम्। जगाद वचनञ्चेदं गौतमं जनकं नृपम्। पृथिव्युवाच। एषा सुता मया दत्ता तव राजन्मनो-हरा। एनां गृहाण सुभगां लोकद्वयशुभावहाम्। अनया मे महाभार उद्धृतौ हेतुभूतया। क्षयं यास्यतिभारार्त्तिं मोचयिष्यामि दारुणाम्। रावणाद्या महावीराः कुम्भकर्णादयोऽपरे। नाशं यास्यन्ति दुर्द्धर्षाःकृतेऽस्या राक्षसाः परे। त्वञ्च मोदं दुराधर्षं यद्दहितृकृतं नृप!। अवाप्स्यसि सुराणाञ्च पितॄणामृणशोधनम्”। कुजाः वृक्षा आश्रयत्वेन सन्त्यस्याः अच्।

२ कात्या-यनीदेव्यां मेदि॰
“कदली दाडिमी धान्यं हरिद्रामानकं कचुः। विल्वोऽशोको जयन्ती च विज्ञेया नव-पत्रिका” इत्युक्तनवपत्रिकाणाम्
“तव स्थानमिदं मर्त्ये” इति मन्त्रलिङ्गेन आश्रयणीयत्वोक्तेस्तस्यास्तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुजा/ कु--जा f. " earth-daughter " , दुर्गाL.

कुजा/ कु--जा f. of सीताW.

"https://sa.wiktionary.org/w/index.php?title=कुजा&oldid=496410" इत्यस्माद् प्रतिप्राप्तम्