कूपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपः, पुं, (कु ईषत् आपी यत्र । “ऋक्पूरित्यः” । ५ । ४ । ७४ । ऊदनोरित्यत्र दीर्घनिर्द्देशादन्यत्रा- प्यूदिति वा । यद्वा कुतन्ति मण्डूकाः अत्र । “कुपु भ्याञ्च” । उणां ३ । २७ इति पो दीर्घश्च ।) स्वना- मख्यातो जलाधारः ॥ कूया इति पात्कूया इति च भाषा । तत्पर्य्यायः । अन्धुः २ प्रहिः ३ उद- पानम् ४ । इत्यमरः । १ । १० । २६ ॥ अवटः ५ कोट्टारः ६ । इति जटाधरः ॥ कात्तः ७ कर्त्तः ८ वज्रः ९ काटः १० खातः ११ अवतः १२ क्रिविः १३ सूदः १४ उत्सः १५ ऋष्यदात् १६ कारोत- रात् १७ कुशेषः १८ केवटः १९ । इति वेद- निघण्टौ ३ अध्याये त्रयोदशकूपनामानि ॥ तस्य लक्षणं यथा, -- “भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः । बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते” ॥ इति भावप्रकाशः ॥ तज्जलगुणाः । वातकफ- नाशित्वम् । अग्निदीपनत्वम् । लघुत्वम् । पित्त- वर्द्धनत्वम् । क्षारत्वम् । शीतकाले उष्णत्वम् । उष्णकाले शीतत्वम् । वसन्तकाले प्रशस्तत्वञ्च । इति राजवल्लभः ॥ (“रूक्षं कफघ्नं लवणात्मकञ्च सन्दीपनं पित्तकरं लघूष्णम् । कूपोदकं वातहरं प्रदिष्टं हितं न शस्तं शरदो वदन्ति” ॥ इति हारीते प्रथमस्थाने ७ अध्याये ॥ कूपादिकरणफलादिकं जलाशयतत्त्वधृतादित्य- पुराणवचनम् । यथा, -- “सेतुबन्धरता ये च तीर्थशौचरताश्च ये । तडागकूपकर्त्तारो मुच्यन्ते ते तृषाभयात्” ॥ विष्णौ च । “अथ कूपकर्त्तुस्तत्प्रवृत्ते पानीये दुष्कृतार्द्धं विनश्यति” । तत्प्रवृत्ते कृतकूपा- दुत्थिते । विष्णुधर्म्मोत्तरे च । “तडागकूपकर्त्तारस्तथा कन्याप्रदायिनः । छत्रोपानहदातारस्ते नराः स्वर्गगामिनः” ॥ तथा, नन्दिकेश्वरपुराणे । “यो वापीमथवा कूपं देशे तोयविवर्ज्जिते । खानयेत् स दिवं याति विन्दौ विन्दौ शतं समाः” ॥ तत्संस्कारकर्त्तुरपि फलमुच्यते विष्णौ । यथा, -- “कूपारामतडागेषु देवतायतनेषु च । पुनः संस्कारकर्त्ता च लभते मौलिकं फलम्” ॥ परं जलशून्यदेशखनने एव प्रतिष्ठा न तु पङ्को- द्धारमात्रे । “अजले जलमुत्पाद्य” इति वचनात् ॥) गर्त्तः । गुणवृक्षः । नदीमध्यस्थितो वृक्षः पर्व्वतो वा । इत्युणादिकोषः । कूपकः । कूपा इति भाषा । मृन्मानम् । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपः [kūpḥ], [कुवन्ति मण्डूका अस्मिन्, कु-पक् दीर्घश्च Uṇ.3.27]

A well; कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् Bh.2.49; so नितरां नीचो$स्मीति त्वं खेदं कूप मा कदापि कृथाः । अत्यन्तसरस- हृदयो यतः परेषां गुणग्रहीतासि Bv.1.9.; प्रोद्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः Bh.3.88.

A hole, cave, hollow, cavity; as in रोमकूप; Śi.7.74.

A leather oil-vessel.

A post to which a ship is moored.

A tree or rock in the midst of a river.

A mast.

A pore, root; हृष्यन्ति रोमकूपाणि Mb.6.112.16; Śi.13.13.

पी A small well.

A flask, bottle.

The navel.-Comp. -अङ्कः, -अङ्गः horripilation. -कच्छपः, म (मा) ण्डूकः -की (lit.) a tortoise or frog in a well; (fig.) an inexperienced person, one who has had no experience of the world at large, a man of limited ideas who knows only his own neighbourhood; oft. used as a term of reproach; यद्यसौ कूपमाण्डूकि तवैतावति कः स्मयः Bk.5.85.-कारः, -खानकः a well-digger; कूपखानकवदेतद् भविष्यति Mbh. on P.1.1.1; Rām.2; कूपखानकवत्प्राप्ते फले दोषं निहन्ति च Ks.66.134. -चक्रम् A water weeel. -दण्डः a mast; क्षोणीनौ कूपदण्डः Dk.1.1. -यन्त्रम् a water-wheel, a contrivance for raising water from a well. -यन्त्रघटी-घटिका a bucket or pot attached to the water-wheel to draw up water. ˚यन्त्रघटिकान्याय see under न्याय. -स्थानम् A well; दशकुली वाटं कूपस्थानम् Kau. A.2.4; एष क्रीडति कूपयन्त्रघटिका- न्यायप्रसक्तो विधिः Mk.1.6.

"https://sa.wiktionary.org/w/index.php?title=कूपः&oldid=287572" इत्यस्माद् प्रतिप्राप्तम्