सामग्री पर जाएँ

कुम्भिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भिका, स्त्री, (कु कुस्तितरूपेण उम्भति पूरयति आ- च्छादयति वारि पुष्करिण्यादेः । शकन्ध्वादित्वात् साधुः ।) जलजतृणविशेषः । पाना इति भाषा । तत्पर्य्यायः । वारिपर्णी २ । इत्यमरः । १ । १० । ३८ ॥ श्वेतपर्णा ३ अशकुम्भी ४ पानीयपृष्ठजः ५ । इति रत्नमाला ॥ आकाशमूली ६ कुतृणम् ७ जलव- ल्कलम् ८ । इति हारावली ॥ वारिमूली ९ खमू- लिका १० पर्णी ११ पृश्नी १२ खमूली १३ खमूलिः १४ वारिकणिका १५ । इति शब्दरत्नावली ॥ कुमुदा १६ दलाढकः १७ । इति जटाधरः ॥ अस्य गुणाः वारिपर्णोशब्दे द्रष्टव्याः । पाटलावृक्षः । द्रोणपुष्पी । इति राजनिर्घण्टः ॥ नेत्ररोगविशेषः । तस्यं लक्षणं यथा, -- “वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्रवन्ति च । कुम्भीकवीजसदृशाः कुम्भिकाः सन्निपातजाः” ॥ इति माधवकरः ॥ (कुम्भा + स्वार्थे कन् टाप् इत्वञ्च । वेश्या । इति शब्दमाला । कट्फलम् । भावप्रकाशे अस्याः पर्य्यायाः यथा, -- “कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च । श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च” ॥ गुणाश्चास्याः कट्फलशब्दे बोद्धव्याः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भिका स्त्री।

जलकुम्भिका

समानार्थक:वारिपर्णी,कुम्भिका

1।10।38।1।3

शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका। जलनीली तु शेवालं शैवलोऽथ कुमुद्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भिका¦ स्त्री कुम्भस्तदाकारोऽस्त्यस्याः ठन्। (पाना) जलो[Page2119-a+ 38] रेजाते तृणभेदे अमरः। तत्पर्य्यायादि भावप्र॰ उक्तं यथा
“वारिपर्णी कुम्मिका स्याच्छैवालं शैवलञ्च तत्। वारि-पर्णो हिमा निक्ता लघ्वी स्वाद्वी सरा कटुः। दोशत्र-यहरी रूक्षा शोणितं ज्वरशोषहृत्”।

२ पाटलावृक्षे

३ द्रोणपुष्प्याञ्च राजनि॰।
“वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्ववन्ति च। कुम्भिकावीजसदृशाकुम्भिकाः सन्निपातजाः” माधवोक्ते

४ नेत्रवर्त्मस्थरोगभेदेसुश्रुते दीर्घमध्यत्वेनायं पठितः यथा
“पृथग्दोषाः सम-स्ताश्च यदा वर्त्मव्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्ते व-र्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्य मांसं रक्तञ्च तदा वर्त्म-व्यपाश्रयान्। विकारान् जयन्त्याशु नामतस्तान्निबोधत। उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा” इत्युप-क्रम्य कुम्भीकवीजप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः। आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः”। तेन माधवग्रन्थे दीर्घमध्यपाठः समुचितः। कुम्भीकपिडकेत्यत्र पुंवद्भावआर्षः। कुम्भा--स्वार्थे क।

५ वेश्या-याम् शब्दमाला

६ कट्फले भावप्र॰ कट्फलशब्दे तद्वाक्यादि

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भिका¦ f. (-का)
1. An aquatic plant, (Pistia stratiotes.)
2. Trumpet flower.
3. A disease of the eyes, hordeolum or stye. E. कुम्भी as above, and कन् affix, in the fem. form.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भिका [kumbhikā], 1 A small pot; गृहीत्वा जलकुम्भिकाम् Ks.6. 41.

A harlot.

A disease of the eyes.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भिका f. a small pot or pitcher Katha1s. vi , 41

कुम्भिका f. the plant Myrica sapida Bhpr.

कुम्भिका f. the plant Pistia Stratiotes L.

कुम्भिका f. Bignonia suaveolens L.

कुम्भिका f. a small shrub(= द्रोणपुष्पी) L.

कुम्भिका f. a disease of the eyes(= कुम्भीका)

कुम्भिका f. N. of one of the mothers in स्कन्द's retinue MBh. ix , 2633.

"https://sa.wiktionary.org/w/index.php?title=कुम्भिका&oldid=496639" इत्यस्माद् प्रतिप्राप्तम्