कुमारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुमारी, स्त्री, (कुमार + प्रथमवयोवचनत्वात् स्त्रियां ङीष ।) द्वादशवर्षीया कन्या । यथा, -- “अष्टवर्षा मवेद्गौरी दशवर्षा च कन्यका । सम्प्राप्ते द्वादशे वर्षे कुमारीत्यभिधीयते” ॥ इति स्मृतौ भेदः । इह अभेदोपचारात् कन्या कुमारीत्थमरः ॥ इति भरतः ॥ आगमे तु कुमारी- पूजने अजातपुष्पा चेत् तदा षोडशवर्षपर्य्यन्त- वयस्का । तस्या वयोभेदेन नामभेदाः । यथा, -- “एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती । त्रिवर्षा तु त्रिधामूर्त्तिश्चतुर्व्वर्षा तु कालिका ॥ सुभगा पञ्चवर्षा च षड्वर्षा च उमा भवेत् । सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका ॥ नवभिः कालसङ्कर्षा दशभिश्चापराजिता । एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी ॥ त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका । क्षेत्रज्ञा पञ्चदशभिः षोडशे चान्नदा मता ॥ एवं क्रमेण सम्पूज्या यावत् पुष्पं न जायते । पुष्पितापि च सम्पूज्या तत्पुष्पादानकर्म्मणि” ॥ * ॥ तत्पूजाविधिर्यथा । “अथान्यत् साधनं वक्ष्ये महाचीनक्रमोद्भवम् । येनानुष्ठितमात्रेण शीघ्रं देवी प्रसीदति ॥ अष्टम्याञ्च चतुर्द्दश्यां कुह्वां वा रविसंक्रमे । कुमारीपूजनं कुर्य्याद्यथा विभवमात्मनः ॥ वस्त्रालङ्करणाद्यैश्च भक्ष्यैर्भोज्यैः सुविस्तरैः । पञ्चतत्त्वादिभिः सम्यग्देवीबुद्ध्या सुसाधकः” ॥ इत्यन्नदाकल्पः ॥ * ॥ (स्वनामख्याता परीक्षित्- पुत्त्रस्य भीमसेनस्य पत्नी । यथा, -- महाभारते १ । पूरुवंशानुकीर्त्तने ९५ । ४३ ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुमारी स्त्री।

कुमारी

समानार्थक:सहा,कुमारी,तरणि

2।4।73।2।2

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः। सहा कुमारी तरणिरम्लानस्तु महासहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

कुमारी स्त्री।

कन्या

समानार्थक:कन्या,कुमारी

2।6।8।1।2

कन्या कुमारी गौरी तु नग्निकानागतार्तवा। स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥

जन्य : कन्यकासुतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुमारी¦ स्त्री कुमार + प्रयमवयोवचनत्वात् स्त्रियां ङीष्।

१ अनूढकन्यायां वर्षभेदेन तन्नामभेदाः कालसङ्खर्षाशब्देउक्ताः तन्त्रसारे तत्पूजाफलसहितानाममेदा अन्यथाउक्ता यया
“होमादिकन्तु सकलं कुमारीपूजनं विना। [Page2111-b+ 38] परिपूर्णफलं न स्यात् पूजया तत्द्भवेद्धुवम्। कुमारीपु-जया देवि! फल कोटिगुणं भवेत्। पुष्पं कुमार्य्यै यद्दत्तंतन्मेरुसदृशं भवेत्। कुमारी भोजिता येन त्रैलोक्यं तेनभोजितम्”। तत्र कुमारीनिर्णयः जामले
“एकवर्षाभवेत् सन्ध्या द्विवर्षा च सरखती। त्रिवर्षा त्रिविधा मूर्त्ति-श्चतुर्वर्षा च कालिका। सुभगा पञ्चवर्षा तु। षड्वर्षा चउमाभवेत्। सप्तभिर्म्मालिनी साक्षादष्टवर्षा च कुब्जिका। नवभिः कालसङ्कर्षा दशभिश्चापराजिता। एकादशे चरुद्राणी द्वादशाब्दे तु भैरवी। त्रयोदशे महालक्ष्मीद्विसप्ता पीठनायिकाः। क्षेत्रज्ञा पञ्चदशभिः षोडशे चा-म्बिका स्मृता। एबं क्रमेण संपूज्या यावत्पुष्पं नदृश्यते। प्रतिपदादिपूर्णिमान्तं वृद्धिभेदेन पूजयेत्। महापर्व्वसु सर्वेषु विशेषाच्च पवित्रके। महानवम्यांदेकेशि! कुमारीञ्च प्रपूजयेत्।
“कुमारिका ह्यहं नाथ!सदा त्वंहि कुमारिका। अष्टोत्तरशतं वापि एकां वापिप्रपूजयेत्। पूजिताः प्रतिपूज्यन्ते निर्दहन्त्यवमानि-ताः। कुमारी योगिनी साक्षात् कुमारी परदेवता। असुरा दुष्टनागाश्च ये च दुष्टग्रहा अपि। भूतवे-तालगन्धर्व डाकिनीयक्षराक्षसाः। याश्चान्याः देवताः सर्वाभूर्भुवःखःस्थभैरवाः। पृथिव्यादीनि सर्वाणि व्रह्माण्डंसचराचणम्। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः। ते तुष्टा सर्वदेवाश्च यस्तु कन्यां प्रपूजयेत्। विधियुक्तंकुमारीश्च भोजयेच्चैव भैरवीम्। पाद्यमर्घ्यन्तथाधूपं कुङ्गुमञ्चन्दनं शुभम्। भक्तिभावेन संपूज्य कुमारी-भ्योनिवेदयेत्। प्रदक्षिणत्रयं कुर्य्यादादौ मध्ये तथा-न्ततः। पश्चाच्च दक्षिणा देया रजतंखर्णमौक्तिकैः। द-क्षिणाश्च कुमारीभ्योदद्यात् प्रक्रमतस्ततः। विवाहयेद्य-स्तु कन्यां ब्रह्महत्यां विनश्यति। गोहत्या च स्त्रीह-त्या च सर्कपापं प्रणश्यति। यो यच्च पुण्यकाले चकन्यादानं प्रकल्पयेत्। वालुकासागरं ज्ञेयं तावद्वदसहस्रकम्। एकैकं कुलमुद्दिश्य रुद्रलोके महीयते” क-न्यादानन्तु तत्तदेवताप्रीतये इति सम्प्रदायः। वस्तुतस्तुतत्तद्वर्षायाः कन्यायास्तत्तद्देवताबुद्ध्या शिवरूपत्वं सम्पदा-नीये विभाव्य दद्यादिति रहस्मार्थः” कृष्णानन्दः।
“सं प्राप्ते द्वादशे वर्षे कुमारीत्यभिधोबते इति स्मृत्युक्तायां

२ द्वादशवर्षी यकत्यायाम्

३ पार्वत्याम्

४ नवमल्लिकायां

५ नदीभेदे

६ घृतकुमार्य्याम् तत्पर्य्यायगुणादि भावप्रकाशेउक्तं यथा
“कुमारी गृहकन्या च कन्या वृतकुमारिका[Page2112-a+ 38] कुमारी भेदिनी शीता तिक्ता नेत्र्या रसायनी। मधुरावृंहणी बल्या वृष्या वातविषप्रणुत्। गुल्मप्लीहयकृद्-वृद्धिकफज्वरहरी, हरेत्। ग्रन्थ्यग्निदग्धविस्फोट-पलितत्वत्वगामयान्”।

७ अपराजितायां

८ जम्बुद्वीपांशभेदे कुमारिकाखण्डे

९ सहायां मेदि॰।

१० सीतायां हेमच॰

११ बन्ध्याकर्कट्याम्

१२ स्थूलैलायां

१३ मोदिनीपुष्पे।

१४ तरुणीपुष्पे

१५ श्यामा-पक्षिणि राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुमारी f. a young girl , one from ten to twelve years old , maiden , daughter AV. AitBr. etc.

कुमारी f. or (in the तन्त्रs) any virgin up to the age of sixteen or before menstruation has commenced

कुमारी f. N. of certain flags (set up along with इन्द्र's banner) VarBr2S.

कुमारी f. N. of the wife of भीम-सेन(son of परीक्षित्) MBh. i , 3796

कुमारी f. of a daughter of वसु-देवby रोहिणीHariv. 1952

कुमारी f. of सीता( राम's wife) L.

कुमारी f. of the goddess दुर्गाHariv. 9425

कुमारी f. of दाक्षायणी(in माया-पुरी) MatsyaP.

कुमारी f. of a metre (a kind of शक्वरी, consisting of four lines of sixteen syllables each)

कुमारी f. the bird commonly called श्यामाL.

कुमारी f. the plant Aloe perfoliata L.

कुमारी f. the plant Clitoria ternatea(= अ-पराजिता) L.

कुमारी f. the plant Jasminum Sambac L.

कुमारी f. the plant commonly called बन्ध्या-कर्कोटकीL.

कुमारी f. the blossom of the plants तरुणीand मोदिनीL.

कुमारी f. great cardamoms L.

कुमारी f. the most southerly of the nine portions of the known continent or of जम्बू-द्वीप(the southern extremity of the peninsula , whence the modern name Cape Comorin [ कुमारी]) W.

कुमारी f. the central part of the universe (according to Hindu geography , जम्बू-द्वीपor India) L.

कुमारी f. N. of a river flowing from the mountain शुक्तिमत्MBh. Hariv. VP.

कुमारी f. of another river Hcat.

कुमारी f. (when a name is given to a pupil to indicate his attachment to any particular master , कुमारीmay be prefixed to denote that the pupil's object is to gain the affections of the master's daughter e.g. कुमारी-दाक्षSee. s.v. कुमारी)

कुमारी f. of रSee.

कुमारी mfn. desirous of a daughter Pa1n2. 1-4 , 3 Pat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a daughter of ललिता aged nine, and train- ed in military art. Attacked and slew all the sons of भण्ड to the joy of the शक्ति troops; फलकम्:F1:  Br. IV. २६. ७३-117.फलकम्:/F goddess enshrined at माया- पुरी. फलकम्:F2:  M. १३. ३४.फलकम्:/F
(III)--a R. from the शुक्तिमत् hill. Br. II. १६. ३८; M. १६३. ८६.
(IV) (सिद्धा)--a R. of शाकद्वीप. Br. II. १९. ९६; वा. ४५. ८१; ४९. ९२; Vi. II. 4. ६५.
(V)--noted for चन्द्रतीर्थ. वा. ७७. २८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Kumārī^1 : f. (pl.): Name of a tīrtha.

A. Location: Situated in the Pāṇḍya country 3. 86. 11.

B. Description: They are famous for their holiness (kumāryaḥ kathitāḥ puṇyāḥ) 3. 86. 11.

C. Importance: One who bathes in Kokāmukha, visits Caṇḍālikāśrama and observes other vratas gets the merit of having bathed in the Kumārī tīrtha ten times (?) (kumārīr vindate daśa) 13. 26. 49. [See Kumārikāṇāṁ tīrtham ]

_______________________________
*1st word in right half of page p312_mci (+offset) in original book.

Kumārī^2 : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 34, 13; all these rivers are said to be mothers of the universe and very strong (for citation see Atikṛṣṇā ) 6. 10. 35.

_______________________________
*2nd word in right half of page p312_mci (+offset) in original book.

Kumārī^3 : f.: Name of a river.

One of the rivers of the Śākadvīpa; water of these rivers is holy (nadyaḥ puṇyajalās tatra) 6. 12, 30, 29, 26.

_______________________________
*3rd word in right half of page p312_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=कुमारी&oldid=496602" इत्यस्माद् प्रतिप्राप्तम्