कुम्भीनस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुम्भीनसः, पुं, (कुम्भीव नसा नासा यस्य ।) क्रूरसर्पः । इति मेदिनी ॥ (वायुप्रकृतिकविषकीटविशेषः । यथा । “कुम्भीनसस्तुण्डिकेरी” ॥ इति सुश्रुते कल्प- स्थाने ८ अध्याये उक्तम् ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुम्भीनस पुं।
सर्पः
समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल
1।8।8।4।1
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः। उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा। कुम्भीनसः फणधरो हरिर्भोगधरस्तथा। अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।
अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः
वृत्तिवान् : सर्पग्राहिः
: सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुम्भीनस¦ पु॰ कुम्भीव नसा नासायस्या।
१ क्रूर सर्पे मेदि॰
२ रावणमातृष्वस्रेय्यां लवणासुरजनन्यां स्त्री ङीष्। तदुत्पत्तेःतस्या मधुदैत्येन हरणस्य च कथा रामा॰ उत्तर॰ का॰
२५ अ॰
“विभीषणस्तु संक्रद्धो भ्रातरं वाक्यमब्रवीत्। श्रूयतामस्यपापस्य कर्म्मणः फलमागतम्। मातामहस्य योऽस्माकंज्येष्ठोभ्राता सुमालिनः। माल्यवानिति विख्यातोवृद्धः प्रा-ज्ञोनिशाचरः। पितृज्येष्ठो जनन्या नोह्यस्माकं चार्यकोऽभवत्। तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत्। मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा। भवत्यस्माक-मेवैषा भ्रातॄणां धर्मतःस्वसा। सा हृता मधुना राजन्नसुरेणबलीयसा। यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते। कुम्भकर्णे महाराज! निद्रामनुभवत्यथ। निहत्य राक्ष-सश्रेष्ठानमात्यानिह संमतान्। धर्षयित्वा हृता राजन्!गुप्ताप्यन्तः पुरे तव। श्रुत्वापि तन्महाराज! क्षान्तमेव हतो-न सः। यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः। तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मतेः। अस्मिन्नेवाभिसं-प्राप्तं लोके विदितमस्तु ते। विभीषणवचः श्रुत्वा राक्षसेन्द्रःस रावणः। दौरात्म्येनात्मनोद्धूतस्तप्ताम्भा इव सा-गरः। ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः। क-ल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तुनः। भ्राता मेकुम्भकर्णश्च ये च मुख्या निशाचराः। वाहनान्यधिरो-हन्तु नानाप्रहरणायुधाः। अद्य तं समरे हत्वा मधुंरावणनिर्भयम्। सुरलोकं गमिष्यामि युद्धाकाङ्क्षीसुहृद्वृतः। अक्षोहिणीसहस्राणि चत्वार्यग्य्राणि रक्षसा-म्। नानापहरणान्थाशु निर्ययुर्युद्धकाङ्क्षिणाम्। इन्द्रजित्त्वग्रतः सैन्यात्सैनिकान् परिगृह्य च। जगाम रावणोमध्ये कुम्भकर्णश्व पृष्ठतः। विभीषणश्च धर्म्मात्मा लङ्कायांधर्म्ममाचरत्। शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति। खरैरुष्ट्रैर्हयैर्दृप्तैः शिशुमारैर्महोरगैः। राक्षसाःप्रययुः सर्वे कृत्वा काशं निरन्तरम्। दैत्याश्च शतशस्तत्रकृतवैराश्च दैवतै। रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन् हिपृष्ठतः। स तु गत्वा मधुपुरं प्रविश्य च दशाननः। न द-दर्श मधुं तत्र भगिनीं तत्र दृष्टवान्। सा च प्रह्वाञ्जलिर्भू-त्वा शिरसा चरणौ गता। तस्य राक्षसराजस्य त्रस्ता[Page2120-b+ 38] कुम्भीनसो तदा। तां समुत्थापयामास न भेतव्यमितिब्रुवन्। रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते। साऽब्रवीद्यदि मे राजन्! प्रसन्नस्त्वं महाभुज!। भर्तारंन ममेहाद्य हन्तुमर्हसि मानद!। नहीदृशं भय किंचित्कुलस्त्रीणामिहोच्यते। भयानामपि सर्वेषां वैधव्यंव्यसनं महत्। सत्यवाग्भव राजेन्द्र! मामवेक्षस्व या-चतीम्। त्वयाप्युक्त
“महाराज! न भेतव्यमिति स्वयम्। रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्। क्व चासौतव भर्त्ता वै मम शीघ्रं नितेव्यताम्। सह तेन गमि-ष्यामि सुरलोकं जयाय हि। तव कारुण्यसौहार्दान्नि-वृत्तोऽस्मि मधोर्बधात्” तस्याः पतिपुत्रयोश्चरितवर्णनं रामा॰ उत्त॰
६१ अ॰ यथा
“पूर्वं कृतयुगे राजन्दैतेयःसुमहामतिः। लोलापुत्रोऽभव-ज्ज्येष्ठो मधुर्नाम महासुरः। ब्रह्मण्यश्च शररण्यश्चबुद्ध्या च परिनिष्ठितः। सुरैश्च परमोदारैः प्रीतिस्तस्याऽतु-लाऽभवत्। स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः। बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतोवरः। शूलं शूलाद्वि-निष्कृष्य महावीर्य्यं महाप्रभम्। ददौ महात्मा सुप्रीतोवाक्यंचैतदुवाच ह। त्वयाऽयमतुलो धर्मोमत्प्रसाद-करः श्रुभः। प्रीत्या परमया युक्तोददाम्यायुधमुत्तमम्। यावत् सुरैश्च विप्रैश्च न विरुध्येर्महासुर!। तावच्छूलंतवेदं स्यादन्यथा नाशमेष्यति। यश्च त्वामभियुञ्जीतयुद्धाय विगतज्वरः। तं शूलोभस्मसात्कृत्वा पुनरेष्यतिते करम्। एवं रुद्राद्वरं लब्ध्वा भूयएव महासुरः। प्रणिपत्य महादेवं वाक्यमेतदुवाच ह। भगवन्! ममवंशस्य शूलमेतदनुत्तमम्। भवेत्तु सततं देव। सुराणा-मीश्वरोह्यसि। तं ब्रुवाणं मधु देवः सर्वभूतपतिःशिवः। प्रत्युवाच महादेवोनैतदेवं भविष्यति। मा भू-त्ते विफला वाणी मत्प्रसादकृता शुभा। भवतः पुत्रमेकंतु शूलमेतद् गमिष्यति। यावत् करस्थः शूलोऽयं भविष्यतिसुतस्य ते। अबध्यः सर्वभूतानां शूलहस्तो भविष्यति। एवं मधुर्वरं लब्ध्वा देवात् सुमहदद्भुतम्। भवनंसोऽसुरश्रेष्ठः कारयामास सुप्रभम्। तस्य पत्नी महाभा-गा प्रिया कुम्मीनसीति या। विश्वावसोरपत्यं साप्यनलायां महाप्रभा। तस्याः पुत्रो महावीर्योलवणोनामदारुणः। बाल्यात् प्रभृति दुष्टात्मा पापान्येव समाचरत्। तं पूत्रं दुर्विनीतं तु दृष्ट्वा कोधसमन्वितः। मधुःस शोकमापेदे न चैनं किञ्चिदब्रवात्। संविहाय इमं लोकं प्रवि-[Page2121-a+ 38] ष्टोवरुणालयम्। शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्। स प्रभावेण शूलस्य दौरात्म्ये नात्मनस्तथा। सन्तापयतिलोकास्त्रीन्विशेषेण च तापसान्”। सचासुरः शत्रुघ्नेनहतः तत्कथा रामा॰ उत्त॰।
६३ अ॰। स (शत्रुत्नः) मुमो-च महावाणं लवणस्य महोरसि। उरस्तस्य विदार्य्याशुप्रविवेश रसातलम्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुम्भीनस¦ m. (-सः) A large, and venomous snake. f. (-सी) The mother of LAVANA, a Rakshasa or fiend. E. कुम्भी a pitcher, and नस derived from नासा the nose; having wide nostrils.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुम्भीनस/ कुम्भी--नस m. " jar-nosed " , a kind of large venomous snake TS. v , 5 , 14 , 1
कुम्भीनस/ कुम्भी--नस m. a kind of venomous insect Sus3r.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
KUMBHĪNASA : An asura and a notorious philanderer. (Anuśāsana Parva, Chapter 39, Verse 7).
_______________________________
*1st word in right half of page 440 (+offset) in original book.