कुसीदम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीदम्, क्ली, (कुस् + “कुसेरुम्भोमेदेताः” उणां । ४ १०६ । इति ईदप्रत्ययः । इह सूत्रे तृतीयप्रत्ययो ह्रस्वादिर्दोर्घादिश्चेति तन्त्रेणोपात्तः । वृषाकप्य- ग्नीति सूत्रे ह्रस्व एवेति वृत्तिकारहरदत्तादयः । यद्वा कुत्सितं निकृष्टरूपवृद्धिदानेनेत्यर्थः सीदति- अधोमर्णो यत्र । पृषोदरात् साधुः । यथा वृह- स्पत्युक्तौ “कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृ- ह्यते । चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणन्ततः” ॥) ऋणदानजीविका । वृद्ध्याजीवनम् । सुद् वाडि देओया इत्यादि भाषा । तत्पर्य्यायः । अर्थ प्रयोगः २ वृद्धिजीविका ३ । इत्यमरः । २ । ९ । ४ ॥ यथा, -- “कुसीदकृषिवाणिज्यं प्रकुर्व्वीतास्वयंकृतम् । आपत्काले स्वयं कुर्व्वन्नैनसा युज्यते द्विजः ॥ बहवो वर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः । सर्व्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥ अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः । कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते ॥ शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेऽपि वा । उष्णे वर्षति शीते वा वर्द्ध्वनं न निवर्त्तते ॥ देशं गतानां या वृद्धिर्नानापण्योपजीविनाम् । कुसीदं सर्व्वतः सम्यक् संस्थितस्यैव जायते ॥ लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव पूजयेत् । ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः ॥ वणिक् कुसीदो दद्यात्तु वस्त्रं गां काञ्चनादिकम् । कृषीवलोऽन्नपानानि यानशय्यासनानि च ॥ पण्येभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् । पादेनायस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान् ॥ अर्द्धेन चात्मभरणं नित्यनैमित्तिकान्वितम् । पादञ्च प्रार्थमायस्य मूलभूतं विवर्द्धयेत् ॥ विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः । वृत्तिर्भैक्षं कुसीदञ्च दश जीवनहेतवः” ॥ इति गारुडे २१५ अध्यायः ॥ * ॥ गोतमः । “कृषिगोरक्षवाणिज्यञ्चास्वयं कृतं कुसीदञ्चेति । कुसीदस्य पृथक् ग्रहणं स्वयंकृतस्याभ्यनुज्ञानार्थम्” ॥ कुसीदं वृद्धिकर्म्मेति प्रदेशान्तरेऽभिधानात् इति कल्पतरुः ॥ वृहस्पतिः । “कुसीदं कृषिवाणिज्यं प्रकुर्व्वीतास्वयं कृतम् । आपत्काले स्वयं कुर्व्वन् नैनसा युज्यते द्विजः ॥ लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव भोजयेत् । ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ वणिक् कुसीदी दद्यात्तु वस्त्रगोकाञ्चनादिकम् । कृषीवलोऽन्नपानानि यानशय्यासनानि च ॥ पण्येभ्यो विंशकं दत्त्वा पशुस्वर्णादिकं शतम् ॥ वणिक् कुसीद्यदोषः स्यात् ब्राह्मणानाञ्चपूजनात् । राज्ञे दत्त्वा तु षड्भागं देवतानाञ्च विंशकम् ॥ त्रिंशद्भागञ्च विप्राणां कृषिं कृत्वा न दोषभाक्” ॥ तथा, मनुः । “अशीतिभागं गृह्णीयात् मासाद्वार्द्धुषिकः शतात् । द्विकं शतं वा गृह्णीयात् सतां धर्म्ममनुस्मरन् ॥ द्विकं शतञ्च गृह्णानो न भवत्यर्थकिल्विषी । शतकार्षापणे अशीतिभागं विंशतिं पणान्” ॥ द्विकं पुराणद्वयम् । एवंविधनियममतिक्रम्य अनापदि स्वयमन्यद्वारा वा यः स्वाच्छन्द्येन व्यव- हरति तस्यैव प्रायश्चित्तम् । आपदि तु स्वयंकरण नियमातिक्रमे च न दोषः । इति प्रायश्चित्त- विवेकः । इत्याह्निकाचारतत्त्वम् ॥ कुसीदिके त्रि । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कुसीदम्&oldid=127941" इत्यस्माद् प्रतिप्राप्तम्