कुट्टनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुट्टनी, स्त्री, (कुट्टयति छिनत्ति नाशयति स्त्रीणां कुलमनया । कुट्ट + स्वार्थे णिच् ततः ल्युट् ङीप् । यद्वा कुट्ट्यते छिद्यते स्त्रीणां कुलं अनया । कुट्ट छेदने + करणे ल्युट् ङीप् च ।) पुरुषेण सह परस्त्रीयोगकर्त्री । कुट्नी इति भाषा । तत्प- र्य्यायः । शम्भली २ । इत्यमरः । २ । ६ । १९ ॥ कुटुनी ३ सम्भली ४ । इति तट्टीका ॥ माधवी ५ रङ्गमाता ६ अर्ज्जुनी ७ । इति जटाधरः ॥ कुम्भदासी ८ गणेरुका ९ । इति शब्दरत्ना- वली ॥ (यथा, हितोपदेशे । १ । २४३ । “तदालिङ्गनमवलोक्य समीपवर्त्तिनीं कुट्टन्यचि- न्तयत्” ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुट्टनी स्त्री।
परनारीं_पुंसा_संयोजयित्री
समानार्थक:कुट्टनी,शम्भली
2।6।19।2।2
वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः। सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुट्टनी¦ स्त्री कुट्ट--ल्युट् ङीप्। (कुट्नी) परपुरुषेण सहपरस्त्रियाः समागमकारयित्र्यां स्त्रियाम्।
“तदालिङ्ग-नमवलोक्य समीपवर्त्तिनी कुट्टन्यचिन्तयत् अकस्मादिय-मेनमुपगूढवतीति ततस्तया कुट्टन्या तत्कारणं परि-ज्ञाय सा लीलावती गुप्तेन दण्डिता” हितो॰। णिनिकुट्टिन्यप्यत्र
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुट्टनी f. a kind of spear Gal.
कुट्टनी f. a bawd Katha1s. Hit.