कुशासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशासन¦ न॰ कुशैर्निर्म्मितमासनम्। कुशनिर्म्मिते आसने
“कुशासनमनन्तरम्” श्राद्धक्रमः। तत्स्वरूपादि श्रा॰ त॰
“अथ कुशासनम् तत्र गोभिलः
“पित्र्ये द्विगुणांस्तुदर्भान् पवित्रपाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पङ्क्तिमूर्द्ध-न्यं पृच्छति सर्वान् वा सर्वत्रासनेषु दर्व्भानास्तीर्य्येति” पित्र्ये पित्रर्थदाने तत्रादौ जलगण्डूषप्रक्षेपः। ततोद्विगुणभुग्नकुशपत्रत्रयं पितॄणामासनार्थं दद्यात् एतच्च आदौविश्वदेवपक्षे कृत्वा पितृपक्षे कर्त्तव्यं तथा च याज्ञवल्क्यः
“पाणिप्रक्षालनं दत्त्वा उषन्तस्त्वेत्यृचा पितॄन्”। प्रक्षाल्यतेऽनेनेति प्रक्षालनं जलं तेन तूष्णीं ब्राह्मण-पाणौ जलंदत्त्वा विष्टरार्थमासनार्थमिति दीपक-लिका। कुशान् ऋजून दद्यात्। व्यक्तमाहाश्वलायनः
“अपः प्रदाय दर्भान् द्विगुणभुग्नानासनं प्रदाय” इतिआसनमित्यनेनोपवेशनीयत्वप्रतीते र्हस्तं तददानं प्रती-यते। तथाच कार्ष्णाजिनिः
“दर्भांश्चैवासने दद्यान्न तुपाणौ कदा चन। पितृदेवमनुष्याणामेवं तृप्तिर्हिशाश्वती”। अत्र पितृदेवमनुष्येभ्योऽपि कुशासनदानं प्रतीयते। अत्र दैविकत्वेन कुशानां ऋजुत्वमिति विशेषः। देवपितृविप्रवोर्दक्षिणवामयोः कुशासनस्यापनमाह श्राद्धसूत्रभाष्यधृतवचनम्।
“पितॄणामासनं दद्याद्वाम-पार्श्वे कुशान् सुधीः। दक्षिणे चैव देवानां सर्वत्र श्राद्ध-कर्म्मसु”। कोः पृथिव्या

२ शासने च। अब्राह्मणोऽपिकुशासनसहितः”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशासन¦ n. (-नं) A seat of Kusa grass. E. कुश, and आसन a seat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशासन/ कु--शासन n. a bad doctrine , heterodoxy.

कुशासन/ कुशा n. a small mat of sacred grass (on which a Brahman sits when performing his devotion)

कुशासन/ कुशा n. for 2.See. 1. कु( कु-शासन). 1.

"https://sa.wiktionary.org/w/index.php?title=कुशासन&oldid=496863" इत्यस्माद् प्रतिप्राप्तम्