कुम्भिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिका, स्त्री, (कु कुस्तितरूपेण उम्भति पूरयति आ- च्छादयति वारि पुष्करिण्यादेः । शकन्ध्वादित्वात् साधुः ।) जलजतृणविशेषः । पाना इति भाषा । तत्पर्य्यायः । वारिपर्णी २ । इत्यमरः । १ । १० । ३८ ॥ श्वेतपर्णा ३ अशकुम्भी ४ पानीयपृष्ठजः ५ । इति रत्नमाला ॥ आकाशमूली ६ कुतृणम् ७ जलव- ल्कलम् ८ । इति हारावली ॥ वारिमूली ९ खमू- लिका १० पर्णी ११ पृश्नी १२ खमूली १३ खमूलिः १४ वारिकणिका १५ । इति शब्दरत्नावली ॥ कुमुदा १६ दलाढकः १७ । इति जटाधरः ॥ अस्य गुणाः वारिपर्णोशब्दे द्रष्टव्याः । पाटलावृक्षः । द्रोणपुष्पी । इति राजनिर्घण्टः ॥ नेत्ररोगविशेषः । तस्यं लक्षणं यथा, -- “वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्रवन्ति च । कुम्भीकवीजसदृशाः कुम्भिकाः सन्निपातजाः” ॥ इति माधवकरः ॥ (कुम्भा + स्वार्थे कन् टाप् इत्वञ्च । वेश्या । इति शब्दमाला । कट्फलम् । भावप्रकाशे अस्याः पर्य्यायाः यथा, -- “कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च । श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च” ॥ गुणाश्चास्याः कट्फलशब्दे बोद्धव्याः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिका स्त्री।

जलकुम्भिका

समानार्थक:वारिपर्णी,कुम्भिका

1।10।38।1।3

शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका। जलनीली तु शेवालं शैवलोऽथ कुमुद्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिका¦ स्त्री कुम्भस्तदाकारोऽस्त्यस्याः ठन्। (पाना) जलो[Page2119-a+ 38] रेजाते तृणभेदे अमरः। तत्पर्य्यायादि भावप्र॰ उक्तं यथा
“वारिपर्णी कुम्मिका स्याच्छैवालं शैवलञ्च तत्। वारि-पर्णो हिमा निक्ता लघ्वी स्वाद्वी सरा कटुः। दोशत्र-यहरी रूक्षा शोणितं ज्वरशोषहृत्”।

२ पाटलावृक्षे

३ द्रोणपुष्प्याञ्च राजनि॰।
“वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्ववन्ति च। कुम्भिकावीजसदृशाकुम्भिकाः सन्निपातजाः” माधवोक्ते

४ नेत्रवर्त्मस्थरोगभेदेसुश्रुते दीर्घमध्यत्वेनायं पठितः यथा
“पृथग्दोषाः सम-स्ताश्च यदा वर्त्मव्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्ते व-र्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्य मांसं रक्तञ्च तदा वर्त्म-व्यपाश्रयान्। विकारान् जयन्त्याशु नामतस्तान्निबोधत। उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा” इत्युप-क्रम्य कुम्भीकवीजप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः। आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः”। तेन माधवग्रन्थे दीर्घमध्यपाठः समुचितः। कुम्भीकपिडकेत्यत्र पुंवद्भावआर्षः। कुम्भा--स्वार्थे क।

५ वेश्या-याम् शब्दमाला

६ कट्फले भावप्र॰ कट्फलशब्दे तद्वाक्यादि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिका¦ f. (-का)
1. An aquatic plant, (Pistia stratiotes.)
2. Trumpet flower.
3. A disease of the eyes, hordeolum or stye. E. कुम्भी as above, and कन् affix, in the fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिका [kumbhikā], 1 A small pot; गृहीत्वा जलकुम्भिकाम् Ks.6. 41.

A harlot.

A disease of the eyes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिका f. a small pot or pitcher Katha1s. vi , 41

कुम्भिका f. the plant Myrica sapida Bhpr.

कुम्भिका f. the plant Pistia Stratiotes L.

कुम्भिका f. Bignonia suaveolens L.

कुम्भिका f. a small shrub(= द्रोणपुष्पी) L.

कुम्भिका f. a disease of the eyes(= कुम्भीका)

कुम्भिका f. N. of one of the mothers in स्कन्द's retinue MBh. ix , 2633.

"https://sa.wiktionary.org/w/index.php?title=कुम्भिका&oldid=496639" इत्यस्माद् प्रतिप्राप्तम्