कुण्डलिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिनी, स्त्री, (कुण्डलिन् + स्त्रियां ङीप् ।) कुल- कुण्डलिनी शक्तिः । यथा, -- “ध्यायेत् कुण्डलिनीं सूक्ष्मां मूलाधारनिवासिनीम् । तामिष्टदेवतारूपां सार्द्धत्रिवलयान्विताम् ॥ कोटिसौदामिनीमासां स्वयम्भूलिङ्गवेष्टिनीम् । तामुत्थाप्य महादेवीं प्राणमन्त्रेण साधकः ॥ उद्यद्दिनकरोद्योतां यावच्छ्वासं दृढासनः । अशेषाशुभशान्त्यर्थं समाहितमनाश्चिरम् । तत्प्रभापटलव्याप्तं शरीरमपि चिन्तयेत्” ॥ इति तन्त्रसारः ॥ * ॥ गुडूची । इति राजनिर्घण्टः ॥ मिष्टान्नविशेषः । जिलिपी इति भाषा । तस्य पाकप्रकारो यथा । “नूतनं घटमानीय तस्यान्तः कुशलो जनः । प्रस्थार्द्धपरिमाणेन दध्यम्लेन प्रलेपयेत् ॥ द्विप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम् । घृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपेतू ॥ आतपे स्थापयेत्तावद्यावद्याति तदम्लताम् । तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्रवे ॥ कर्पूरादिसुगन्धे च स्लपयित्वोद्धरेत्ततः” ॥ अस्या गुणाः । “एषा कुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा । धातुवृद्धिकरी वृष्या रुच्या चेन्द्रियतर्पणी” ॥ इति भावप्रकाशः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिनी f. the plant Coccus cordifolius L.

कुण्डलिनी f. a particular dish (curds boiled with ghee and rice) Bhpr.

कुण्डलिनी f. a शक्तिor form of दुर्गा.

"https://sa.wiktionary.org/w/index.php?title=कुण्डलिनी&oldid=496506" इत्यस्माद् प्रतिप्राप्तम्