कुसुम्भ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुसुम्भम्, क्ली, (कौ पृथिव्यां सुम्भति शोभते दीप्तिं प्राप्नोतीत्यर्थः । कु + सुभि + अच् इदित्वात् नुम् ।) स्वर्णम् । इति मेदिनी ॥ पुष्पंविशेषः । कुसुमफुल इति भाषा ॥ (यथा, ऋतुसंहारे वसन्तवर्णने ६ । “कुसुम्भरागारुणितैर्दूकूलै र्नितम्बविम्बानि विलासिनीनाम् । तन्वंशुकैः कुङ्कुमरागगौरैः अलङ्क्रियन्ते स्तनमण्डलानि” ॥) तत्पर्य्यायः । कमलोत्तमम् २ वह्निशिखम् ३ महा- रजनम् ४ । इत्यमरः । २ । ९ । १०६ ॥ पावकम् ५ पीतम् ६ पर्द्मोत्तरम् ७ रक्तम् ८ लोहितम् ९ वस्त्ररञ्जनम् १० अग्निशिखम् ११ । अस्य शाक- गुणाः । मधुरत्वम् । कटुत्वम् । उष्णत्वम् । विण्मूत्र- दोषमदनाशित्वम् । दृष्टिप्रसादनत्वम् । रुचि- प्रदत्वम् । अग्निदीप्तिकारित्वञ्च । इति राज- निर्घण्टः ॥ रूक्षत्वम् । कफवायुनाशित्वम् । पित्त- कारित्वञ्च । तत्तैलगुणाः । कटुत्वम् । उष्णत्वम् । त्रिदोषकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ कृमियक्ष्ममलनाशित्वम् । तेजोबलकारित्वञ्च । घर्षणेनास्य गुणाः । त्रिदोषकारित्वम् । पुष्टिबल- क्षयकण्डूकारित्वञ्च । इति राजनिर्घण्टः ॥ (कुसु- म्भशाकभक्षणे निषेधमाह तिथितत्त्वधृतोशनो- वचने यथा, -- “कुसुम्भं ललिताशाकं वृन्ताकं पूतिकां तथा । भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः” ॥)
कुसुम्भः, पुं, (“कुसेरुम्भोमेदेताः” । उणां । ४ । १०६ । इति उम्भ प्रत्ययः ।) कमण्डलुः । इत्यमरः । ३ । ३ । १३६ ॥ (यथा, मनौ । ६ । ५२ । “क्लप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्” ॥) महारजनवृक्षः । इति राजनिर्घण्टः ॥ (कुसुम फुल इति भाषा ॥ अस्य पर्य्याया यथा । “पद्मोत्तमविकाशः स्यात् कुसुम्भः शरटस्तथा” ॥ इति वैद्यकरत्नमालायाम् ॥ अस्य गुणाश्च यथा । “कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः” ॥ इति सुश्रुते सूत्रस्थावे ४६ अध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुसुम्भ नपुं।
कुसुम्भम्
समानार्थक:कमलोत्तर,कुसुम्भ,वह्निशिख,महारजन
2।9।106।2।1
रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम्. स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
कुसुम्भ पुं।
कमण्डलुः
समानार्थक:कमण्डलु,कुण्डी,करक,कुसुम्भ
3।3।136।2।1
स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्. स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्.।
सम्बन्धि1 : संन्यासी
पदार्थ-विभागः : उपकरणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुसुम्भ¦ पु॰ कुस--उम्भ नि॰ गुणाभावः। (कुसुम) पुष्पप्र-धाने वृक्ष अमरः। पुष्पादिप्रसवपरत्वे न॰।
“कुसुम्भंनालिकाशाकं वृन्ताकं पूतिकां तथा। भक्षयन् पतितस्तु-स्यादपि वेदान्तगोद्विजः” तिथित॰ उशनाः।
“कुसुम्भ वातलंरूक्षं रक्तपित्तकफापहम्” भावप्र॰।
“कटुर्विपाके कटुकःकफघ्नोविदाहिभावादहितः कुसुम्भः” सुश्रु॰। तस्यतैलगुणाः
“कुसुम्भतैलमल्पोष्णं गुरु स्वादु विटाहिच। चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम्” भावप्र॰। सुश्रुते तु तत्तैलगुणाः सामन्यत उक्ता यथा
“निम्बातसोकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्ल-कहस्तिकर्णपृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चला-विडङ्गज्योहिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवी-र्य्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठ-[Page2161-b+ 38] प्रमेहशिरोरोगहराणि चेति”।
“कुसुम्भशाकस्य सएवं” (त्रिफलासवः) सुश्रुते तस्यानुपानमुक्तम्।
२ कमण्डलौअमरः।
“क्लप्तकेसश्मश्रुः पात्री दण्डी कुसुम्भवान्” मनुः।
३ स्वर्ण्णे न॰ मेदि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुसुम्भ¦ n. (-म्भं)
1. Safflower, (Carthamus tinctorios.)
2. Gold. m. (-म्भः) The water pot of the student and Sanyasi. E. कुस् to shine, and उम्भ Unadi aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुसुम्भः [kusumbhḥ] म्भम् [mbham], म्भम् [Uṇ.4.16]
Safflower; कुसुम्भारुणं चारु चेलं वसाना Jag.; कुसुम्भरागारुणितैः सुदुकुलैः Ṛs.6.4.
Saffron.
The waterpot of an ascetic; Ms.6.52.-म्भम् Gold. -म्भः Mere outward affection (compared with the colour of safflower); hence कुसुम्भरागः also means affected love.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुसुम्भ m. [ अम्n. L. ]safflower (Carthamus tinctorius) Sus3r. VarBr2S. S3is3. etc.
कुसुम्भ m. saffron (Crocus sativus) L.
कुसुम्भ m. " the water-pot of the student and संन्यासिन्"See. -वत्
कुसुम्भ m. outward affection (compared with the colour of safflower) Sa1h.
कुसुम्भ m. N. of a mountain BhP. v , 16 , 27
कुसुम्भ n. gold L.