कुष्माण्ड

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्माण्डः, पुं स्त्री, शिवस्य गणदेवताभेदः । (यथा, विष्णुपुराणे । १ । १२ । १३ । “कुष्माण्डा विविधै रूपैः सहेन्द्रेण महामुने ! । समाधिभङ्गमत्यन्तं आरब्धाः कर्त्तुमातुराः” ॥) भ्रूणविशेषः इति मेदिनी ॥ (कुष्माण्डाकारत्वात् शिवगणभ्रूणयोस्तथात्वम् ॥ कु ईषत् उष्मा अण्डेषु वीजेषु यस्य ।) वृहत्फललताविशेषः । कुम्डा इति कोहडा इति च भाषा । तत्प- र्य्यायः । धृणावासः २ तिमिषः ३ ग्राम्यकर्कटी ४ । इति त्रिकाण्डशेषः ॥ कुष्माण्डकः ५ कर्कारुः ६ । इत्यमरः ॥ पुष्पफलः ७ । इति रत्नमाला ॥ कुष्माण्डी ८ कर्कोटिका ९ कुम्भाण्डी १० वृहत्फला ११ सुफला १२ कुञ्चफला १३ नागपुष्पफला १४ शुनी १५ कूष्माण्डः १६ शिखिवर्द्धकः १७ । इति शब्दरत्नावली ॥ कूष्माण्डकः १८ । इत्यमरटीका ॥ अपि च । “कुष्माण्डं स्यात् पुष्पफलं पीतपुष्पं वृहत्फलम् । कुष्माण्डं वृंहणं वृष्यं गुरुपित्तास्रवातनुत् ॥ बालं पित्तापहं शीतं मध्यमं कफकारकम् । वृद्धं नातिहिमं स्वादु सक्षारं दीपनं लघु ॥ वस्तिशुद्धिकरं चेतोरोगहृत् सर्व्वदोषजित्” ॥ * ॥ अथ कोहण्डी । “कुष्माण्डी तु भृशं लघ्वी कर्क्कारुरपि कीर्त्तिता । कर्क्कारुर्ग्राहिणी शीता रक्तपित्तहरा गुरुः । पक्वा तिक्ताग्निजननी सक्षारा कफवातनुत्” ॥ इति भावप्रकाशः ॥ अस्य फलगुणाः । मूत्राघात- प्रमेहकृच्छ्राश्मरीनाशित्वम् । विण्मूत्रग्लपनत्वम् । तृष्णार्त्तिशमनत्वम् । जीर्णाङ्गपुष्टिप्रदत्वम् । शुक्र- वृद्धिकारित्वम् । स्वादुतरत्वम् । अरोचकहरत्वम् । बलकारित्वम् । पित्तापहत्वम् । वल्लीफलानां मध्ये प्रवरत्वञ्च । इति राजनिर्घण्टः ॥ तस्य बालफल- गुणः । पित्तहरत्वम् । मध्यमफलगुणौ । कफ- कारित्वम् । अतिगुरुपाकित्वम् ॥ पक्वफलगुणाः । लघुपाकित्वम् । उष्णत्वम् । क्षाररसत्वम् । अग्नि- दीपनत्वम् । वस्तिशोधनत्वम् । सर्व्वदोषनाशि- त्वम् । हृद्यत्वम् । चित्तविकारिणः पथ्यत्वञ्च ॥ अस्य नाडिकागुणाः । क्षाररसत्वम् । मधुरत्वम् । गुरुत्वम् । रूक्षत्वम् । रुचिकारित्वम् । वायुकफा- श्मरीशर्करारोगनाशित्वञ्च ॥ अस्य मज्जगुणाः । शुक्रकारित्वम् । पित्तनाशित्वम् । वस्तिशोधन- त्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्माण्ड¦ पु॰ ईषत् उष्मा पित्तहेतुत्वात् अण्डेषु वीजेषु यस्यशक॰ (कुमडा) ख्याते

१ वृक्षे,

२ शिवस्य पारिषदभेदे चतस्य कुष्माण्डाकृतित्वात्तथात्वम् जातित्वात् स्त्रियाङीप् कुष्माण्डीत्यप्यत्र

३ लताभेदे स्त्री भावप्र॰ ऋग्वेदादिप्रसिद्धेषु

४ ऋग्विशेषेषु स्त्री

५ यद्देवा देवहेडनमित्यपदि-मन्त्रपञ्चकात्मकेऽनुवाके पु॰
“मृतस्व टशरात्रेण प्रायश्चि-त्तानि दापयेत्। साधितां रेवतीमिष्टि कुष्माण्डमघ-मर्षणम्” भा॰ आतु॰

१३

६ अ॰ व्याख्याने नीलकण्ठः। यद्देवा इत्याद्यनुवाकश्च यजु॰

२० ।

१४ ।

१७ ॥ यथा
“यद्देवा देवहेडमं देवासश्चकृमा वयम्। अग्निर्मा तस्मा-देनसो विश्वान्मुञ्चत्वंहसः” यजु॰

२० ।

१४ । यदि दिवा यदि नक्तमेनांसि चकृना वयम्। वायु-र्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः”

१५ । यदि जाग्र-द्यदि स्वप्न एनांसि चकृमा वयम्। सूर्य्योमा तस्मादेन-सोविश्वान्मुञ्चत्वंहसः”

१६ । यद्ग्रामे यदरण्ये यत्-संभायां यदिन्द्रिये। यच्छद्रे यदर्य्ये यदेनश्चकृमा व-यम्। यदेकस्याधिधर्म्मणि तस्यावथजनमसि”

१७ । यदापो अव्न्या इति वरुणोनोमुञ्चत्व हसः”

१७ ॥
“इतिसार्द्धचतुष्ठयमन्त्रात्मकोऽनुवाकः तत्राद्यास्त्रिस्रः कुष्माण्डी-संज्ञा ययाह वेददी॰
“इत उत्तरमयभृथः मासरकुम्भंप्नावयति यद्देवा इति” का॰

१ ।

५ ।

१३ । अवमृथेष्टि कृत्वायद्देवा इत्यादिना वरुणो मो मुञ्चत्वित्यन्तेन सार्द्ध-कण्डिकाचतुष्कात्मकेन मन्त्रेण मासरकुमा जले तार-यति। अग्निवायुसूर्य्यदेवत्यास्तिलोऽनुष्ठुभः कुष्माण्डी-[Page2158-b+ 38] संज्ञाः” इति। तेनावशिष्टसार्द्धमन्त्रसहितोऽनुवाकःकुष्माण्डसंज्ञक इति विवेच्यम् प्रागुक्तभारतव्याख्यानेनीलकण्ठेन मन्त्रपञ्चात्मकस्य तथात्वोक्तिः अर्द्धमन्त्रस्यमन्त्रत्वकल्पनयेति बोध्यम्। स्वार्थे क कुष्माण्डकोऽपि(कुमडा) वृक्षे ओषधिभेदे, उमायां, (मसिना) कर्कारौच। कुष्माण्डस्य गुणपाकप्रकारादि भावग्र॰ उक्तं
“कु-ष्माण्डं वृंहणं वृष्यं गुरु पित्तास्रवातनुत्। बालंपित्तापहं शीतं मध्यमं कफकारकम्। वृद्धं नातिहितंस्वादु सक्षारं दीपनं लघु। वस्तिशुद्धिकरं चेतोरोगहृत् सर्वदोषजित्। अस्य पाकप्रकाराः यथा
“घृते त-प्ते विनिःक्षिप्य खण्डान् कुष्माण्डसम्भवान्। वार्त्ताकुवि-धिना कुर्यात् प्रलेहतलनादिकम्। वेसवाराम्लतक्रेणघृते तलनपूर्बकम्। कुष्माण्डकं फलं सिद्धं विदुः सुखा-दु सुन्दरम्”।
“घृतेन गुडयुक्तेग गोलकुष्माण्डखण्डका-न्। रन्धितान् जीरमरिचैरिमान् सुगुलिकां विदुः”
“चतुरस्रायतान् स्थूलान् स्विन्नान् क्षीरेण क्षोदितान्। सुपाच्यान् खण्डसर्पिर्भ्यां मरिचैलादिवासितान्”।
“कुष्मा-ण्डखण्डानि ससैन्धवानि तनूनि सम्मर्द्दितपिण्डितानि। जम्बीरनीराश्रितशृङ्गवेरैर्भवन्ति वह्नेरपि पोषणाय”।
“कुष्माण्डसम्भवाः खण्डाः सुस्विन्नाश्चणकान्विताः। वेस-वारयुते तैले तलयेद्वा प्रलेहयेत्। खण्डं कनिष्ठिकाकारंकौष्माण्डं स्वेद्यपिण्डितम्। राजिकादधिसिन्धूत्थै र्मिश्रितंकास्तूरीयकम्। एवं वहुविधाः कार्याः कौष्माण्डा हिविचक्षणैः। प्रलेहतलनस्वादक्षारसन्धानराजिकाः”।
“अमृतं पक्वकुष्माण्डं कुष्माण्डं तरुणम् विषम्” वैद्य॰
“कुष्माण्डे चार्थहानिः स्यात्” तिथित॰। अलाबूं चैवकुष्माण्डं कार्त्तिके परिवर्ज्जयेत्, कार्त्तिकव्रते पुरा॰।

६ यागक्रियाविशेषे शब्दरत्ना॰ तन्मूलं मृग्यम्

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्माण्ड¦ mf. (-ण्डः-ण्डा or -ण्डी) A pumpkin gourd, (Cucurbita pepo.) m. (-ण्डः)
1. One of a class of demigods attached to SIVA.
2. State of the womb in gestation. f. (-ण्डी)
1. A name of DURGA.
2. A drug. A religious ceremony, a certain rite performed as a penance or expiation; also कुष्माण्डक।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्माण्डः [kuṣmāṇḍḥ], 1 A kind of pumpkin gourd.

A fals conception.

A particular religious formula.

डी A religious ceremony.

An epithet of the wife of Śiva. -Comp. -नवमी f. The ninth day of the bright half of the month of Kārtika when a golden idol &c. is to be given as a religious gift.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्माण्ड m. (See. कूष्म्)a kind of pumpkin-gourd (Beninkasa cerifera) MBh. xiii , 4364 ( कूश्म्ed. Bomb.) Sus3r.

कुष्माण्ड m. = भ्रूणा-न्तर(a state of the womb in gestation W. ) L.

कुष्माण्ड m. false conception (?)

कुष्माण्ड n. N. of the verses VS. xx , 14 ff. TA1r. ( कूश्म्) MBh. xiii , 6236 ff. ( कूश्म्ed. Bomb.)

कुष्माण्ड m. pl. a class of demons (or of demi-gods attached to शिव; See. कुम्भा-ण्ड) BhP. x VP. ( कूष्म्) Katha1s.

कुष्माण्ड m. N. of a demon causing disease Hariv. 9560 ( v.l. कूष्म्)

"https://sa.wiktionary.org/w/index.php?title=कुष्माण्ड&oldid=285895" इत्यस्माद् प्रतिप्राप्तम्