कुब्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुब्जः, त्रि, (कु ईषत् उब्ज आर्ज्जवमस्य । उब्ज आर्जवे घञ् शकब्ध्वादिवदुलोपः ।) वायुनोन्नतहृदयः । उन्नतपृष्ठश्च । कुजा इति भाषा । तत्पर्य्यायः । गडुः २ गडुलः ३ इत्यमरः ॥ न्युब्जः ४ गडुरः ५ इति शब्दरत्नावली ॥ तस्य लक्षणमाह । “हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् । क्रुद्धो वायुर्यदा कुर्य्यात्तदा तं कुब्जमादिशेत्” ॥ इति माधवकरः ॥ यदेत्युक्त्या यदिवेति विकल्पार्थ- स्तेन न पुनरुक्तिदोषः । नन्वन्तरायामः क्रोडनतो भयति वहिरायामः पृष्टनतो भवति ताभ्यामस्य को भेदः । उच्यते । अन्तरायामवहिरायामयोः प्रकृतस्यैवान्तःशरीरस्य वहिःशरीरस्य चावन- मनमत्र तु हृदयं पृष्ठं वा शरीराद्वहिर्भवतीति भेदः ॥ * ॥ अथ चिकित्सा । “वाह्यायामेऽन्तरायामे धनुस्तब्धे च कुब्जके । योज्यं प्रसारिणीतैलं तेन तेषां शमो भबेत् ॥ वातव्याधिषु सामान्या याःक्रियाः कथिताः पुरा । कर्त्तव्या एव ताः सर्व्वास्तैलमेतद्विशेषतः” ॥ इति भावप्रकाशः ॥ (यथा, हरिवंशे ८३ । ३४ । “तान्तु कुब्जां स्थडोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना । शनैः सन्तोडयामास कृष्णो लीलाविधानवित्” ॥ रोगविशेषस्यास्य चिकित्सार्थं वटिकौषधं यथा ॥ * ॥ “रसौ गन्धौ समौ शुद्धौ तालकञ्चाभया तथा । विषं व्योषञ्च कटुकीं वोलजैपालकौ समौ” ॥ “भृङ्गराजरसैमर्द्द्यं स्नुह्यर्कस्वरसैस्तथा । गुञ्जाद्वयं प्रदातव्यं रसः कुब्जविनोदकः ॥ आमवाताढ्यवातादीन् कटीशूलञ्च नाशयेत् । अग्निञ्च कुरुते दीप्तं स्थौल्यानां नाशनं परम्” ॥ कुब्जविनोदो रसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे वातरोगाधि- कारे ॥ * ॥)

कुब्जः, पुं, (कु ईषदुब्जं आर्जवमस्य । शकन्ध्वादित्वात् साधुः ।) अपामार्गः । इति राजनिर्घण्टः ॥ खङ्गः । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुब्ज पुं।

कुब्जः

समानार्थक:कुब्ज,गडुल,न्युब्ज

2।6।48।1।3

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः। पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुब्ज¦ पु॰ ईषत् उब्जमार्ज्जावं यत्र शक॰।

१ अपामार्गेराजनि॰

२ खड्गे शब्दमा॰। (कुज)

३ हृदयपृष्ठरोगे पु॰
“हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक्। क्रुद्धोवायुर्य्यदा कुर्य्यात् तदा तं कुब्जमादिशेत्” माधवोक्तंतल्लक्षणम्।

४ तद्युक्ते (कुजो) त्रि॰।
“कुब्जा नीचतयैवयान्ति शनकैरात्मेक्षणाशङ्किनः” रत्ना॰। सच राज्ञामन्तःपुरसहायभेदो यथाह सा॰ द॰ तद्वदवरोधे इत्युपक्रमे
“वामनषण्डकिरातम्लेच्छाभीराः शकारकुब्जाद्याः” अवरोधाधिकारिकुब्जलक्षणमुक्तं वृह॰ स॰

६९ अ॰
“पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथसामी। पूर्वोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणुलक्षणैस्तान्”।
“कुब्जो नाम्ना यः स शुद्धो{??}धस्तात्क्षीणः किञ्चित् पूर्ब्बकाये नतश्च। हंसासेवी नास्तिकोऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात् कृतज्ञः। कला-स्वभिज्ञः कलहप्रियश्च प्रभूतभृत्यः प्रमदाजितश्च। सम्पूज्यलोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तः सततोद्यतश्च”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुब्ज¦ mfn. (-ब्जः-ब्जा-ब्जं) Humpbacked, crooked. m. (-ब्जः)
1. A tree, (Achyranthes aspera:) see अपामार्ग।
2. A scymitar.
3. A sort of fish. (Bola cuja, HAM.) E. कु the earth, or कु ill badly, and उब्ज् to be straight, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुब्ज [kubja], a. [कु ईषत् उब्जमार्जवं यत्र शकं˚ Tv.] Humpbacked, crooked. अन्धाः खञ्जाः कुब्जा वामनकाश्च Garbha. Up.3.

ब्जः A curved sword.

A hump on the back.

A sort of fish; Mb.7.56.8. -ब्जा A young female servant of Kaṁsa, said to be deformed in three parts of her body. [Kṛiṣṇa and Balarāma, while proceeding to Mathurā, saw her on the high road carrying unguent to Kaṁsa. They asked her if she would give them some portion of it, and she gave as much as they wanted. Kṛiṣṇa, being very much pleased with her kindness, made her perfectly straight, and she began to appear a most beautiful woman.] -Comp. -किरातः -वामनः a. hump-backed person and a dwarf.-गामिन् a. going crookedly, going astray; बुद्धयः कुब्ज- गामिन्यो भवन्ति महतामपि Pt.2.5. -लीला the manner, gait or character of a hump-backed person; Ś.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुब्ज mf( आ)n. hump-backed , crooked VS. xxx , 10 Shad2vBr. MBh. etc.

कुब्ज m. N. of a person born under certain constellations and being an attendant of the model man हंसVarBr2S.

कुब्ज m. a curved sword L.

कुब्ज m. a sort of fish (Bola Cuja) W.

कुब्ज m. the plant Achyranthes aspera(= अपा-मार्ग) L.

कुब्ज m. ([ cf. न्युब्जand कन्य-कुब्ज; cf. also Lith. kupra , kupotas ; Gk. ? , ? ; Lat. gibbus , gibba , gibber.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--got final release by सत्सङ्ग। भा. XI. १२. 6.

"https://sa.wiktionary.org/w/index.php?title=कुब्ज&oldid=496583" इत्यस्माद् प्रतिप्राप्तम्