कुम्भकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भकारः, पुं, (कुम्भं करोति । कुम्भ + कृ + “कर्म्म- ण्यण्” । ३ । २ । १ । इति अण् ।) जातिविशेषः । कुमोर इति भाषा । स तु शूद्रागर्भे विश्वकर्म्मऐर- साज्जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ तत्पर्य्यायः । कुलालः २ । इत्यमरः । २ । १० । ६ ॥ चक्री ३ । इति जटाधरः ॥ (एतज्जातिविषये तु पुराण- भेदेन मतभेदो दृश्यते । यथा । “वैश्यायां विप्रतश्चौरात् कुम्भकारः स उच्यते” ॥ “मालाकाराच्चर्म्मकार्य्यां कुम्भकारो व्यजायत” ॥ “पट्टीकाराच्च तैलिक्यां कुम्भकारो बभूव ह” ॥ इत्यादि बहुलमतमस्ति बाहुल्यभिया नास्माभि- रुद्ध्रियते ॥) कुक्कुभपक्षी । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भकार पुं।

कुम्भकारः

समानार्थक:कुम्भकार,कुलाल

2।10।6।1।1

कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः। तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः॥

वृत्ति : घटः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भकार¦ पुंस्त्री कुम्भं करोति कृ--अण् उप॰ स॰। (कुमार)

१ जातिभेदे अमरः। सा च जातिः
“वैश्यायांविप्रतश्चौरात् कुम्भकारः सौच्यते” उसनसोक्ताब्रह्मवैवर्त्तेतु
“मालाकारात् चर्म्मकार्य्यां कुम्भकारोव्यजा-यत” इति
“पट्टिकाराच्च तैलिक्यां कुम्भकारो बभूवह” इति पुराणान्तरं तेन उत्तमाधमवर्ण्णसङ्करत्वात् जातिभेदस्तु देशभेदेन व्यवस्थाप्यः। जातित्वात् स्त्रियां ङीष्।

२ कुम्भकारके त्रि॰ स्त्रियां टाप् सि॰ कौ॰ मुग्धबोधमतेततोऽपि ईप् तन्मते षण्प्रत्ययविधानात्।
“यत् कुम्भका-रपयनोपरिपङ्कलेपस्तापाय केबलमहो न च तापशान्त्यै” उद्भटः

३ कुक्कुभविहगे पुंस्त्री॰ हेम॰ स्त्रियां ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भकार/ कुम्भ--कार m. a potter (being according to some authorities the son of a Brahman by a wife of the क्षत्रियcaste) Ya1jn5. iii , 146 MBh. etc.

कुम्भकार/ कुम्भ--कार m. a serpent L.

कुम्भकार/ कुम्भ--कार m. a wild fowl (Phasianus gallus) L.

"https://sa.wiktionary.org/w/index.php?title=कुम्भकार&oldid=496621" इत्यस्माद् प्रतिप्राप्तम्