सामग्री पर जाएँ

कुलिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलिकः, त्रि, (कुलं अधीनतया प्रशस्ततया वा अ- स्त्यस्य । इति ठन् ।) शिल्पिकुलप्रधानः । इत्य- मरः । २ । १० । ५ ॥ कुलसत्तमः इति मेदिनी ॥

कुलिकः, पुं, अष्टमहानागान्तर्गतनागविशेषः । (यथा, भागवते । ५ । २४ । ३१ । “ततोऽधस्तात् पाताले नागलोकपतयो वासुकि- प्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्र- शङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति” ॥ अम्य रूपमप्युक्तं हेमाद्रौ यथा । “कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः” ॥) वृक्षविशेषः । इति मेदिनी ॥ केलेकडा इति भाषा ॥ लिकषेला, स्त्री, रव्यादिवारेषु शुभकर्म्मषु निषिद्ध- कालविशेषः । यथा । रवौ सप्तमयामार्द्धम् सोमे षष्ठयामार्द्धम् । मङ्गले पञ्चमयामार्द्धम् । बुधे चतुर्थयामार्द्धम् । गुरौ तृतीययामार्द्धम् । शुक्रे द्वितीययामार्द्धम् । शनौ प्रथमयामार्द्धम् । राघवभट्टमते तु पूर्ब्बोक्तयामार्द्धानां दिवाशेष- भागः । रात्रौ प्रथमभागः । इति ज्योतिषतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलिक¦ त्रि॰ कुलमधीनत्वेन प्राशस्त्येन वास्त्यस्य ठन्।

१ कुल-श्रेष्ठे मेदि॰

२ शिल्पिकुल, प्रधाने अमरः। (कुलेखाडा) इतिप्रसिद्धे

३ शाकभेदे पु॰ मेदि॰ महानागान्तर्गते

४ नागभेदेपु॰
“शेषः पद्मो महापाद्मः कुलिकः शङ्खपालकः। वासु-किस्तक्षकश्चैव बालियोमणिभद्रकः। ऐवावतो धृतराष्ट्रः[Page2138-a+ 38] कर्कोटकधनञ्जयौ” तिथित॰ पु॰
“ततोऽधस्तात् पातालेनागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो म-हाभोगिनो महामर्षा निवसन्ति” भाग॰

५ ।

२४ ।

३ ।
“कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः” हेमा॰ तद्रू-पमुक्तम्। तन्त्रे तु तस्य पाटलतोक्ता। उग्रताराशब्दे

१०

५६ पृ॰ तद्वाक्यमुक्तम्H
“भुजेषु नागः कुलिकोऽङ्गदोमतः”। तस्य उग्रतारा-ङ्गदभूषणत्वमुक्तम्। रव्यादिवारेषु दिवारात्र्योः

५ दुष्टमु॰हूर्त्तभेदे यथाह मुहु॰ चि॰
“शक्रार्कदिग्वसुरसाब्ध्यश्विन्यः कुलिका रवेः। रात्रौ नि-रेकास्तिथ्यंशाः शनौ चान्त्योऽपि निन्दितःः”। रविमा-रभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथ्यं शामुहूर्त्ताः कुंलिकाःस्युः। यथा रवौ दिने

१४ , मुहूर्त्तः चन्द्रे

१२ , मङ्गले

१० , बुधे

८ , गुरौ

६ , शुक्रे

४ , शनौ

२ कुलिकः रात्रावेतेनिरेकाः कार्य्याः। यथा रवौ

१३ , चन्द्रे

११ , भौमे

९ , बुधे

७ , गुरौ

५ , शुक्रे

३ , शनौ

१ , शनौ तु अन्त्यः पञ्चदशदशमु-हूर्त्तो{??}पि कुलिकः। एते निन्दिताः। अस्यापवादमाह गुरुः
“वारेशे सबले चापि बलाट्ये लग्नगे शुभे। कुलिकोद्भव-दोषस्तु विनश्यति न संशयः। शुभे केन्द्रगते चन्द्रे शुभांशेवा शुभेक्षिते। लग्नगे सबले वापि कलिकस्तु विलीयते” अन्यत्र दोषमाह वशिष्ठः
“निधनं प्रहरार्द्धे तु निःस्वत्वंयमवण्टके। कुलिके सर्वनाशः स्यात् रात्रायेते न दोषदाः” रात्रावेते न दोषदा इत्यस्यापवादो रत्नकोषे
“तमस्विनी-गन्धमुपेत्य वारदोषास्तथा शक्तिमनाप्नुवन्तः। अल्वं स-मासाद्य विलासिनीनां कटाक्षवाणाइव निष्फलाः स्युः” नवारदोषाः प्रभवन्ति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम्। दिवा शशाङ्कार्कजभूसुतानां सर्व्वत्र निन्द्यो बुध॰वारदोषः”। शुभकृत्यानामावश्यकत्वे देशभेदेनापवा-दमाह गर्गः।
“विन्धस्योत्तरकूले तु यावदातुहिनाच-लम्। यमघण्टकदोपोऽस्ति नान्यदेशेषु विद्यते। मत्स्या-ङ्गमगधान्ध्रेषु यमवण्टस्तु दोषकृत्। काश्मीरे कुलिकंदुष्टमर्द्धयामस्तु सर्व्वतः”। कुलिकस्य विशेषप्रयोजनन्तु
“जपित्वा सितगुञ्जानां कुडकं कुलिकोदये” शारदायाम्नवदुर्गाभिचारकर्म्माङ्गतयोक्तम्। तट्टीकायां राघवभट्टेनच
“मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्त्तैः कुलिका भव-न्ति। दिवा निरेकैरथ यामिनीषु ते गर्हिताः कर्म्मसु{??}भनेषु” इत्युक्तम् निरेकैः पूर्व्वोक्तमन्वादिमुहूर्त्तैरे-[Page2138-b+ 38] कोनैरित्यर्थः”
“न्यूनाधिमासकुलिकप्रहरार्द्धपातविष्कु-म्भवज्रघटिकात्रयमेव वर्ज्यम्” मुहु॰ चि॰ तस्य सर्व-कर्म्मणि वर्ज्जनीयतामाह

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलिक¦ mfn. (-कः-का-कं) Of a good family, well-born. m. (-कः) One of the eight chiefs of the Nagas or serpent race, described as having a half moon on the top of his head, and being of a monkey hue.
2. An artist or artificer of eminent birth.
3. A thorny plant, (Ruellia longifolia)
4. The chief or headman of a tribe or caste. E. कुल family, &c. कन् affix, and इ substituted for अ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलिक [kulika], a. Of a good family, well-born.

कः A kinsman; Y.2.233.

The chief or head of a guild.

An artist of high birth.

A hunter; कुलिकरुतमि- वाज्ञाः कृष्णवध्वो हरिण्यः Bhāg.1.47.19. -Comp. -वेला certain portions of time on each day on which it is improper to begin any good business.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलिक mfn. of good family W.

कुलिक m. a kinsman Ya1jn5. ii , 233

कुलिक m. the chief or head man of a guild L.

कुलिक m. any artisan of eminent birth L.

कुलिक m. a hunter BhP. x , 47 , 19

कुलिक m. a thorny plant (Ruellia longifolia or Asteracantha longifolia) L.

कुलिक m. (= कुलवार)Tuesday or Friday

कुलिक m. one of the eight chiefs of the नागs or serpent-race (described as having a half-moon on the top of his head and being of a dusky-brown colour) MBh. i , 2549 BhP. Ra1matUp.

कुलिक m. N. of a prince VP.

कुलिक m. a kind of poison Gal.

कुलिक See. कुल.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a chief नाग of पाताल. भा. V. २४. ३१.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Kulika : m.: A mythical serpent.

Son of Kadrū, daughter of Dakṣa; listed among the Kādraveyas by Vaiśaṁpāyana at the request of Janamejaya 1. 59. 40, 13.

_______________________________
*8th word in left half of page p13_mci (+offset) in original book.

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=कुलिक&oldid=496783" इत्यस्माद् प्रतिप्राप्तम्