कुन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्तः, पुं, (कुं भूमिं उनत्ति क्लेदयति । कुं शरीर उनत्ति भेदयति दारयति वा धातूनामनेकार्थ- त्वात् उन्द + बाहुलकात् तः । शकन्ध्वादिवत् साधुः ।) गवेधुका । प्रासास्त्रम् । इति मेदिनी ॥ (भल्लास्त्रम् । भाला इति भाषा । यथा कथासरित् सागरे । “कुन्तदन्ता कथंकुर्य्यात् राक्षसीव हि सा शिवम्” ॥) चण्डभावः । क्षुद्रजन्तुः । इति विश्वः ॥ क्षुद्रकीटः । उत्कुनम् । (उकुन् इति भाषा ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्त पुं।

कुन्तः

समानार्थक:प्रास,कुन्त

2।8।93।2।2

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥

वृत्तिवान् : कुन्तायुधिः

वैशिष्ट्य : कुन्तायुधिः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्त¦ पु॰ कुं भूमित्तिमुनत्ति उन्द--बा॰ त शकन्ध्वा॰। गबेधुकायां (गडगडे)

१ धान्यभेदे।

२ प्रासास्त्रे च मेदि॰।

३ क्षुद्र-[Page2098-b+ 38] कीटभेदे (उकुन्) कुन्तलः।

४ चण्डभावे विश्वः। कुन्तास्त्र-लक्षणं हेमा॰ परिख॰ लक्षणसमुच्चये उक्तं यथा
“उक्ता कुन्तोत्पत्तिरनन्तरं कुन्तद्रव्यं वक्ष्यते वेणुर्वेत्रं वि-ल्वश्चन्दनो वर्द्वनं शिशंपा खदिरोदेवदारुर्घण्टारोह-श्चेति कुन्तस्य दण्डद्रव्याणि तत्र सप्तहस्तप्रमाणःश्रेष्ठः। षड्भिर्हस्तैर्मध्यमः। पञ्चहस्तश्च निकृष्टो भवतिलोहस्याकारौ द्वौ भवतः एकं पुष्कलावर्त्तकं द्वितीयंचीनोत्थितं तत्तु तीक्ष्णं, यत्तु पुष्कलावर्तकं तल्लोहंमृदु। तयोस्त्वियं परीक्षा यत्ताडितं नदति तत्तीक्ष्णंयन्निःशब्दं तत्मुदु, निपाते यद्भिद्यते तत्तीक्ष्णं, यन्नमतितत्पुष्कलावर्त्तं मृदु। तत्र चीनोद्भवं भवत्यप्रशस्तं पुष्फ-नावर्त्तकमेव प्रशस्यते। कुन्तस्य फलं च मृदुनालोहेन कर्त्तव्यं तीक्ष्णेन लोहेन धारा कार्या तयोर-लाभे शेषाणि लाहानि शोधयित्वा कुन्तफलं तैःकारयेत्। तत्र सप्रपर्ण्णशाकखर्जूरीवेत्रकरवीरवेस्थू-नां तालफलकयोः केतक्याः स्रुह्या वा पत्राकारःकुशाग्रस्य सन्निभश्च। तथा कर्णसंस्थानं वा कर्त्तव्य तच्चनिर्व्रणं मनोदृष्टिहरन्तोक्ष्णं शुभञ्च श्रेष्ठं षोडशाङ्गुला-यामं, मध्यमं चतुर्द्दशाङ्गुलायाममधमं द्वादशाङ्गुलं भवति। अङ्गलविस्तारं सार्द्धाङ्गुलविस्तारं द्व्यङ्गुलविस्तारञ्च क्र-माद्भवति। द्वियववैपुल्यं सार्द्वैकयववैपुल्यमेकयववैपु-ल्यञ्च। तत्र श्लोकाः। वेण्वादिदुमजातीनां कार्यो दण्डःसच त्रिधा। सप्त{??}ट्प{??}हलश्च उत्तमो मध्यमोऽधमः। तस्याकारौ च द्वौ स्यातां सचीनं पुष्कलं तथा। तत्रैक-तीक्ष्णं लोहस्य द्वितीयं मृदुनस्तथा। तत् फलं मृदुलोहेनधारा तीक्ष्णेन कारयेत्। सप्तपर्ण्णादिप्रत्राणां समाकारंफलं भवेत्। षोडशाङ्गुलमायामोद्व्यङ्गुलञ्चापि विस्तृतम्। यवद्वितयवैपुल्यं श्रेष्ठं कुन्तफलं भवेत्। मध्वमाधमयो-र्हानिर्द्व्यङ्गुलार्द्धाङ्गुलं क्रमात्। आयाने विस्तृते वत्स। वैपुल्ये च यथाक्रमम्। सुशब्दत्वं मृदुगन्धत्वंसुपीतत्वं वर्ण्ण-पजितत्वञ्चेति फलगुणाः। चम्पकोत्पलचन्दनागुरुपद्मो-शीरपत्ररसानां सुगन्धिदानाम् भवति फलस्य गन्धसंपत्। तया युक्तं फलमतिक्रम्यापि रूपं पूजितं भवति वसा-गन्धि मत्स्यगन्धि गोमूत्रगन्धि दुर्गन्धि च निन्दितंभवति। मधुरं यद्ययवाम्लं यत्कषायं भवतितल्लक्ष्मीप्रवर्द्धनं, यल्लवणं कटुकं तिक्तं वापि रूक्षंक्षयावहं तन्निर्द्दिशेत्। शब्दस्तु हिरण्यस्थालीशब्दवत्घण्टाशब्दवच्च प्रशस्तो, झर्झरीभिन्नपात्रशब्दवद्भेरीः[Page2099-a+ 38] शब्दवच्च शब्दो निन्दितो भवति। वैदूर्यनिभं चन्द्रसमानवर्ण्णकसम्मितोत्फलसदृशवर्ण्णं निर्मलाकाशसवर्ण्णमतसीपुष्पनिभं वा कुन्तफलं श्रियं भर्तुर्ददाति, मधुकोशस-मानवर्ण्णं श्यामलोहवर्ण्णं मक्षिकासवर्ण्णं निन्दितंभवति। हंसशुकमयूरताम्रचूडघटनन्द्यावर्त्तकूर्ममत्स्यसरित्प्रभा अन्ये च मङ्गलशंसिनः पदार्थाः कुन्तव्रणेषुयदि दृश्यन्ते तदा ते धर्मकामार्थसाधकाविनिर्द्दिष्टाः। ( पादुकीलूकपादपवायसश्चगृध्रजम्बूकनिगलकृकलासाश्चे-त्येवं निन्दिताः पदार्था दृश्यन्ते व्रणेषु ते दृष्टाः श्रिय-मपहरन्ति वत्सेति व्रणलक्षणम्। छाया वक्ष्यते ध्वज-पताकाचामरच्छत्रतोरणशिविकावेश्माङ्कुशवर्द्वमानभृङ्गा-रगजतुरङ्गायस्मिन् कुन्तफले दृश्यन्ते धौतच्छाया-न्तरगतास्तं कुन्तमपुण्यकृतोन लभन्ते नकुलर्क्षवृक-सूकरमहिषवायसोलूकवल्मीकादयो ये निन्दितायदिकुन्ते स्युर्धौतव्यक्ते तदा स कुन्तः श्रियं भुज्यमाना-मपि विनाशयेद्यस्तादृशङ्गुन्तं बिभृयात्। स बधं बन्धंसद्योलभेत तस्य महिंषी वा। चूलिकयोर्व्याघ्रनखस्यशुक्लानि चूर्ण्णानि समभागानि कारयेत्। तत् चूर्ण्णितंकृत्वा तेन चूर्णेन फले घर्षोपघर्षितं कुन्तफलं निर्मलंभवति दुर्गन्धं न भवेत्तथा मलेन न लिप्यते। तच्च वर्मको-षसमन्द्वितं समाहितं कारयेन्नालिकाबन्निर्व्रणं सुदृढायामेन अनुबन्धेन सुश्लिष्टैश्छादैर्वलक्षकैः सुवर्णमये रजतमये वा वर्मणि रत्नालङ्कृतैर्नलिका श्लिष्टा कर्त्तव्या। स्कन्धेदृढपरिग्रहश्च तथाचोक्तं कुन्तस्य कर्त्तव्यं नलिका-सहजं वा। नलिका चात्र प्रमाणतः श्रिष्टा कार्या हरीत-कीसदृशन्तालफलसमानं विल्वफलाकारं ककुभकपित्थ-फलसदृशं वा वृत्तमष्टास्रं वा कलशामलकाकारं वाभवति सर्वोपस्क रान्वितं कुन्तायुधं षष्टिपलं श्रेष्ठं-पञ्चाशत्पलं मध्यमं चत्वारिंशत्पलं निकृष्टमिति प्रबल-रिपुविनाशकं क्रियान्वितञ्च कुन्तं कारयेन्नतु स्यप्रमा-णादधिगौरवं, यो हि कायसारस्य बलमविदित्वा कुन्तमा-युधमावहेत् सादिकस्तस्याजीर्णमजानतः पुरुषंस्येवातिभुक्तमशनं कुन्तायुधं विषीभवति। इत्यौशनसे कुन्तलक्षणम्” कुन्ताः प्रविशन्तीत्यत्र कुन्तधारिसि लक्षणेत्यालङ्कारिकाः।
“शक्तिकुन्तध्वजरथावाजिवारणगोदृषाः” सुश्रु॰।
“शक्तिकुन्ताद्यायुधानीति” मुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्त¦ mf. (-न्तः-न्ती)
1. A bearded dart, a lance. m. (-न्तः)
1. A species of grain, (Coix barbata, Rox.)
2. A small animal, an insect.
3. Pass- ionateness. f. (-न्तिः or -न्ती)
1. A wife af PANDU, and mother of the three elder PANDAVA princes, by as many gods.
2. The gum oliba- num tree, (Boswelia thurifera.)
3. Beellium, a fragrant resin.
4. The wife of a Brahman. E. कु bad, and अन्त end, destroying ill, ene- mies, &c. or क the head, and उन्द to give pain, त substituted for द fem. affix इन् or ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्तः [kuntḥ], 1 A lance, a barbed dart, spear; कुन्ताः प्रविशन्ति K. P.2. (i. e. कुन्तधारिणः पुरुषाः); विरहिनिकृन्तनकुन्तमुखाकृ- तिकेतकिदन्तुरिताशे Gīt.1. Mb.6.96.57.

A small animal, an insect.

A kind of grain.

Passion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्त m. a spear , lance([ cf. Lat. contus ; Gk. ?]) R. etc.

कुन्त m. a small animal , insect L.

कुन्त m. a species of grain (Coix barbata) L.

कुन्त m. passion L.

कुन्त m. the god of love Gal.

"https://sa.wiktionary.org/w/index.php?title=कुन्त&oldid=496562" इत्यस्माद् प्रतिप्राप्तम्