कुटज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटजः, पुं, (कुटे पर्व्वते जायते । जन् + डः ।) पुष्प- वृक्षविशेषः । यस्य फलं इन्द्रयवः । कुडची इति भाषा ॥ (यथा, माघे ६ । ३५ । “कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम्” ॥) तत्पर्य्यायः । शक्रः २ वत्सकः ३ गिरिमल्लिका ४ । इत्यमरः । २ । ४ । ६६ ॥ कौटजः ५ । इति तट्टीका ॥ वृक्षकः ६ शक्रपर्य्यायः ७ । इति रत्नमाला ॥ कुटजः ८ काही ९ कालिङ्गः १० मल्लिकापुष्पः ११ प्राष्टष्यः १२ शत्रुपादपः १३ वरतिक्तः १४ यवफलः १५ संग्राही १६ पाण्डुरद्रुमः १७ प्रावृ- षेण्यः १८ महागन्धः १९ पाण्डरः २० । इति शब्दरत्नावली ॥ अपि च । “कुटजः कूटजः कौटो वत्सको गिरिमल्लिका । कालिङ्गः शत्रुशाखी च मल्लिकापुष्प इत्यपि ॥ इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः । कुटजः कटुको रूक्षो दीपनस्तुवरो हिमः” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कषायत्वम् । अतिसारना- शित्वञ्च । असितस्य तस्य गुणः । रक्तपित्तत्वग्दोषा- र्शोनाशित्वम् । इति राजनिर्घण्टः ॥ कफनाश- कत्वम् । इति राजवल्लभः ॥ (“कुटजत्वक्कृतः क्वाथो घनीभूतः सुशीतलः । लेहितोऽतिविषायुक्तः सर्व्वातीसारनुद्भवेत्” ॥ “कुटजस्य पलं ग्राह्यमष्टभागजले शृतम् । तथैव विपचेद्भूयो दाडिमोदकसंयुतम् ॥ यावच्चैवलसीकाभं शृतं तमुपकल्पयेत् । तस्यार्द्धकर्षतक्रेण पिबेद्रक्तातिसारवान् ॥ अवश्यमरणीयोऽपि मृत्योर्याति न गोचरम्” । इति वैद्यकचक्रपाणिसंग्रहेऽतिसाराधिकारे ॥) अगस्त्यमुनिः । द्रोणाचार्य्यः । इति मेदिनी ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटज पुं।
कुटजः
समानार्थक:कुटज,शक्र,वत्सक,गिरिमल्लिका
2।4।66।2।2
श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका। जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका॥
अवयव : कुटजबीजम्
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटज¦ पु॰ कुटे पर्व्वते जायते जन--ड। (कुरची)
१ वृक्षभेदेअमरः।
“कुटजः कटुको रूक्षो दीपनस्तुवरोहिमः। अर्शो-ऽतीसारपित्तास्रकफतृष्णामकुष्ठनुत्” भावप्र॰ तत्गुणा-द्युक्तम्।
“कुटजः कूटजः कौटो वत्सकोगिरिमल्लिका। कालिङ्गः शक्रशाखा च मल्लिकापुष्प इत्यपि। इन्द्रयवफलःप्रोक्तो वृक्षकः पाण्डुरद्रुमः” इति भावप्र॰ तद्पर्य्यायेइन्द्रयवफलत्वोक्तेः तत्फलस्य इन्द्रयवनामता
“कुटजपुष्प-परागकणाः स्फुटम्” माधः
“अलिरसौ नलिनोवनवा-ल्लभः कुमुदिनीकुलकेलिकलालसः। विधिवशेन विदेश-मुपागतः कुटजपुष्परसं बहु मन्यते” कुटे घटे जायते।
२ अगस्त्यमुनौ
३ द्रोणाचार्य्येच मेदि॰ तयोस्तदुत्पत्तिकथाकुम्भजशब्दे वक्ष्यते। [Page2070-a+ 38]
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटज¦ m. (-जः) A medicinal plant, commonly Coraya, (Echites antidy- [Page186-a+ 60] senterica, Rox.) the seeds are used as a vermifuge: see इन्द्रयव।
2. A name of the saint AGASTYA.
3. Also of DRONA a sage and warrior: see द्रोण E. कूट a mountain peak, and ज what is produced; the vowel of कूट being made short.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटज/ कुट--ज m. Wrightia antidysenterica (having seeds used as a vermifuge ; See. इन्द्र-यव) MBh. R. etc.
कुटज/ कुट--ज m. " born in a pitcher " , N. of the sage अगस्त्य(See. Nir. v , 13 and 14 ) L.
कुटज/ कुट--ज m. of द्रोणL.
कुटज/ कुट-ज m. See. s.v. कुट.