कृ

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृ, ञ कृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं- अनिट् ।) ञ, करति करते । अयं कैश्चित् न मन्यते । इति दुर्गादासः ॥

कृ, ञ न वधे । इति कविकल्पद्रुमः ॥ (स्वां--उभं--सकं-- अनिट् ।) ञ न, कृणोति कृणुते । इति दुर्गादासः ॥

कृ, ञ द डु कृतौ । इति कविकल्पद्रुमः ॥ (तनां--उभं --सकं--अनिट् ।) ञ द, करोति कुरुते । डु, कृत्रि- मम् । अस्माद्गुणी मकारोऽप्यगुणी वा वक्तव्य इति वररुचिः ॥ “तेन किं करोमि कथं कुर्मि क्वानु गच्छामि माधव ! । दुर्य्योधनविहीनन्तु शून्यं सर्व्वमिदं जगत्” ॥ इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृ¦ कृतौ भ्वा॰ उभ॰ सक॰ अनिट् कविकल्प॰। करति तेअकार्षीत् अकृत। चकार। भौवादिकस्यास्यापाणिनीयता

कृ¦ कृतौ तना॰ उभ॰ सक॰ अनिट्। करोति कुरुते कुर्य्यात्। करोतु कुरु अकरोत् अकार्षीत् अकृत। चकार कर्त्ताकरिष्यतिते क्रियात् कृषीष्ट। कर्म्मणि क्रियतेअकारिअकारिषाताम्कारयिषाताम्। कारक कर्त्ताकारी कुर्वन् कुर्ष्वाणः चक्रिवान् चक्राणः। डु--कृत्रिमःकृतः कृतवान् करणं कृतिः क्रिया कृत्या कृत्वा प्रकृत्य। कृत्यं कार्य्यः कर्त्तव्यः करणीयः। णिचि कारयति तेअचीकरत्तसनि चिकीर्षति ते यङि चेक्रियते यङ् लुकिचरि(री)करीति चरि(री) कर्त्ति चर्करीति चर्कर्त्ति(
“कृञो हेतुताच्छील्यानुलोम्येषु” पा॰
“एषु द्योत्येषु करोतेष्टः स्यात्। अतः कूकमीतिसः। यशस्करी विद्या। श्राद्धकरः वचनकरः” सि॰ कौ॰(
“दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दी-किम्लिपिलिबिबलिभक्तिकर्त्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वह-र्य्यत्तद्धनुररुष्षु” पा॰। (
“एषु कृञष्टः स्यात्। अहेत्वादावपि। दिवाकरःविभाकरः निशाकरः कस्कादित्वासः। भास्करःबहुकरः बहुशब्दस्य वैपुल्यार्थे संख्यापेक्षया पृथग्-ग्रहणम् लिपिलिबिशब्दौ पर्य्यायौ। संख्या--एककरः। द्विकरः। कस्कादित्वात्सः। अहस्करः। नित्यम् स{??}-मेऽनुत्तरपदस्थस्येति षत्वम्। धनुष्करः। अरुष्करः।
“किंयत्तद्बहुषु कृञोऽज्विधानमिति” वार्त्तिकम् किङ्क-रा। तत्करा। हेत्वादौ टम्बाधित्वा परत्वादच्। पुंयोगे ङीप्। किङ्करी।
“कर्म्मणि भृतौ” पा॰(
“कर्म्मशब्दे उपपदे करोतेष्टः स्यात् भृतौ। कर्म्म-करो भृतकः। कर्म्मकारोऽन्यः” सि॰ कौ॰(
“न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु” पा॰। (
“ए{??} कुञष्टो न। हेत्वादिषु प्राप्तः प्रतिपिध्यते। शब्दकार इत्यादि”।
“स्तम्बशकृतोरिन्” पा॰
“व्रीहिवत्सयोरिति वक्तव्यम्” वार्त्ति॰। स्त्रम्बकरि-व्रीहिः। शकृत्करिर्ष्वत्सः। वीहिवत्सयो किम्स्तम्भकारः। शकृत्कारः”। सि॰ कौ॰[Page2170-b+ 39](
“सुकर्म्मपापमन्त्रपुण्येषु कृञः” पा॰
“सौकर्म्मादिषु च कृञः क्विप्स्यात्। त्रिविधोऽत्रनियम इति काशिका। सकृत् कर्म्मकृत् पापकृत्मन्त्रकृत् पुण्यकृत्। क्विबेवेति नियमात्कर्म्मकृतवानि तिनिष्ठा न। कृञ एवेति नियमान्मन्त्रमधीत-वान्मन्त्राध्यायः अत्र न क्विप्। भूत एवेति नियमात्मन्त्रङ्करोति करिष्यति वेति विवक्षायान्न क्विप्। स्वा-दिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप्। शास्त्र-कृत्। भाष्यकृत्”। सि॰ कौ॰अधि + अधिकारे आरम्भे सक॰ अधिकरोति अधिकृत्यअनु + सदृशीकरणे अनुकरोति।
“शैलाधिपस्यानुचकार लक्ष्मीम्” अप + अपकारे अनिष्टाचरणे अपकरोति
“रिपौ सान्त्वमपक्रि-या” माघःअप + आ निवारखे सक॰। अपाकरोति।
“अयं प्रश्नः प्राधान्येनावाक्रियते” वृ॰ उ॰ भा॰आ + आकारे अवयवसंस्थाने आकृतिः आकारःउद् + आ + उत्कालने सक॰
“उदाकरोति उत्कालयति
“याज्ञकलक्यः स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदजसोमश्रवाः! इति ताहोदाचकार” वृ॰ उ॰।
“तागाः हउदाचकार उत्कालितवानाचार्य्यगृहम्” भा॰। उप + उपकारे सक॰ उपकरोति
“उपकृतं बहु तत्र किमुच्यते” सा॰ द॰। संस्कारे सक॰ सुट् च। उपस्करोतिउप + आ + आरम्भे उपाकरोति उपाकृत्य
“श्रावण्यां प्रोष्ठपर्द्या वा उपाकृत्य यथाविधि” मनुः पश्वादिसंस्कारे चउपाकर्म्मशब्दे उदा॰। दुर्--दुष्टाचरणे दुष्कृतं दुष्कृतिः। नि + पराभवे सक॰ निकरोति (पराभवति) नीकरःनिस् + निर + शुद्धौ अक॰ निष्करोति निष्कृतिः (शुद्धिः)निर् आ + निवारणे सक॰ निराकरोति
“निराकरिष्णू वर्द्धिष्णूवर्त्तिष्णू परितोरणम्” भट्टिः!
“निराकरिष्णोर्वृजिना-दृतेऽपि” रघुःपरा + निराकरणे सक॰। पराकरोतिपरि + परिष्कारे सतोगुणान्तराधाने भूषणे च सक॰ सुट् च परिष्करोतिप्र + प्रस्तावे सक॰ प्रकरोति प्रकृत्य। आरम्भे च
“प्रकृतजपविधीनामास्यमुद्रश्मिदन्तम्” माघः। प्रति + प्रतिकारे अतिष्टनिवारणे प्रतिकूलाचरणे च सक॰ प्रति-करोति प्रतीकारः प्रतिक्रिया। वि + विभागे विकरोति
“स त्रेधात्मानं व्यकुरुत” छा॰ उ॰।
“व्यकुरुत व्यभजद्” भा॰। विकारे (अत्यथास्थितस्य वस्तु-नोऽन्यथाभाके) अक॰ आ॰ वायुर्विकुरुते” सि॰ कौ॰। [Page2171-a+ 38] वि + आ + प्रकाशने व्याकरोति
“अनेन जीवेनात्मनानुप्रविश्यनामरूपे व्यकरवाणि” श्रुतिः। व्याख्याने व्याकृतम्पाणिन्याद्युक्तशब्दसाधुत्वाधायकसंस्कारभेदे च
“शिक्षाकल्पोव्याकरणं निरुक्तं छन्दसां चितिः” वेदा-ङ्गोक्तौ
“व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुता” भर्त्तृ हरिः। वि + प्र + उपद्रवे सक॰ विप्रकरोति
“तस्मिन् विप्रकृताः काले” कुमा॰।
“कमपरमवशं न विप्रकुर्य्युः” कुमा॰। सम् + संस्कारे सतोगुणान्तराधाने सक॰ सुट् च। संस्करोतिपात्रम्। सम् + परि उप + भूषणे अर्थे सुट्। संस्करोति परिष्करोतिउपस्करोति अलङ्करोतीत्यर्थः। तत्पूर्व्वकाः समवायेऽ-र्थेच अक॰ सुट् संस्करोति उपस्करोति परिस्करोति सं-घीभवतीत्यर्थः उप + सतोगुणान्तराधाने विकारे आका-ङ्क्षितवाक्यस्य पूरणे च सुट्। उपस्कृतं भुङ्क्तेविकृतंभुङ्क्ते। उपस्कृतं ब्रूते वाक्यमध्याहृत्य ब्रूते” सि॰ कौ॰( अथ मतभेदेन कृञोऽर्थोनिरूप्यते तत्र वैयाकरणाःतस्य यत्नार्थकतानिराकरणेन व्यापारार्थकतामाहुःयथा वै॰ भू॰ सारे
“व्यापारोभावना सैवोत्पादना सैव च क्रिया। कृ-ञोऽकर्म्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते” मू॰।
“पचति पाकमुत्पादयति पाकानुकूला भावना तादृ-श्युत्पादनेत्यादिविरणाद्विव्रियमाणस्यापि तद्वाचकतेतिभावः। व्यापारपदं फूकारादीनामयत्नानामपि फूत्कार-त्वादिरूपेण वाच्यतां ध्वनथितुमुक्तम्। अतएव पचतीत्य-त्राघःसन्तापनत्वफूत्कारत्वचूल्ल्युपरिधारणत्वयत्नत्वादिभि-र्बोधः सर्वसिद्धः। नचैबमेषां शक्यतावच्छेदकत्वे गौर-वापत्त्या कृतित्वमेव तदवच्छेदकं वाच्यम् रथो गच्छतिजानातीत्यादौ च व्यापारत्वादिप्रकारकबोधोलक्षणयेतिनैयायिकरीतिः साध्वी, शक्यतावच्छेदकत्वस्यापि ल-क्ष्यतावच्छेदकत्ववद्गुरुणि सम्भवात् तयोर्वैषम्ये वीजा-भावात्। नच पचति पाकं करोतीति यत्नार्थकरोतिनाविवरणाद्यत्नएवाख्यातार्थ इति वाच्यम्। रथोगमनंकरोति वीजादिना अङ्कुरः कृत इति दर्शनात् कृ-ञोयत्नार्थकताया असिद्वेः। किञ्च भावनाया अवा-च्यत्वे घटं भावयती यत्रेव घटोभवतीत्यत्रापि द्वि-तीया स्यात् नचात्र घटस्य कर्तृत्वेन तत्संज्ञया क-र्म्मासंज्ञायाताधान्न द्वितीयेति वाच्यम् अनुगतकर्तृत्वस्य[Page2171-b+ 38] त्वन्मते दुर्व्वचत्वेन घटस्याकर्तृत्वात्। कृत्याश्रयत्वस्यकारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात्। धात्वर्थानु-कूनव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात्। अपि च भावनाया अवाच्यत्वे धातूना सकर्म्मक-त्वाकर्म्मकत्वविभाग उच्छिन्नः स्यात्। स्वार्थफलव्य-धिकरणव्यापारवाचित्वं स्वार्थव्यापारव्यधिकरणफल-वाचकत्वं वा सकर्मकत्वं भानियिवाच्यत्वमन्त-रेणासम्भवि। अन्यतमत्वं तत्त्वमिति चेन्न एकस्यै-वार्थभेदेनाकर्मकत्वसकर्मकत्वदर्शनात् तदेतदभिसन्धायाहकृञ इति। अयं भावः व्यापारावाच्यत्वपक्षे फलमात्रमर्थैति फलितम्। तथा च करोतीत्यादौ यत्नप्रतीते-स्तन्मात्रं वाच्यमभ्युपेयम्। तथा च यती प्रयत्नैति-वत् फलस्थानीययत्नवाचकत्वाविशेषादकर्मकतापत्तिः उ-क्तरीत्या दुर्वारेति। तथा च नहि यत्नः इत्यत्र फल-स्थानीयत्वेनेति शेषः कृञः इति धातुमात्रोपलक्षणंसर्वेषामप्यकर्म्मकता सकर्मकता वा न स्यादिति भावः। अथ वा व्यापारोभावना इत्यर्द्धेन व्यापारस्य बाच्यत्वंप्रसाध्य फलांशस्यापि तत्साधयन् नैयायिकाभ्युप-गत जानातिकृञादेः केवलज्ञानयत्नादिक्रियाणात्रवा-चित्वं दूषयति कुञः इति। अयं भावः फलांशस्यावा-च्यत्वे व्यापारएव धात्वर्थः स्यात्। तथा च स्वार्थफ-लव्यधिकरणव्यापारवाचित्वादिरूपसकर्मकत्वोच्छेदापत्तिः। नच कृञादौ सकर्म्मकत्वव्यवहारोभाक्तैति नैयायि-कोक्तं युक्तम् व्यवहारस्य भाक्तत्वेऽपि कर्मणि लका-रासम्भवात्। न हि तीरे गङ्गापदस्य भाक्तत्वेऽपि तेनस्नानादिकार्यं कर्त्तुं शक्यम्। एवञ्च नहि यत्न इत्यत्रयत्नमात्रमित्यर्थः”। अतएवाह।
“किन्तूत्पादनमेवातः कर्म्मवत्स्यात् यगाद्यपि। कर्मकर्त्तर्य्यन्यथा तु न भवेत् तद्दृशेरिव” मू॰
“उत्पादनम् उत्पतिरूपफलसहितं यत्नादिकृञर्थैत्यर्थः। फलस्य वाच्यत्वे युक्त्यन्तरमाह अतैत्यादि। यतःकृञोयत्नमात्रार्थोनेष्यते अतः कर्मवत् स्यादिति पदेन
“कर्म-वत्कर्मणा तुल्यक्रियः” इति(पा॰)सूत्रं लक्ष्यते। अवमर्थःयतएवास्योत्पादनार्थकता अतः पच्यते ओदनः णयनेवे-तिवत् क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते। अन्यथा यत्नस्य कर्मनिष्ठत्वाभावात्तन्न स्यात् वृ{??}यत्। यथा दृश्यते घटः स्वयमेवेति न, दर्शनस्य घटावृत्ति-त्वात्तथा यत्नस्थापीति, तथा प्रयोगामुपपत्तेरिति”। [Page2172-a+ 38] नैयायिकास्तु व्यापारार्थकतानिराकरणेन यत्नार्थक-तामाहुः थथा शब्दचिन्तामणौ
“आख्यातस्य यत्नवाचकत्वादचेतने रथोगच्छतीत्यादौचाख्याते व्यापारलक्षणा तथाह्याख्यातस्य पचतीत्यादौयत्नोवाच्यः पचति पाकं करोतीत्यादियत्नार्थककरो-तिना सर्व्वाख्यातविवरणाद्वृद्धव्यवहारादिव बाधकंविना विवराणादपि व्युत्पत्तेः। द्वन्द्वादिसमासस्य विग्र-हेण विवरणादपि विग्रहार्थे न शक्तिग्रहः अन्य-लभ्यत्वात् किंकरीतीति यत्नप्रश्ने पचतीत्युत्तरस्य यत्ना-र्थत्वं विनानुपपत्तेरित्याचार्य्याः। अत्र वदन्ति--आख्या-तस्य करोतेश्च न यत्नार्थकत्वं रथोगच्छति जानाति यततेनिद्रातीत्यत्र धात्वर्थानुकूलयत्नाभावेऽप्याख्यातपदप्रयो-गात् गमनं करोतीति करोतिना तत्राख्यातविवरणाच्चअत्र व्यापारस्य करोत्यर्थत्वे चेतनेऽपि तथा। न च तत्रा-ख्यातकरोत्योर्गौणत्वं मुख्ये बाधकाभावात्। अतएवप्रश्नोत्तरयोर्न यत्नार्थत्वं किन्तु क्रियावाचकत्वमेव कृञः,तेन किं करोतीति क्रियामात्रप्रश्ने पचति गच्छतीतिक्रियाविशेषेणोत्तरमपि समञ्जसम्भवति”। ततः परो-ग्रन्थः कर्त्तृशब्दे

१७

१७ दर्शितोदृश्यः। तत्परस्तु-
“ननु प्रकृतेस्तदर्थत्वेऽपि प्रत्ययस्य न तदर्थत्वं दोषः ए-कोद्वौबहवःएषिषतीत्यत्रेव तत्सम्भवात्। यत्तु तत्र द्वितीय-संख्येच्छादिकल्पनावदिहापि द्वितीययत्नकल्पनमिति तन्नद्वितीययत्नेच्छादा विच्छायत्नाऽभावात्। वस्तुतस्तु प्रत्येकसा-मर्थ्यावधृतौ सम्भेदे उभयोपस्थितेरावश्येकत्वेन कस्या-प्यनन्वयेऽप्यदोषात् पाकाय यतेत पाकं कुर्य्यादित्यत्र कृत्यर्थ-काख्यातेऽपि तथैवान्वयादिति चेत् न एको द्वौ बहवइत्यत्र नामार्थस्य विभक्त्युपनीतसंख्यान्वयावगमायोग्य-त्वात् लडादेर्यत्नसामर्थ्यानवधारणात् लिङः पचेते-त्यत्र कृतौ सामर्थ्यावधारणाच्च। अथायत्नार्थकधातु-पराख्यातस्य यत्नार्थत्वं तेन यतत इति नानन्वयः अचे-तने चाख्यातप्रयोगो गौणएव। न च वृत्त्यन्तरेणापिप्रयोगसम्भवे शक्तिकल्पना युक्ता। यद्वाऽनुकूलयत्ने प्रवृत्तंपदं तदेकदेशेऽनुकूलमात्रे प्रवर्त्तते विशुद्धिमात्रं पुर-स्कृत्य व्राह्मणे श्रोत्रियपदवत्। अचेतने तु मध्यमोत्तमपुरुषौ न भवतएव उपपदयोर्युष्मदस्मदोश्चेतना-र्थत्वात्। भवतु वा गौण एव लोकस्यापर्यनुयोज्यत्वादितिचेत् न अचेतने आख्यातस्य मुख्यत्वे बाधकाभावेन गौणत्वाभावात् तस्मादाख्यातम्यानुकूलत्वेन व्यापारो वाच्यः” [Page2172-b+ 38] इति माट्टाः। तेन चेतनाचेतनयोर्धात्वर्थानुकूलव्यापारस्यसत्त्वादाख्यातप्रयोगोमुख्यएव। पथि श्रमशयानेऽपि पच-तीति स्यात् श्रमशान्तिद्वारा शयनस्य पाकानुकूलव्यापार-त्वात् तव यत्नविशेषस्येवानुकूलव्यापारविशेषस्य वाच्यत्वात्अन्यथा यत्नवाच्यत्वेऽपि तण्डुलानुकूलयत्नवति पचतीतिस्यात् एवमचेतनेऽपि करोतिनाख्यातविवरणात्करोत्यर्थोऽपि व्यापारविशेषः। कथन्तर्हि चैत्रःपचतीत्यत्रपाकानुकूलताप्रतीतिः आक्षेपादिति चेन्न आख्यातार्थेनव्यापारेण संख्यया वा यत्नानपेक्षणात् तयोः प्रयत्नंविनापि सत्त्वात् नापि कर्त्त्रा, द्रव्यमात्रस्य कर्त्तृत्वात् य-त्नवतश्च कर्तृत्वे आख्यातेन तदभिधाने यत्नस्याप्यभिधा-नात्। नापि धात्वर्थमात्रेण, तस्य यत्नं विनापिसत्त्वात् नापि यत्नोधात्वर्थः क्रियायास्तत्फलस्य वाधातुवाच्यत्वात् अन्यथा पाक इत्यत्रापि यत्नानुभवप्रसङ्गादिति चेत् न धात्वर्थविशेषेण पाकादिना यत्नाक्षेपात्तस्य यत्नं विनानुपपत्तेः। अथ पचतीत्यत्र पाकयत्नवा-निति विवरणात् यत्नार्थतेति चेत् तर्हि कर्त्त्रर्थतापि स्यात्न हि पाकयत्नैत्येव विवरणं पचतीत्यस्य, तत्पार्य्यविव-रणन्तत् तच्चाक्षेपेणापि निर्व्वहतीति चेत् तुल्यं यत्नेऽपिकथन्तर्हि रथोगच्छति, विद्यते व्योमेति भावनानुभवैतिचेत् न कथञ्चित्, भावनायाधात्वर्थान्वयायोग्यत्वेनत्वयापि तत्र गौणत्वाभ्युपगमादिति। उच्यते। चैत्रःपचतीत्यत्र पाकानुकूलयत्नानुभवावाद्यत्न एवाख्या-तार्थोलाघवात् नत्वनुकूलो व्यापारः यत्नत्वापेक्षया व्या-पारत्वस्योपाधित्वेन गुरुत्वात् नचाचेतन आख्यातार्थेमुस्यत्वार्थमनुगुणोव्यापार एवाख्यातवाच्यः मुख्यत्वसम्भवेत्यागायोगादिति वाच्यं शक्तिग्राहकेण लघुनि शक्तिपरिच्छेदात् अचेतने प्रयोगस्य घृत्त्यन्तरेणापि सम्भवात्। मुख्यत्वार्थं शक्तिकल्पने च वृत्त्यन्तरोच्छेदः। एतन व्यापा-रवाचकस्याख्यातस्य यत्नसाध्यार्थरूपपच्यादिधातूपसन्धा-नेन व्यापारविशेषयत्नोपस्थापनमिति निरस्तं लाघवेनयत्नस्यैव शक्यत्वात् ननु यत्नोनाख्यातार्थः पाकत्वेनपाकस्य यत्नसाध्यत्वानुमित्या यत्नलाभादित्युक्तमितिचेन्न चैत्रो यत्नं कतीत्यतः पाकानुकूलवर्तमानयत्नवान्प्रतीयते। नच पाकस्य वर्त्तमानयत्नेन व्याप्तिरस्ति अती-तानागतयोर्व्यभिचारात्। न च धात्वर्थेनानुमिते यत्नेआख्यातेन वर्त्तमानतान्वयः सम्भवति यत्नस्यापदार्थत्वात्स्वार्थव्यापारस्य वर्त्तमानत्वबोधनेनाख्यातस्य पर्य्यवसि-[Page2173-a+ 38] तत्वाच्च। अथ चैत्रः पाकानुकूलवर्त्तमानव्यापारवानितिशाब्दबोधानन्तरं चैत्रः पाकानुकूलवर्त्तमानयत्नवान् चे-तनत्वे सति पाकानुकूलवर्त्तमानव्यापारवत्त्वात् मैत्रवत्। अनुमानं विना च पाकयत्ने वर्त्तमानताभानमाख्यातस्ययत्ने शक्तिभ्रमादिति चेन्न यत्नाभावकालेऽपि तज्जन्यव्यापारस्य वर्त्तमानतया व्यभिचारात् किञ्च। व्यापारस्यवाच्यत्वं तल्लिङ्गकञ्च वर्त्तमानयत्नानुमानमिति कल्पनाद्वयमपेक्ष्य यत्न वाच्यत्वे लाघवात्। नचाचेतने आख्यातस्य व्यापारवाचकत्वाबधारणादेव कल्पनेति युक्तंगौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोपपत्तेः। यत्नविगमदशायां तज्जन्यव्यापारकाले पचतीत्यत्र वर्त्तमानव्यापाराभिधानमाख्यातेन लक्षणया। यथा रथोगच्छतीत्यत्र, अतोऽन्यलभ्यत्वान्न तदनुरोधेनव्यापारे शक्तिः। अन्यथा तवापि यत्नकाले पचतीति न-स्यात् तस्मान्न लडाख्यातं यत्नावाचकं आख्यातत्वात् लिङा-ख्यातवत् तर्कश्चोक्त एव। एतेन फलानुकूलोव्यापारोधात्वर्थः आख्यातवाच्या संख्यैव तेन चैत्रः पचतिरथो गच्छतीत्यत्र चैत्ररथयोर्धात्वर्थानुकूलव्यापारवत्त्वप्रतीते र्मुख्य एव प्रयोगः। पचतीत्यत्र यत्नलाभोधार्त्वेनाक्षेपात् विकॢत्त्यनकूलव्यापारस्य यत्नं विनानुपपत्ते रितिगुरुमतमपास्तं पचतीत्यत्र पाकानुकूलयत्नवर्त्तमान त्वस्या-क्षेपादलाभेनाख्यातार्थत्वात्”। रत्नकोषकृतस्तु धात्वर्थोव्यापारः आख्यातार्थ उत्पादना सा चोत्पादकता सैवभावना पचतीत्यादावाख्यातस्य पाकमुत्पादयतीति विवर-णात् धात्वर्थोत्पादकता च चेतनाचेतनयोरिति सर्व्व-त्राख्यातप्रयोगो मुख्यएव। यतते जानातीत्यादावपियत्नं ज्ञानमुत्पादयतीत्यर्थात् नतु व्यापारो यत्नोवाख्या-तार्थः यतत इत्यादौ मुख्यत्वे सति गौणत्वस्यान्याय्यत्वात्आख्यातार्थविवरणकरोत्यर्थोऽप्युत्पादकतैव पाकं करो-तीत्यादौ करोतीत्यस्योत्पादयतीति विवरणात् घटंकरोतीत्यादौ कृञर्थ उत्पत्तिरेव गम्यते। अतएव किंकरोतीतिं सामान्योत्पादनाप्राश्ने पचतीति पाकोत्-पादनाविशेषेणोत्तरमात्रमपि समञ्जसम्। चैत्र उत्पाद-यतीत्यत्र धात्वर्थ एवोत्पादना चैत्रेणान्वेति आख्या-तार्थोत्पादना त्वनन्वितैव उत्पत्तेरुत्पत्त्यभावात्। वस्तुतस्तूत्पादयतीत्यत्र धात्वर्थ एवोत्पादना अतोऽनुत्पा-दनार्थधातूत्तरवर्त्तिन आख्यातस्यानन्यलभ्यतयोत्पादनावाच्या” तन्मतञ्च शब्दचि॰ दूषितं विस्तरभयान्नोद्धृतम्। [Page2173-b+ 38] एवं दर्शितेषु मतेषु युक्तायुक्तत्वं सुघीभिर्भाव्यम्। ततः स्वार्थे--णिच् कारयति करोतीत्यर्थः।
“दश वर्ष-सहस्राणि रामो राज्यमकारयदित्यादि” रामा॰

कृ¦ बधे स्वादि उभ॰ सक॰ सेट्। कृणोति कृणुते अका-र्षीत् अकृत। चकार। अस्य न सुट् सुड्विधौ ताना-दिकस्यैव ग्रहणात्।

कृ¦ विक्षेपे तुदा॰ पर॰ सक॰ सेट्। किरति अकारीत्। [Page2229-a+ 38] अकारिष्टाम् चकार चकरतुः चकरिव। करीता। क(रि)रीष्यति करी(रि)तव्यः कार्य्यः। कर्म्मणि कीर्य्यतेअकारि अकारिषाताम् अकारि(क(रि)री) सात्राम्किरन् कीर्य्यमाणः। कीर्ण्णःकीर्ण्णिः करी(रि)तुभ्अनु + पश्चात् क्षेपे अनुकिरति अनुकीर्ण्णःअप + हर्पवासभक्षणार्थतया खनने तत्र चतुष्पाजन्तु--पक्षिकर्त्तृके आ॰ सुट् च। अपस्किरते हृष्टो वृषः भक्षार्थीकुक्कुटः। वासार्थी श्वा वा। हर्षाभावे तु न सृट् न वातङ। अपकिरति कुसुमम्। अव + अधःक्षेपणे दूरतःप्रक्षेपे च सक॰ अवकिरति मलार्थेसुट् अवस्करः। व्रतात् पतने अक॰। अवकीण्णींआ + समन्तात् क्षेपणे विस्तारे च सक॰
“आकीर्ण्णमृषिपत्नीनामुटजद्वाररोधिभिः” रघुःउद् + उत्खनने (गाडा) उत्कीर्ण्णशब्दे उदा॰सम् + उद् + छेदने विदारणे हिंसायां च सक॰
“मणौ वज्रसमुत्कीर्णे” रघुःउप + छेदने सुट् च। उपष्किरतिपरा + सम्यक क्षेपे व्याप्तौ च सक॰ पराकीर्ण्णःप्र + प्रक्षेपे सक॰ नानाजातीयैर्मेलने। प्रकीर्ण्णम्प्रति + हिंसायाम् सुट् च।
“उरोविदारं प्रतिचस्करे नखैः” माघःवि + विक्षेपे सक॰
“व्यवीर्य्यत त्र्यम्बकपादमूलेः कुमा॰सम् + मिश्रणे। सङ्करः सङ्कीर्ण्णः

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृ¦ r. 5th cl. (ञ) कृञ् (कृणोति, कृणुते) To hurt, to injure, to kill. (डु, ञ,) डुकृञ् r. 8th cl. (करोति, कुरुते) To do, to make, to perform any kind of action: this root admits most of the prepositions and a variety of significations; it is also active or deponent, according to its pre- fix and import; as,
1. With अति, (अतिकुरुते) To exceed, to do more.
2. With अधि, (अधिकुरुते) a. To surpass or overcome. b. To superint- end, to govern. c. To hold of right. d. To bear patiently. e. To re- frain from.
3. With अनु (अनुकरोति) To copy, to imitate, to act like or after.
4. With अप (अपकुरुते) a. To wrong, to injure. b. To do evil.
5. With आङ् (आकुरुते) a. To call. b. To take shape or form.
6. With उत् (उत्कुरुते) a. To kill or hurt dangerously. b. To collect, to assem- ble.
7. With उद्, and आङ् (उदाकुरुते) To reproach.
8. With उप (उपकुरुते) To befriend, to serve or assist.
9. With उप, and स inserted (उपस्कुरुते, or उपस्करोति) To alter. (उपस्करोति) a. To polish, to adorn. b. To assemble. c. To reply.
10. With तिरस् (तिरस्करोति) To abuse, to revile.
11. With दुर (दुष्करोति) To do evil.
12. With निर् and आङ (निराकुरुते) a. To make light of, to contemn. b. To expel. c. To annihilate.
13. With परि, and स inserted (परिष्करोति) To polish, to refine, to make elegant or perfect.
14. With पर and आङ् (पराकरोति) To act well.
15. With प्र (प्रकुरुते) a. To begin. b. To do anything quickly. c. To serve. d. To allot, to portion. e. To vio- late. f. To chaunt, to recite.
16. With प्रति (प्रतिकुरुते) a. To counter- act. b. To retaliate. c. To remedy.
17. With प्रति and उप (प्रत्युपकुरुते) To requite, to return a kindness; with वि (विकुरुते) a. To utter, to sound. b. To seek, strive for. (विकरोति) a. To alter, to change in form. b. To disturb or agitate.
18. With वि and आङ् (व्याकुरुते) a. To explain, to expound. b. To make manifest or public.
19. With सम् (संस्करोति) a. To polish, to perfect. b. To assemble, to bring to- gether.
20. With सु (सुकरोति) To do well.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृ [kṛ], I. 5 U. (कृणोति-कृणुते) To hurt, injure, kill. -II. 8 U. (करोति-कुरुते, चकार-चक्रे, अकार्षीत्-अकृत; कर्तुम्, करिष्यति-ते कृत)

To do (in general); तात किं करवाण्यहम्

To make; गणिकामवरोधमकरोत् Dk; नृपेण चक्रे युवराजशब्दभाक् R.3.35; युवराजः कृतः &c.

To manufacture, shape, prepare; कुम्भकारो घटं करोति; कटं करोति &c.

To build, create; गृहं कुरु; सभां कुरु मदर्थे भोः.

To produce, cause, engender; रतिमुभयप्रार्थना कुरुते Ś.2.1.

To form, arrange; अञ्जलिं करोति; कपोतहस्तकं कृत्वा.

To write, compose; चकार सुमनोहरं शास्त्रम् Pt.1.

To perform, be engaged in; पूजां करोति.

To tell, narrate; इति बहुविधाः कथाः कुर्वन् &c.

To carry out, execute, obey; एवं क्रियते युष्मदादेशः Māl.1; or करिष्यामि वचस्तव or शासनं मे कुरुष्व &c.

To bring about, accomplish, effect; सत्सं- गतिः कथय किं न करोति पुंसाम् Bh.2.23.

To throw or let out, discharge, emit; मूत्रं कृ to discharge urine, make water; so पुरीषं कृ to void excrement.

To assume, put on, take; स्त्रीरूपं कृत्वा; नानारूपाणि कुर्वाणः Y.3. 162.

To send forth, utter; मानुषीं गिरं कृत्वा, कलरवं कृत्वा &c.

To place or put on (with loc.); कण्ठे हारम- करोत् K.212; पाणिमुरसि कृत्वा &c.

To entrust (with some duty), appoint; अध्यक्षान् विविधान्कुर्यात्तत्र तत्र विपश्चितः Ms.7.81.

To cook (as food) as in कृतान्नम्.

To think, regard, consider; दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा U.6. 19.

To take (as in the hand); कुरु करे गुरुमेकमयोघनं N.4.59.

To make a sound, as in खात्कृत्य, फूत्कृत्य भुङ्क्ते; so वषट्कृ, स्वाहाकृ &c.

To pass, spend (time); वर्षाणि दश चक्रुः spent; क्षणं कुरु wait a moment.

To direct towards, turn the attention to, resolve on; (with loc. or dat.); नाधर्मे कुरुते मनः Ms.12.118; नगरगमनाय मतिं न करोति Ś.2.

To do a thing for another (either for his advantage or injury); प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नाङ्- कुरज्योतिषि किं करोति Vikr.1.18; यदनेन कृतं मयि, असौ किं मे करिष्यति &c.

To use, employ, make use of; किं तया क्रियते धेन्वा Pt.1.

To divide, break into parts (with adverbs ending in धा); द्विधा कृ to divide into two parts; शतधा कृ, सहस्रधा कृ &c.

To cause to become subject to, reduce completely to (a particular condition, with adverbs ending in सात्); आत्मसात् कृ to subject or appropriate to oneself; दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् R.8.2; भस्मसात् कृ to reduce to ashes.

To appropriate, secure for oneself.

To help, give aid.

To make liable.

To violate or outrage (as a girl).

To begin.

To order.

To free from.

To proceed with, put in practice.

To worship, sacrifice.

To make like, consider equal to, cf. तृणीकृ (said to be Ātm. only in the last 1 senses).

To take up, gather; आदाने करोतिशब्दः Ms.4.2.6; यथा काष्ठानि करोति गोमयानि करोति इति आदाने करोतिशब्दो भवति एवमिहापि द्रष्टव्यम् ŚB. on MS.4.2.6. This root is often used with nouns, adjectives, and indeclinables to form verbs from them, somewhat like the English affixes 'en' or '(i) fy', in the sense of 'making a person or thing to be what it previously is not'; e. g. कृष्णीकृ to make that which is not already black, black, i. e. blacken; so श्वेतीकृ to whiten; घनीकृ to solidify; विरलीकृ to rarefy &c. &c. Sometimes these formations take place in other senses also; e. g. क्रोडीकृ 'to clasp to the bosom', embrace; भस्मीकृ to reduce to ashes; प्रवणीकृ to incline, bend; तृणीकृ to value as little as straw; मन्दीकृ to slacken, make slow; so शूलीकृ to roast on the end of pointed lances; सुखीकृ to please' समयाकृ to spend time &c. N. B.- This root by itself admits of either Pada; but it is Ātm. generally with prepositions in the following senses:(1) doing injury to; (2) censure, blame; (3) serving; (4) outraging, acting violently or rashly; (5) preparing, changing the condition of, turning into; (6) reciting; (7) employing, using; see P.I.3.32 and गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः Students' Guide to Sanskrit Composition" 338. Note. The root कृ is of the most frequent application in Sanskrit literature, and its senses are variously modified, or almost infinitely extended, according to the noun with which the root is connected; e. g. पदं कृ to set foot (fig. also); आश्रमे पदं करिष्यसि Ś.4.19; क्रमेण कृतं मम वपुषि नव- यौवनेन पदम् K.141; मनसा कृ to think of, meditate; मनसि कृ to think; दृष्ट्वा मनस्येवमकरोत् K.136; or to resolve or determine; सख्यम्, मैत्रीं कृ to form friendship with; अस्त्राणि कृ to practise the use of weapons; दण्डं कृ to inflict punishment; हृदये कृ to pay heed to; कालं कृ to die; मतिं-बुद्धिं कृ to think of, intend, mean; उदकं कृ to offer libations of water to manes; चिरं कृ to delay; दर्दुरं कृ to play on the lute; नखानि कृ to clean the nails; कन्यां कृ to outrage or violate a maiden; विना कृ to separate from, to be abandoned by, as in मदनेन विनाकृता रतिः Ku.4.21; मध्ये कृ to place in the middle, to have reference to; मध्येकृत्य स्थितं क्रथकौशिकान् M.5.2; वेशे कृ to win over, place in subjection, subdue; चमत्कृ to cause surprise; make an exhibition or a show; सत्कृ to honour, treat with respect; तिर्यक्कृ to place aside. -Caus. (कारयति-ते) To cause to do, perform, make, execute &c.; आज्ञां कारय रक्षोभिः Bk.8.84; भृत्यं भृत्येन वा कटं कारयति Sk. -Desid. (चिकीर्षति- ते) To wish to do &c.; Śi.14.41.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृ Ved.(I) cl.2 P. 2. sg. कर्षिdu. कृथस्pl. कृथ; A1. 2. sg. कृषे; impf. 2. and 3. sg. अकर्, 3. sg. rarely अकत्( S3Br. iii , xi )Page301,1 ; 3. du. अकर्ताम्; pl. अकर्म, अकर्त(also BhP. ix ) , अक्रन्( aor. , according to Pa1n2. 4-2 , 80 Ka1s3. ) ; A1. अक्रि( RV. x , 159 , 4 and 174 , 4 ) , अकृथास्( RV. v , 30 , 8 ) , अकृत( RV. ) ; अक्राताम्( S3a1n3khS3r. ) , अक्रत( RV. AV. ) : Impv. कृधि(also MBh. i , 5141 and BhP. viii ) , कृतम्, कृत; A1. कृष्व, कृध्वम्; Subj. 2. and 3. sg. कर्pl. कर्म, कर्तand कर्तन, क्रन्; A1. 3. sg. कृत( RV. ix , 69 , 5 ) , 3. pl. क्रन्त( RV. i , 141 , 3 ) : Pot. क्रियाम( RV. x , 32 , 9 ) ; pr. p. P. ( nom. pl. ) क्रन्तस्A1. क्राण. (II) cl.1 P. करसि, करति, करथस्, करतस्, करन्ति; A1. करसे, करते, करामहे: impf. अकरम्, अकरस्, अकरत्( aor. , according to Pa1n2. 3-1 , 59 ) : Impv. कर, करतम्, करताम्: Subj. करम्, कराणि, करस्, करत्, कराम, करन्; A1. करामहै; pr. p. f. करन्ती( Naigh. )(III) cl.5 P. कृणोमि, णोषि, णोति, कृणुथस्, कृण्मस्and कृण्मसि, कृणुथ, कृण्वन्ति; A1. कृण्वे, कृणुषे, कृणुते, 3. du. कृण्वैते( RV. vi , 25 , 4 ) ; pl. कृण्महे, कृण्वते: impf. अकृणोस्, अकृणोत्, अकृणुतम्, अकृणुतand णोतन( RV. i , 110 , 8 ) , अकृण्वन्; A1. 3. sg. अकृणुतpl. अकृणुध्वम्, अकृण्वत: Impv. कृणुor कृणुहिor कृणुतात्, कृणोतु, कृणुतम्, कृणुताम्, 2. pl. कृणुतor कृणोतor कृणोतन, 3. pl. कृण्वन्तु; A1. कृणुष्व, कृणुताम्, कृण्वाथाम्, कृणुध्वम्: Subj. कृणवस्, णवत्or णवात्, कृणवाव, णवाम, णवाथ, णवथ, णवन्; A1. कृणवै(once णवाRV. x , 95 , 2 ) , कृणवसे(also S3vetUp. ii , 7 v.l. ण्वसे) , कृणवते, कृणवावहै, कृणवामहै, 3. pl. कृणवन्त( RV. )or कृणवन्तेor कृण्वत( RV. ) : Pot. A1. कृण्वीत; pr. p. P. कृण्वत्( f. वती) A1. कृण्वाण. (IV) cl.8. (this is the usual formation in the ब्राह्मणs ; सूत्रs , and in classical Sanskrit) P. करोमि( ep. कुर्मिMBh. iii , 10943 R. ii , 12 , 33 ) ; कुर्वस्, कुरुथस्, कुरुतस्, कुर्मस्([ कुल्मस्in an interpolation after RV. x , 128 ]) , कुरुथ, कुर्वन्ति; A1. कुर्वे, etc. , 3. pl. कुर्वते( Pa1n2. 6-4 , 108-110 ) : impf. अकरवम्, अकरोस्, अकरोत्, अकुर्व, etc. ; A1. 3. sg. अकुरुतpl. अकुर्वत: Impv. कुरु, करोतु(in the earlier language 2. and 3. sg. कुरुतात्, 3. sg. also BhP. vi , 4 , 34 ) , कुरुतor कुरुतन( Nir. iv , 7 ) ; A1. कुरुष्व, कुरुध्वम्, कुर्वताम्: Subj. करवाणि, करवस्, वात्, वावor वावस्( Pa1n2. 3-4 , 98 Ka1s3. ) , वामor वामस्( ib. ) , वाथ, वन्; A1. करवै, कुरुथास्, करवावहै( TUp. ; हेMBh. iii , 10762 ) , करवैथे, वैते( Pa1n2. 3-4 , 95 , Ka1s3. ) , वामहै( हेMBh. R. i , 18 , 12 ) : Pot. P. कुर्याम्A1. कुर्वीय( Pa1n2. 6-4 , 109 and 110 ) ; pr. p. P. कुर्वत्( f. वती) ; A1. कुर्वाण: perf. P. चकार, चकर्थ, चकृव, चकृम, चक्र( Pa1n2. 7-2 , 13 ) ; A1. चक्रे, चक्रिरे; p. चकृवस्( acc. चक्रुषम्RV. x , 137 , 1 ) ; A1. चक्राण( Vop. ) : 2nd fut. करिष्यति; Subj. 2. sg. करिष्यास्( RV. iv , 30 , 23 ) ; 1st fut. कर्ता: Prec. क्रियासम्: aor. P. Ved. चकरम्( RV. iv , 42 , 6 ) , अचक्रत्( RV. iv , 18 , 12 ) , अचक्रिरन्( RV. viii , 6 , 20 ) ; A1. 1. sg. कृस्के( RV. x , 49 , 7 ) ; Class. अकार्षीत्( Pa1n2. 7-2 , 1 Ka1s3. ; once अकारषीत्BhP. i , 10 , 1 ) ; Pass. aor. reflex. अकारिand अकृत( Pa1n2. 3-1 , 62 Ka1s3. ) : Inf. कर्तुम्, Ved. कर्तवे, कर्तवै, कर्तोस्(See. ss.vv. ) ; ind.p. कृत्वा, Ved. कृत्वी([ RV. ])and कृत्वाय([ TS. iv , v ]); to do , make , perform , accomplish , cause , effect , prepare , undertake RV. etc. ; to do anything for the advantage or injury of another( gen. or loc. ) MBh. R. etc. ; to execute , carry out (as an order or command) ib. ; to manufacture , prepare , work at , elaborate , build ib. ; to form or construct one thing out of another( abl. or instr. ) R. i , 2 , 44 Hit. etc. ; to employ , use , make use of( instr. ) S3vetUp. Mn. x , 91 MBh. etc. ; to compose , describe R. i ; to cultivate Ya1jn5. ii , 158 ( cf. Mn. x , 114 ); to accomplish any period , bring to completion , spend( e.g. वर्षाणि दश चक्रुः, " they spent ten years " MBh. xv , 6 ; क्षणं कुरु, " wait a moment " MBh. ; cf. क्रितक्षण); to place , put , lay , bring , lead , take hold of( acc. or loc. or instr. e.g. अर्धं-कृ, to take to one's own side or party , cause to share in ( gen. ; See. 2. अर्ध) ; हस्तेor पाणौ-कृ, to take by the hand , marry Pa1n2. 1-4 , 77 ; हृदयेन-कृ, to place in one's heart , love Mr2icch. ; हृदि-कृ, to take to heart , mind , think over , consider Ra1jat. v , 313 ; मनसि-कृid. R. ii , 64 , 8 Hcar. ; to determine , purpose [ ind.p. सि-कृत्वाor सि-कृत्य] Pa1n2. 1-4 , 75 ; वशे-कृ, to place in subjection , become master of Mn. ii , 100 ); to direct the thoughts , mind , etc. ( मनस्[ RV. Mn. MBh. etc. ] or बुद्धिम्[ Nal. xxvi , 10 ] or मतिम्[ MBh. R. ] or भावम्[ ib. ] , etc. ) towards any object , turn the attention to , resolve upon , determine on( loc. dat. inf. , or a sentence with इतिe.g. मा शोके मनः कृथाः, do not turn your mind to grief Nal. xiv , 22 Page301,2 ; गमनाय मतिं चक्रे, he resolved upon going R. i , 9 , 55 ; अलाबुं समुत्स्रष्टुं मनश् चक्रे, he resolved to create a gourd MBh. iii , 8844 ; द्रष्टा तवा-स्मी-ति मतिं चकार, he determined to see him MBh. iii , 12335 ); to think of( acc. ) R. i , 21 , 14 ; to make , render (with two acc. e.g. आदित्यं काष्ठाम् अकुर्वत, they made the sun their goal AitBr. iv , 7 ) RV. S3Br. etc. ; to procure for another , bestow , grant (with gen. or loc. ) RV. VS. S3Br. etc. ; A1. to procure for one's self , appropriate , assume S3Br. Br2A1rUp. Mn. vii , 10 etc. ; to give aid , help any one to get anything( dat. ) RV. VS. ; to make liable to( dat. ) RV. iii , 41 , 6 S3Br. iv ; to injure , violate( e.g. कन्यां-कृ, to violate a maiden) Mn. viii , 367 and 369 ; to appoint , institute ChUp. Mn. ; to give an order , commission Mn. R. ii , 2 , 8 ; to cause to get rid of , free from( abl. or -तस्) Pa1n2. 5-4 , 49 Ka1s3. ; to begin( e.g. चक्रे शोभयितुम् पुरीम्, they began to adorn the city) R. ii , 6 , 10 ; to proceed , act , put in practice VS. S3Br. AitBr. etc. ; to worship , sacrifice RV. S3Br. Mn. iii , 210 ; to make a sound( स्वरम्or शब्दम्) MBh. iii , 11718 Pa1n2. ( iv , 4 , 34 Hit. ) , utter , pronounce (often ifc. with the sounds फट्, फुत्, भाण्, वषट्, स्वधा, स्वाहा, हिं) , pronounce any formula( Mn. ii , 74 and xi , 33 ); (with numeral adverbs ending in धा)to divide , separate or break up into parts( e.g. द्विधा-कृ, to divide into two parts , ind.p. द्विधा कृत्वाor द्विधा-कृत्यor -कारम्Pa1n2. 3-4 , 62 ; सहस्रधा-कृ, to break into a thousand pieces); (with adverbs ending in वत्)to make like or similar , consider equivalent( e.g. राज्यं तृण-वत् कृत्वा, valuing the kingdom like a straw Vet. ); (with adverbs ending in सात्)to reduce anything to , cause to become , make subject(See. आत्म-सात्, भस्म-सात्) Pa1n2. 5-4 , 52 ff. The above senses of कृmay be variously modified or almost infinitely extended according to the noun with which this root is connected , as in the following examples: सख्यं-कृ, to contract friendship with; पूजां-कृ, to honour; राज्यं-कृ, to reign; स्नेहं-कृ, to show affection; आज्ञांor निदेशंor शासनंor कामंor याचनांor वचःor वचनंor वाक्यं-कृ, to perform any one's command or wish or request etc. ; धर्मं-कृ, to do one's duty Mn. vii , 136 ; नखानि-कृ, " to clean one's nails "See. कृत-नख; उदकं([ Mn. Ya1jn5. R. Das3. ])or सलिलं([ R. i , 44 , 49 ]) कृ, to offer a libation of Water to the dead; to perform ablutions; अस्त्राणि-कृ, to practise the use of weapons MBh. iii , 11824 ; दर्दुरं-कृ, to breathe the flute Pa1n2. 4-4 , 34 ; दण्डं-कृ, to inflict punishment etc. Vet. ; कालं-कृ, to bring one's time to an end i.e. to die; चिरं-कृ, to be long in doing anything , delay; मनसा(for सिSee. above ) कृ, to place in one's mind , think of , meditate MBh. ; शिरसा-कृ, to place on one's the head; मूर्ध्ना-कृ, to place on one's head , obey , honour. Very rarely in वेद( AV. xviii , 2 , 27 ) , but commonly in the ब्राह्मणs , सूत्रs , and especially in classical Sanskrit the perf. forms चकारand चक्रेauxiliarily used to form the periphrastical perfect of verbs , especially of causatives e.g. आसां चक्रे, " he sat down "; गमयां चकार, " he caused to go " [see Pa1n2. 3-1 , 40 ; in वेदsome other forms of कृare used in a similar way , viz. pr. करोतिS3a1n3khS3r. ; impf. अकर्MaitrS. and Ka1t2h. ; 3. pl. अक्रन्MaitrS. and TBr. ; Prec. क्रियात्MaitrS. (See. Pa1n2. 3-1 , 42 ) ; according to Pa1n2. 3-1 , 41 , also करोतुwith विद्]. Caus. कारयति, ते, to cause to act or do , cause another to perform , have anything made or done by another (double acc. instr. and acc. [see Pa1n2. 1-4 , 53 ] e.g. सभां कारितवान्, he caused an assembly to be made Hit. ; राज-दर्शनं मां कारय, cause me to have an audience of the king ; वाणिज्यं कारयेद् वैश्यम्, he ought to cause the वैश्यto engage in trade Mn. viii , 410 ; न शक्ष्यामि किंचित् कारयितुं त्वया, I shall not be able to have anything done by thee MBh. ii , 6 ); to cause to manufacture or form or cultivate La1t2y. Ya1jn5. ii , 158 MBh. etc. ; to cause to place or put , have anything placed , put upon , etc. ( e.g. तं चित्रपटं वास-गृहे भित्ताव् अकारयत्, he had the picture placed on the wall in his house Katha1s. v , 30 ) Mn. viii , 251 . Sometimes the Caus. of कृis used for the simple verb or without a causal signification( e.g. पदं कारयति, he pronounces a word Pa1n2. 1-3 , 71 Ka1s3. Page301,3 ; मिथ्या क्, he pronounces wrongly ib. ; कैकेयीम् अनु राजानं कारय, treat or deal with कैकेयीas the king does R. ii , 58 , 16 ) : Desid. चिकीर्षति( aor. 2. sg. अचिकीर्षीस्S3Br. iii ) , ep. also ते, to wish to make or do , intend to do , design , intend , begin , strive after AV. xii , 4 , 19 S3Br. Ka1tyS3r. Mn. etc. ; to wish to sacrifice or worship AV. v , 8 , 3 : Intens. 3. pl. करिक्रति( pr. p. करिक्रत्See. Naigh. ii , 1 and Pa1n2. 7-4 , 65 ) , to do repeatedly RV. AV. TS. ; Class. चर्कर्तिor चरिकर्तिor चरीकर्ति([ Pa1n2. 7-4 , 92 Ka1s3. ]) , also चर्करीतिor चरिकरीतिor चरीकरीतिor चेक्रीयते([ib. Sch. Vop. ]) ; ([ cf. Hib. caraim , " I perform , execute " ; ceard , " an art , trade , business , function " ; sucridh , " easy " ; Old Germ. karawan , " to prepare " ; Mod. Germ. gar , " prepared (as food) " ; Lat. creo , ceremonia ; ?.])

कृ cl.3 P. p. चक्रत्( Pot. 2. sg. चक्रियास्; aor. 1. sg. अकार्षम्[ AV. vii , 7 , 1 ] or अकारिषम्[ RV. iv , 39 , 6 ]) , to make mention of , praise , speak highly of( gen. ) RV. AV. : Intens. (1. sg. चर्कर्मि, 1. pl. चर्किराम, 3. pl. चर्किरन्; Impv. 2. sg. चर्कृतात्and चर्कृधि; aor. 3. sg. A1. चर्कृषे) id. RV. AV. (See. कारु, कीरि, कीर्ति.)

कृ to injure , etc. See. 2. कॄ.

"https://sa.wiktionary.org/w/index.php?title=कृ&oldid=497021" इत्यस्माद् पुनः प्राप्तिः