कुसीद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीदम्, क्ली, (कुस् + “कुसेरुम्भोमेदेताः” उणां । ४ १०६ । इति ईदप्रत्ययः । इह सूत्रे तृतीयप्रत्ययो ह्रस्वादिर्दोर्घादिश्चेति तन्त्रेणोपात्तः । वृषाकप्य- ग्नीति सूत्रे ह्रस्व एवेति वृत्तिकारहरदत्तादयः । यद्वा कुत्सितं निकृष्टरूपवृद्धिदानेनेत्यर्थः सीदति- अधोमर्णो यत्र । पृषोदरात् साधुः । यथा वृह- स्पत्युक्तौ “कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृ- ह्यते । चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणन्ततः” ॥) ऋणदानजीविका । वृद्ध्याजीवनम् । सुद् वाडि देओया इत्यादि भाषा । तत्पर्य्यायः । अर्थ प्रयोगः २ वृद्धिजीविका ३ । इत्यमरः । २ । ९ । ४ ॥ यथा, -- “कुसीदकृषिवाणिज्यं प्रकुर्व्वीतास्वयंकृतम् । आपत्काले स्वयं कुर्व्वन्नैनसा युज्यते द्विजः ॥ बहवो वर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः । सर्व्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥ अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः । कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते ॥ शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेऽपि वा । उष्णे वर्षति शीते वा वर्द्ध्वनं न निवर्त्तते ॥ देशं गतानां या वृद्धिर्नानापण्योपजीविनाम् । कुसीदं सर्व्वतः सम्यक् संस्थितस्यैव जायते ॥ लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव पूजयेत् । ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः ॥ वणिक् कुसीदो दद्यात्तु वस्त्रं गां काञ्चनादिकम् । कृषीवलोऽन्नपानानि यानशय्यासनानि च ॥ पण्येभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् । पादेनायस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान् ॥ अर्द्धेन चात्मभरणं नित्यनैमित्तिकान्वितम् । पादञ्च प्रार्थमायस्य मूलभूतं विवर्द्धयेत् ॥ विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः । वृत्तिर्भैक्षं कुसीदञ्च दश जीवनहेतवः” ॥ इति गारुडे २१५ अध्यायः ॥ * ॥ गोतमः । “कृषिगोरक्षवाणिज्यञ्चास्वयं कृतं कुसीदञ्चेति । कुसीदस्य पृथक् ग्रहणं स्वयंकृतस्याभ्यनुज्ञानार्थम्” ॥ कुसीदं वृद्धिकर्म्मेति प्रदेशान्तरेऽभिधानात् इति कल्पतरुः ॥ वृहस्पतिः । “कुसीदं कृषिवाणिज्यं प्रकुर्व्वीतास्वयं कृतम् । आपत्काले स्वयं कुर्व्वन् नैनसा युज्यते द्विजः ॥ लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव भोजयेत् । ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ वणिक् कुसीदी दद्यात्तु वस्त्रगोकाञ्चनादिकम् । कृषीवलोऽन्नपानानि यानशय्यासनानि च ॥ पण्येभ्यो विंशकं दत्त्वा पशुस्वर्णादिकं शतम् ॥ वणिक् कुसीद्यदोषः स्यात् ब्राह्मणानाञ्चपूजनात् । राज्ञे दत्त्वा तु षड्भागं देवतानाञ्च विंशकम् ॥ त्रिंशद्भागञ्च विप्राणां कृषिं कृत्वा न दोषभाक्” ॥ तथा, मनुः । “अशीतिभागं गृह्णीयात् मासाद्वार्द्धुषिकः शतात् । द्विकं शतं वा गृह्णीयात् सतां धर्म्ममनुस्मरन् ॥ द्विकं शतञ्च गृह्णानो न भवत्यर्थकिल्विषी । शतकार्षापणे अशीतिभागं विंशतिं पणान्” ॥ द्विकं पुराणद्वयम् । एवंविधनियममतिक्रम्य अनापदि स्वयमन्यद्वारा वा यः स्वाच्छन्द्येन व्यव- हरति तस्यैव प्रायश्चित्तम् । आपदि तु स्वयंकरण नियमातिक्रमे च न दोषः । इति प्रायश्चित्त- विवेकः । इत्याह्निकाचारतत्त्वम् ॥ कुसीदिके त्रि । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीद नपुं।

ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका

समानार्थक:अर्थप्रयोग,कुसीद,वृद्धिजीविका

2।9।4।1।3

उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका। याच्ञयाप्तं याचितकं निमयादापमित्यकम्.।

वृत्ति : ऋणम्

पदार्थ-विभागः : वृत्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीद¦ त्रि॰ कुस--ईद नि॰ न गुणः
“कुसेरुम्भोमेदेता” उणा॰सूत्रे तृतीयप्रत्ययः ह्रस्वादिर्दीर्घादिश्चेति वृत्तिकारह-रदत्तादयः।

१ वृद्ध्यर्थं धनप्रयोगे (सुदखाओया)

२ पुनर्ग्रा-ह्यत्वेन प्रयुक्ते धनविशेषे। तत्स्वरूपं नारदेनोक्तं यथा
“स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते। तत् कुसीद-मिति ज्ञेयम् तेन वृद्धिः कुसीदिनाम्” अस्यार्थःस्थानं मूलधनाऽवस्थानम् लाभोवृद्धिः दानग्रहण-पदे कर्मणि ल्युटा साध्ये तेन मूलधनाऽवस्थाने सर्त्यपयोलाभस्तदर्थं यद्दानं धनिकेन दीयमानं मूलानम्अधमर्णेन च ग्रहणं तयास्वीकृत्य गृह्यमाणं यत् तटण-[Page2159-b+ 38] मिति अवश्यापाकरणीयत्वरूपगुणयोगाद् गौणप्र-योगः। अतएव वाणिज्यार्थप्रयुक्तस्य न ऋणत्वम् इतिमिश्राः। तस्यावयवार्थमाह वृहस्पतिः
“कुत्सितात्सीदतश्चैव निर्विशङ्कैः प्रगृह्यते। चतुर्गुणं वाष्टगुणं कु-सीदाख्यमृणन्ततः” इति अस्यार्थः कुत्सितात् सीद-तश्चाधमर्णात् सकलधनं यत् गृह्यते निर्वि-शङ्कैरुत्तमर्णेः चतुर्गुणं वेति वाकारोऽनास्थायाम् तेन-द्वैगुण्यादिलाभः इति। कुसीदे विशेषो गारुडे

२१

५ अध्याये उक्तः यथा
“कुसीदकृषिवाणिज्यं प्रकुर्वीता-स्वयंकृतम्। आपत्काले स्वयं कुर्बन् नैनसा युज्यतेद्विजः। बहवोवर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः। सर्वेषामपि चैवैषां कुसीदमधिकं विदुः। अनावृष्ट्या-राजभयान्मूषिकाद्यैरुपद्रवैः। कृष्यादिके भवेद्बाधासा कुसीदे न विद्यते। शुक्लपक्षे तथा कृष्णे रजन्यां दि-वसेऽपि वा। उष्णे वर्षति शीते वा वर्द्धनं न निवर्त्तते। देशंगतानां या वृद्धिर्नानापण्योपजीविनाम्। कुसीदंसर्वतः सम्यक् संस्थितस्यैव जायते। लब्धलाभः पितॄन्देवान् ब्राह्मणां श्चैव पूजयेत्। ते तृप्तास्तस्य तद्दोषं श-मयन्ति न संशयः। बणिक् कुसीदी दद्यात्तु वस्त्नं गांकाञ्चनादिकम्। कृषोवलोऽन्नपानामि यानशय्यासनानिच। पण्येभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम्। पा-देनायस्य पारक्यं कुर्यात् सञ्चयमात्मवान्। अर्द्धेन चात्म-भरणं नित्यनैमित्तिकान्वितम्। पादञ्च प्रार्घमानस्य मूलभूतं विवर्द्धयेत्। विद्याशिल्पं भृतिः सेवा गोरक्षा वि-पणिः कृषिः। वृत्तिर्भैक्ष्यं कुसीदञ्च दश जोवनहेतवः”। तस्य विप्रादिभिः स्वयंकर्त्तव्यता निर्णीता आह्नि॰त॰ तत्र गौतमः(
“कृषिगोरक्षवाणिज्ये अस्वथंकृते कुसीदञ्चेति” कुसीदस्य पृथग्ग्रहण स्वयं कृतस्याभ्यनुज्ञानार्थं कुसीदवृद्धिकर्म प्रदेशान्तरेऽभिधानादिति कल्पतरुः। वृह-स्पतिः
“कुसीदकृषिबाणिज्य प्रकुर्वीतास्वयंकृतम्। आपत्काले स्वयं कुर्वन् नैनसा पुज्यते द्विजः लब्ध-लाभः पितॄन् देवान् व्राह्मणांश्चैव भोजयेत्। ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः। बणिक् कुसीदीदद्यात्तु वस्त्रगोकाञ्चनादिकम्। कृषीबलोऽन्नपानानियानशय्यासनानि च। पण्येभ्यो विंशकं दत्त्वा पशुस्वर्णा-दिकं शतम्। वणिक् कुषीद्यदोषः स्यात् व्राह्मणानाञ्चपूजनात्। राज्ञे दत्त्वा तु षडभागं देवतानाञ्च विंश-[Page2160-a+ 38] कम्। त्रिंशद्भागञ्च विप्राणां कृषिं कृत्वा न दोषभाक्”। वृद्धिभेदः ऋणादानशब्दे

१४

१९ पृ॰ उक्तः।

२ तद्वति त्रि॰तस्य पत्नी ङीप् ऐङ्च् सुग्वबोधः। कुसीदायी वृद्ध्याजी-विपत्न्याम्। पाणिन्यादिमते कुसितकुसिदशब्दाभ्यां हृस्व-मध्याग्यामेव ङीप् ऐच्च इति भेदः। कुसीदवृद्ध्यर्थद्रव्यंप्रयच्छति ष्ठन्ष्ठचौ। कुसीदिक वृद्ध्यर्थधनदायिनि त्रि॰स्त्रियामुभयत्र षित्त्वात् ङीष्। स्वार्थे क। कुसीदक,तत्रार्थे अस्त्वर्थे इनि। कुसीदिन् वृद्ध्यर्थं धनप्रयोक्तरिउत्तमर्ण्णे त्रि॰ स्त्रियां ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीद¦ n. (-दं)
1. Usury, the profession of usury.
2. Any loan of thing lent to be repaid with interest. mfn. (-दः-दा-दं)
1. A money lender.
2. Slothful, inert. E. कुस् to embrace, ईद Unadi affix; or कु bad, and षद् to go, affix अच्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीद mfn. (fr. 1. कुand सद्? ; See. कुषीद) , lazy , inert (?) TS. vii

कुसीद n. any loan or thing lent to be repaid with interest , lending money upon interest , usury TS. iii Gobh. Gaut. Pa1n2. etc.

कुसीद n. red sandal wood L.

कुसीद mf. a money-lender , usurer L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(कुशीदि-ब्र्। प्।) a pupil of पौष्यञ्जि; learnt a hundred साम samhita1s. भा. XII. 6. ७९; Br. II. ३५. ४०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUSĪDA I : A sage belonging to the order of Vyāsa's disciples. (Bhāgavata 12th Skandha).


_______________________________
*9th word in right half of page 447 (+offset) in original book.

KUSĪDA II : To live on the interest of money lent to others. Agriculture, breeding of cows, commerce and Kusīda are the professions ordained for brahmins in emergency. (Agni Purāṇa, Chapter 152).


_______________________________
*10th word in right half of page 447 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीद पु.
उस ऋचा का नाम ‘यद् कुसीदमप्रतीतम्----’ (तै.सं. 3.3.8.1) जिससे (पशु यज्ञ में अवभृथ, एवं समिधाओं के आहवनीय में हवन के पश्चात्) दर्भपत्रों को जलाने से उत्पन्न अगिन् में भूने हुये जौ के सत्तू की एक आहुति दी जाती है, श्रौ.को. (अं.) 1.9०8; आप.श्रौ.सू. 13.24.15; बौ.श्रौ.सू. 4.11.8 (पशु); मा.श्रौ.सू. 2.5.5.18 (यज्ञ के अवसान पर वेदि को जलाता है)।

"https://sa.wiktionary.org/w/index.php?title=कुसीद&oldid=496895" इत्यस्माद् प्रतिप्राप्तम्