कृच्छ्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृच्छ्रम्, क्ली, (कृन्तति सुखम् । कृति छेदने “कृतेश्छ- क्रू च” । उणां । २ । २१ इति रक् छश्चान्तादेशः ।) कष्टम् । (यथा, मनुः ६ । ७८ । “नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजन्निमन्देहं कृच्छ्राद्ग्राहाद्विमुच्यते” ॥ “मिवोपला वा समयावशूका कृच्छ्रेय सर्व्वेष्वपि भेषनं स्यात्” ॥ “रेतोविघातप्रभवे तु कृच्छ्रे समीक्ष्य दोषं प्रतिकर्म कुर्य्यात्” ॥ इति चरके चिकित्सास्थाने २६ अध्याये ॥) तद्वति त्रि ॥ कृन्तत्यनेन पापमिति । सान्तपनादि- व्रतम् । इत्यमरः । २ । ७ । ४२ ॥ (यथा, याज्ञवल्क्ये । “गोमूत्रं गोमयं क्षीरं दधिसर्पिःकुशोदकम् । जग्ध्वा परेह्न्युपवसेत् कृच्छ्रं सान्तपनं चरन्” ॥) स्मृतौ व्रते पुंलिङ्गोऽप्ययम् ॥ पापम् । इति मेदिनी ॥ मूत्रकृच्छ्ररोगः । इति राजनिर्घण्टः ॥ (“हरीतकीगोक्षुरराजवृक्ष- पाषाणभिद्धन्नयवासकानाम् । क्वाथं पिबेन्माक्षिकसंप्रयुक्तम् ॥” इति वैद्यकचक्रपाणिसङ्ग्रहे मूत्रकृच्छ्राधिकारे ॥ व्यसनम् । यथा, रामायणे ४ । १४ । १४ । “अनृतं नोक्तपूर्ब्बं मे चिरं कृच्छ्रेऽपि तिष्ठता । धर्म्मलोभपरीतेन न च वक्ष्ये कथञ्चन” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृच्छ्र नपुं।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

1।9।3।3।2

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

कृच्छ्र नपुं।

प्रायश्चित्तकर्मम्

समानार्थक:कृच्छ्र

2।7।52।1।2

देवभूयादिकं तद्वत्कृच्छ्रं सान्तपनादिकम्. संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृच्छ्र¦ पु॰ न॰ कृत--रक् छोऽन्तादेशः उणा॰।

१ सान्तापनादिव्र{??}कृच्छ्रश्च नानाविधः मिता॰ दर्शितः यथा[Page2174-a+ 38]
“गोमूत्रं गोमयं क्षीरन्दधि सर्प्पिः कुशोदकम्। जग्ध्वा-परेऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्चरन्” या॰।
“पूर्वेद्युरा-हारान्तरपरित्यागेन गोमूत्रादीनि गव्यानि पञ्च द्रव्याणिकुशोदकसहितानि संयुज्य पीत्वा अपरेद्युरुषवसेदिति द्वै-रात्रिकः सान्तपनः कृच्छ्रः सान्तपनञ्चोत्तरश्लोके पृथग्वि-धानादवगम्यते। कृच्छ्र इति चान्वर्थसंज्ञेयम् तपोरूपत्वेनक्लेशसाध्यत्वात्। गोमूत्रादीनाम्परिमाणं वक्ष्यते। यदापुनः पूर्बेद्युरुपोष्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकमेवपञ्चगव्यम्पीयते तदा ब्रह्मकूर्च इत्याख्यायते यथाहपराशरः
“गोमूत्रङ्गोनयं क्षीरन्दधि सर्प्पिः कुशोदकम्। निर्दिष्टम्पञ्चगव्यन्तु पवित्रं कायशोधनम्। गोमूत्रन्ता-म्रवर्णायाः, श्वेतायाश्चापि गोमयम्। पवः काञ्चनव-र्णाया, नीलायाश्च तथा दधि। घृतञ्च कृष्णवर्णायाः-सर्वं कापिलमेव वा। अलाभे सर्ववर्णानाम्पञ्चगव्येष्वयंविधिः। गोमूत्रमाषकास्त्वष्टौ गोमयस्य तु षोडश। क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश कीर्त्तिताः। गोमूत्रव-द्वृतस्येष्टास्तदर्द्धन्तु कुशोदकम्। गायत्र्यादाय गोमूत्रं,गन्धद्वारेति गोमयम्। आप्यायस्वेति च क्षीरन्दधि-क्राव्णेति वै दधि। तेजोऽसि शुक्रमित्याज्यन्देवस्य त्वाकुशोदकम्। पञ्चगव्यमृचा पूतं होमयेदग्निसन्निधौ। सप्तपत्रास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः। एतैरु-द्धृत्य होतव्यम्पञ्चगव्यं यथाविधि। इरावती इदंवि-ष्णुर्मानस्तोके च शंवतीः। एताभिश्चैव होतव्यं हुत्वाशेषं पिबेद्द्विजः। प्रणवेन समालोष्ट्य प्रनवेनाभिमन्त्र्यच। प्रणवेन समुद्धृत्य पिबेत्तत् प्रणवेन तु। मध्यमेनपलाशस्य पद्मपत्रेण वा पिबेत्। स्वर्णपात्रेण रौप्येणब्रह्मतीर्थेन वा पुनः। यत्त्वगस्थिगतम्पापं देहे तिष्ठतिमानवे। ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनमिति”। यदात्ये तदेव विमिश्रितम्पञ्चगव्यं त्रिरात्रमभ्यस्यते तदायतिसान्तपनसंज्ञां लभते
“एतदेव त्र्यहाभ्यस्तं यति-सान्तपनं स्मृतमिति” शङ्खस्मरणात्। जावालेन तु स-प्ताहसाध्यं सान्तपनमुक्तम्
“गोमूत्रङ्गोमयं क्षीरन्द-धि सर्प्पिः कुशोदकम्। एकैकं प्रत्यहम्पीत्वा त्वहोरात्र-मभोजनम्। कृच्छ्रः सान्तपनो नाम सर्वपापप्रणाशनः” इति। एषाञ्च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्थाविज्ञेया। एवमुत्तरत्रापि व्यवस्था बोद्धव्या। महासा-न्तपनाख्यं कृच्छ्रमाह
“पृथक् सान्तपनद्रव्यैः षडहःसोपवासकः। सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः[Page2174-b+ 38] स्मृतः” या॰ सप्ताहेनापवर्त्तितो महासान्तपनाख्यः कृच्छ्रोविज्ञेयः कथमित्यपेक्षायामुक्तम् पृथग्भूतैः षड्भिर्गो-मूत्रादिभिरेकैकेनैकैकमहरतिवाहयेत्सप्तमञ्चोपवासेनेति। यमेन तु पञ्चदशाहसम्पाद्यो महासान्तपनोऽभि-हितः
“त्र्यहम्पिबेत्तु गोमूत्रन्त्र्यहं वै गोमयम्पिबेत्। त्र्यहन्दधि त्र्यहं क्षीरन्त्र्यहं सर्पिस्ततः शुचिः। महासात्तपनं ह्येतत्सर्वपापप्रणाशनमिति”। जावालेनत्वेकविंशतिरात्रनिर्वर्त्यो महासान्तपन उक्तः।
“षण्णामे-कैकमेतेषां त्रिरात्रमुपयोजयेत्। त्र्यहञ्चीपवसे-दन्त्यं महासान्तपनं विदुरिति”। यदा तु षण्णां सान्त-पनद्रव्याणामेकैकस्य द्व्यहमुपयोगस्तदातिसान्तपनम्यथाह मनुः
“एतान्येव तथा पेयान्येकैकन्तु द्व्यहंद्व्यहम्। अतिसान्तपनन्नाम श्वपाकमपि शोधयेदिति”। श्वपाकमपि शोधयेदित्यर्थवादः। इति महासान्तपनातिसान्तपने। पर्णकृच्छ्राख्यं व्रतमाह
“पर्णोदुम्बररा-जीवविल्वपत्रकुशोदकैः। प्रत्येकस्प्रत्यहम्पीतैः पर्णकृच्छ्रउदाहृतः” या॰।
“पलाशोदुम्बरारावन्दश्रीवृक्षपर्णा-नामेकैकेन क्वाथितमुदकम्प्रत्यहम्पिबेत् कुशोदकञ्चैकस्मिन्न-हनीति पञ्चाहसाध्यः पर्णकृच्छ्र। यदा तु पर्णादीनामे-कीकृतानां क्वाथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चःयथाह यमः
“एतान्येव समस्तानि त्रिरात्रोपोवितःशुचिः। क्वाथयित्वा पिबेदद्भिः प्रर्णकूर्चोऽभिधीयते” इति। यदा तु विल्वादिफलानि प्रत्येकं क्वथितानिभासम्पीयन्ते तदा फलकृच्छादिव्यपदेशं लभते यथाहमार्कण्डेयः
“फलैर्मासेन कथितः फलकृच्छो मनीषिभिः। श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा। मासेना-{??}लकैरेवं श्रीकृच्छ्रमपरं स्मृतम्। पत्रैर्मतः पत्रकृच्छ्रःपुष्पैस्तत्कृच्छ्र उच्यते। मूलकृच्छः स्मृतो मूलैस्तोयकृच्छ्राजलेन तु” इति पर्णकृच्छ्रमेकादशविधम्। अथतप्तकृच्छ्रं व्रतमाह
“तप्तक्षीरघृताम्बूनामेकैकं प्रत्य-हम्पिबेत्। एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः” या॰। दुग्धसर्पिसदकानान्तप्तानामेकैकम्प्रतिदिवसम्प्राश्यापरेद्युरु-पवसेदेवंदिवसचतुष्टयसम्पाद्यो महातप्तकृच्छ्रः। एभिरेवसमस्तैः सोपवासैर्द्विरात्रसम्पाद्यः सान्तपनवत्त-पकृच्छ्रः। मनुना तु द्वादशरात्रनिवर्त्योऽभिहितः
“तप्त-कृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान्। प्रतित्र्य-हम्पिबेदुष्णान् सकृत् स्नायी समाहितः” इति। क्षीरादि-परिमाणन्तु पराशरेणोक्तन्द्रष्टव्यम्
“अपाम्पिबेत्तु त्रि-[Page2175-a+ 38] पलं द्विपलन्तु पयः पिबेत्। पलमेकम्पिबेत्सर्पिस्त्रिरात्रंचोष्णमारुतमिति”। त्रिरात्रं चोष्णमारुतमिति त्रि-रात्रमास्यपूरणमुष्णोदकवाष्पं पिबेदित्यर्थः। यदातु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः
“त्र्यहं शीतंपिबेत्तोयन्त्र्यहं शीतं पयः पिबेत्। त्राहं शीतंघृतम्पीत्वा वायुभक्षः परन्त्र्यहमिति” यमस्मरणात्। इति तप्तकृच्छ्रश्चतुर्विधः। षादकृच्छ्रमाह
“एकभक्तेननक्तेन तथैवायाचितेन च। उपवासेन चैकेन पादकृच्छ्रःप्रकीर्त्तितः” या॰। एकभक्तेन सकृद्भोजनेन दिवैव, नक्ते-नेति पृथगुपादानात्। अतश्च दिवैव एकवारमेव भोज-नेनैवैकमहोरात्रमतिवाहयेदिति। तत्र दिवेति रात्रि-व्युदासः एकवारमिति द्विवारादिव्युदासः। भोज-नेनेत्यभोजनव्युदासः। एतच्च कृच्छ्रादीनां ब्रतरूपत्वात्पुरुषार्थभोजनपर्य्युदासेन कृच्छ्राङ्गभूतम्भोजनं विधीयते। तथा चापस्तम्बः
“त्र्यहमनक्ताश्यदिवाशी च ततस्त्र्य-हम्। त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किञ्चि-दिति”। अत्र चानक्ताशीत्यनेन व्रते विहितणिनिब्रत्ययेन नक्तपयुदासेन दिवाभोजननियमं दर्शयति। गौतमेनापीदमेव स्पष्टीकृतम्
“हविष्यान् प्रातराशान्भक्त्वा तिस्रो रात्रीर्नाश्नीयादिति”। एवं नक्तभोजनवि-धावपि। न विद्यते याचितं यस्मिन् भोजने तदयाचि-तम् तेन कालविशेषानुपानाद्दिवारात्रौ वा सकृदित्येवतपोरूपत्वात् कृच्छ्राणां, द्वितीयभोजने तदनुपपत्तेः। अयाचितमिति न केवलं परकीयान्नयाचनप्रतिषेधोऽ-पि तु स्वीयमपि परिचारकभार्य्यादिभ्यो न याचितव्यम्प्रेषणाध्येषणयोः साधारणत्वाद्याच्ञायाः। अतः स्वगृ-हेऽपि भृत्यभार्य्यादयोऽनाज्ञाप्ता एव यदि भोजनमुपह-रन्ति तर्हि भोक्तव्यं नान्यथा। अमुनैवाभिप्रायेणोक्त-ङ्गौतमेन
“अथापरत्र्यहं न कञ्चन याचेतेति”। अत्र चग्राससंख्यानियमः पराशरेण दर्शितः
“सायन्तु द्वाद-श ग्रासाः प्रातः पञ्चदश स्मृताः। चतुर्विंशतिरायाच्याःपरन्निरशनं स्मृतमिति”। आपस्तम्बेन त्वत्यथोक्तम्
“सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिः स्मृताः। चतु-र्विंशतिरायाच्याः परे निरशनायस्त्रः। कुक्कुटाण्डप्रमाणास्तु यथा वा संविशेन्मुखमिति”। अनयोश्चकल्पयोःशक्त्यपेक्षो विकल्पः। आपस्तम्बेन तु प्राजा-पत्यं चतुर्द्धा विभज्य चतुरः पादकृच्छ्रान् उक्त्व्य वर्णानु-रूपेण व्यवस्था कृता
“त्र्यह निरशनं पादः पादश्चाया-[Page2175-b+ 38] चितंत्र्यहम्। सायं त्र्यहन्तथा पादः प्रातः पादस्तथा-त्र्यहम्। प्रातः पादं चरेच्छूद्रः सायं वैश्ये तु दापयेत्। अ-याचितन्तु राजन्ये त्रिरात्रंब्राह्मणे स्मृतमिति”। यदातु याचितोपवासात्मकत्र्यहद्वयानुष्ठानं तदार्द्धकृच्छ्रः साय-व्यतिरिक्तापरत्र्यहत्रयानुष्ठानन्तु पादोनमिति विज्ञे-यम्
“सायंप्रातर्विनार्द्धः स्यात्पादोनं नक्तवर्जितमिति” तेनैवोक्तत्वात्। अर्द्धकृच्छ्रस्य प्रकारान्तरमपि तेनैव द-र्शितम्
“सायंप्रातस्तथैकैकन्दिनद्वयमयाचितम्। दिन-द्वयञ्च नाश्रीयात्कृच्छ्रार्द्धं तद्विधीयते” प्राजा-पत्यकृच्छ्रमाह
“यथा कथञ्चित्त्रिगुणः प्राजापत्योऽयमुच्यते” या॰। अयमेव पादकृच्छ्रः। यथाकथञ्चिद्दण्डक-लितवदावृत्त्या स्वस्थानविवृद्ध्या वा। तत्राप्यानुलोम्येनप्रातिलोम्येन वा। तथा वक्ष्यमाणजपादियुक्तं तद्रहितवा त्रिरभ्यस्तः प्राजापत्योऽभिधीयते। तत्र दण्डकलित-वदावृत्तिपक्षोवशिष्ठेन दर्शितः
“अहः प्रातरहर्न्नक्तमह-रकमयाचितम्। अहः पराकन्तत्रैकमेवञ्चतुरहोऽपरः। अनुग्रहार्थं विप्राणां मनुर्द्धर्मभृतां वरः। बालवृद्धातु-रेष्वेव शिशुकृच्छ्रमुवाच हेति”। आनुलोम्येन स्वस्थानविवृद्धिपक्षस्तु मनुना दर्शितः
“त्र्यहं प्रातः त्र्यहं-सायंत्र्यहमद्यादयाचितम्। त्र्यहम्परञ्च नाश्नीयात् प्रा-जापत्यं चरन् द्विजः” इति। प्रातिलोम्यावृत्तिस्तु वशि-ष्ठेन दर्शिता।
“प्रतिलोमञ्चरेत्पुष्ट कृच्छ्रं चान्द्रायणो-त्तरमिति”। जपादिरहितपक्षस्तु स्रीशूद्रादिविष-योऽङ्गिरसा दर्शितः
“तस्माच्छूद्रं समासाद्य सदा धर्मपथे स्थितम्। प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जित-मिति”। जपादियुक्तपक्षस्तु पारिशेष्याद्योग्यतया चत्रैवर्णिकविषयः स च गौतमेन दर्शितः।
“अथातःकृच्छ्रान् व्याख्यास्यामोहविष्यान् प्रातराशान् भुक्त्वा ति-स्रोरात्रीर्न्नाश्नीयादथापरन्त्य्रहं नक्तम्भुञ्जीताथापर-न्त्र्यहं न कञ्चन याचेताथापरन्त्र्यहमुपबसेत्तिष्ठेद-हनि रात्रावासीत क्षिप्रकामः सत्यंवदेदनार्यैर्नसम्भाषेत रौरवयौधाजपेन्नित्यं प्रयुञ्जीतानुसवनमुदको-पस्पर्शनमापोहिष्ठेति तिसृभिः पवित्रवतीभिर्मार्जयीतहिरण्यवर्णाः शुचियः पावका इत्यष्टाभिरथोदक-तर्पणं नमोहनाय नमोमोहनाय नमोधन्वने ताप-साय पुनर्वसवे नमः मौञ्ज्यायोर्म्याय वसुविन्दाय स-र्वविन्दाय नमः। पाराय सुपाराय महापाराय पार-टाय पारपाराय पारयिष्णवे नमः। रुद्राय प्रशुपतये म-[Page2176-a+ 38] हते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्व्वाया-घनाशायोग्राय वज्रिणे घृणिने कपर्दिने नमः। सूर्याया-दित्याय नमः। नीलग्रीवाय शितिकण्ठाय नमः। कृष्णा-यापिङ्गलाय नमः। ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय ह-रिकेशायोर्द्धरेतसे नमः। सत्याय पावकाय पावकवर्णायैकवर्णाय कामाय कामरूपिणे नमः। दीप्ताय दीप्तरूपि-णे नमः। तीक्ष्णाय तीक्ष्णरूपिणे नमः। सौम्याय सु-पुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्म-चारिणे नमः। चन्द्रललाटाय कृत्तिवाससे नमः इतिएतदेवोदित्योपस्थानमेता एवाज्याहुतयो द्वादशरा-त्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयाद-ग्नये स्वाहा। सोमाय स्वाहा। अग्नीषोमाभ्यामिन्द्रायविश्वेभ्यो देवेभ्यो व्रह्मणे प्रजापतयेऽग्नये स्विष्टकृतइति। अन्ते ब्राह्मणभोजनमिति”। तत्र
“तिष्ठेदहनि-रात्रावासीत क्षिप्रकामः” इत्यस्यायमर्थः यस्तु महतोऽप्ये-नसः क्षिप्रमेकेनैव कृच्छ्रेण मुच्ये यमित्येवं कामयते अ-सावहनि कर्माविरुद्धेषु कालेषु तिष्ठेद्रात्रावासीत। एवं रौरवयौधाजपसामजपौ नमोहनायेत्यादिभिस्तर्पणादित्योपस्थानादिकञ्चरुश्रपणादिकञ्च योगीश्वराद्य-नुक्तंक्षिप्रकामः कुर्वीत। अतश्च योगीश्वराद्युक्तपा-जापत्यद्वयस्थाने गौतमीयमनेकेतिकर्त्तव्यतासहित-न्द्रष्टव्यम्। एवमन्यन्यापि च स्मृत्यन्ततरतो विशेषा-न्तराण्यन्वेषणीयानि। अतिकृच्छ्रमाह
“अयमेवातिकृच्छ्रःस्वात्पाणिपूरान्नभोजनः” या॰। एतद्धर्मक एवएकभक्तादिप्राजापत्यधर्मयुक्तीऽतिकृच्छ्रःस्यात्। इयांस्तु विशेषः आद्ये त्र्यहत्रये पाणिपूरणमात्रमन्नंभु-ञ्जीत न पुनर्द्वाविंशतिग्रासान्। अत्र च प्राप्तभोजनानु-वादेन पाणिपूरान्नभोजनविधानादन्त्यत्र्यहेऽतिदेशप्राप्तउपवासोऽप्रतिपक्षएव। अत्रापि पादशो व्यवस्थापूर्वव-देव द्रष्टव्या। यत्तुमनुनोक्तम्
“एकैकं ग्रासमश्नीयात्त्र्य-हानि त्रीणि पूर्ववत्। त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रंच-रन् द्विजः” इति तत्पाणिपूरणपरिमितादल्पत्वाच्छक्तविष-यम्। छच्छ्रातिकृच्छ्रमाह
“कृच्छ्रातिकृच्छ्रः पयसा-दिवसानेकविंशतिम्” या॰ एकविंशतिरात्रं पयसा वर्त्तनंकृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम्। गौतमेन तु द्वादश-रात्रमुदकेन वर्त्तनं कृच्छ्रातिकृच्छ्रौक्तः
“अम्भक्षस्मृतीयःम कृच्छ्रातिकृच्छ्र” इति। अतश्च शक्त्यपेक्षयाऽनयोर्व्यवस्था। पराकमाह
“द्वादशाहोपवासेन पराकः परि-[Page2176-b+ 38] कीर्त्तितः” या॰ ऋज्वर्थोऽयमर्द्धश्लोकः। सौम्यकृच्छ्रमाह
“पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम्। एकरात्रो-पवासश्च कृच्छ्रः सौम्योऽयमुच्यते”। पिण्याकोनिःसृततैलस्तिलस्तस्यौदननिस्रावोदस्विदुदकसक्तूनाञ्च पञ्चानामेकैकंप्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपबसेदेवं सौम्याख्यः कृच्छ्रो-ऽभिधीयते। द्रव्यपरिमाणन्तु प्राणयात्रामात्रनिबन्धनम-धिगन्तव्यम्। जावालेन चतुरहव्यापी सौम्यकृच्छ्रौक्तः
“पिण्याकं सक्तवस्तक्रञ्चतुर्थेऽहन्यभोजनम्। वासोवैदक्षि-णां दद्यात्सौम्योऽयं कृच्छ्रौच्यत” इति। तुलापुरुषाख्यंकृच्छ्रमाह
“एषान्त्रिरात्रमभ्यासादेकैकस्य यथाविधि। तुलापुरुष इत्येष ज्ञेयः पाञ्चदशाहिकः” या॰
“एषां पि-ण्याकादीनाम्पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्च-दशाहव्यापी तुलापुरुषाख्यः कृच्छ्रोवेदितव्यः। अत्र पाञ्च-दशाहिकत्वविधानादुपवासस्य निवृत्तिः। यमेन त्वेक-विंशतिरात्रिकस्तुलापुरुषौक्तः
“आचाममथ पिण्याकंतक्रञ्चोदकसक्तुकान्। त्र्यहन्त्र्यहम्प्रयुञ्जानोवायुभक्षस्त्र्य-हद्वयम्। एकविंशतिरात्रस्तु तुलापुरुष उच्यते” इति। अत्र हारीताद्युक्तेतिकर्त्तव्यता ग्रन्थगौरवभयान्न लि-ख्यते” मिता॰। चान्द्रायणकृच्छ्रस्तु चान्द्रायणषब्दे व-क्ष्यते।

२ कष्टे दुःखे
“अमन्त्रयत कृच्छ्वञ्च तस्याः सर्वःसभाजनः” रामा॰।
“महत् खलु कृच्छ्रमनुभूतं तत्रभव-त्या” मालवा॰।

३ कष्टसाधने

४ कष्टयुक्ते च त्रि॰ अ-मरः
“इत्थञ्च देशाननुसञ्चरामः बनानि कृच्छ्राणि च कृ-च्छरूपाः” भा॰ व॰

३४ अ॰।
“कृच्छ्रां प्राप स आपदम्” रामा॰।

५ कष्टसाध्ये त्रि॰
“अमन्त्रयित्वा सचिवैः योऽ-र्थं कृच्छं नृपश्चरेत्” रामा॰।
“अतोऽत्यथा त्वसाध्यः स्यात्कृच्छ्रोऽयं मिश्रलक्षणः” सुश्रु॰।

६ प्रजापत्यव्रते
“विप्रद-ण्डोद्यमे कृच्छमतिकृच्छ्रं निपातने” मनुः।
“तांश्चारयित्वात्रीन् कृच्छ्रान् यथाविध्युपयनाययेत्” मनुः।
“एकवर्षेगवि हते कृच्छ्रपादोविधीयते। अबुद्धिपूर्बं पुंसः स्याद्-द्विपादस्तु द्विहायने। त्रिहायणे त्रिपादस्तु प्राजाप-त्यमतः परम्” प्रा॰ त॰ वृद्धप्रचेताः।
“चतुर्हायणादौप्राजापत्यविधानात् कृच्छ्रपदं प्राजापत्यपरम्” प्रा॰ त॰रघु॰।

७ पापे न॰ मेदि॰

८ मूत्रकृच्छ्ररोगे पु॰ राजनि॰कृच्छ्रं वेदयते सुखा॰ क्यङ् पापचिकीर्षायाम्। कृ-च्छ्रायते पापं चिकीर्षति। सुखा॰ अस्त्यर्थे वा मतुप् मस्यवः। कृच्छ्रवत् पक्षे इनि। किच्छ्रिन् तद्युक्ते त्रि॰
“सहकृच्छ्री बभूव” छा॰ उ॰। स्त्रियां ङीप्। असत्वपरत्वे-[Page2177-a+ 38] ततोहेतौ पञ्चमी कृच्छ्रान्मुक्तः सत्वपरत्वे तृतीयाकृच्छेण विषेणं मुक्तः। एतत्पञ्चम्या अलुक्स॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृच्छ्र¦ mfn. (-च्छ्रः-च्छ्रा-च्छ्रं)
1. Attended with pain, painful.
2. Wicked, [Page198-a+ 60] sinful. mn. (-च्छ्रः-च्छ्रं) Bodily pain. Penance, expiation.
3. Sin.
4. difficulty, labour, trouble.
5. A kind of religious penance, accord- ing to some, the same as the Prajapatya: see प्राजापत्य; (according to others, as the Santapana: (see सान्तपन।) E. कृत् to cut, रक् Unadi affix, and छ substituted for the final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृच्छ्र [kṛcchra], a. [cf. Uṇ2.21]

Causing trouble, painful; तथात्यजन्निमं देहं कृच्छ्राद् ग्राहाद्विमुच्यते Ms.6.78.

Bad, miserable, evil.

Wicked, sinful.

Being in a difficult or painful situation.

च्छ्रः, च्छ्रम् A difficulty, trouble, hardship, misery, calamity, danger; कृच्छ्रं महत्तीर्णः R.14.6;13.77.

Bodily mortification, penance, expiation; Ms.4.222;5.21;11.16.

Torment, torture.

A particular kind of religious penance (प्राजापत्य); कृच्छ्राणि चीर्त्वा च ततो यथ्क्तानि द्विजोत्तमैः Mb.13. 1.64. -च्छ्रः Ischury. -च्छ्रम् Sin. -च्छ्रम्, कृच्छ्रेत्, कृच्छ्रत् ind. With great difficulty, painfully, miserably; लब्धं कृच्छ्रेण रक्ष्यते H.1.163. -Comp. -अर्धः a. penance lasting for six days only. -कृत् a. Undergoing a penance; कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् Y.3. 327. -प्राण a.

one whose life is in danger.

breathing with difficulty.

hardly supporting life. -साध्यa.

curable with difficulty (as a patient or disease).

accomplished with difficulty. -सांतपनम् a kind of expiatory vow laid down in the स्मृतिs; गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ॥ Ms.11.212.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृच्छ्र mf( आ)n. (perhaps fr. कृश्, and connected with कष्ट) , causing trouble or pain , painful , attended with pain or labour MBh. R. Pan5cat. Sus3r.

कृच्छ्र mf( आ)n. being in a difficult or painful situation R. ii , 78 , 14

कृच्छ्र mf( आ)n. bad , evil , wicked W.

कृच्छ्र mn. difficulty , trouble , labour , hardship , calamity , pain , danger (often ifc. e.g. वन-वासक्, the difficulties of living in a forest ; मूत्र-क्See. ; अर्थ-कृच्छ्रेषु, in difficulties , in a miserable situation MBh. iii , 65 Nal. xv , 3 ; प्रा-णकृच्छ्र, danger of life MBh. ii , 6 BhP. ) RV. x , 52 , 4 Nir. AitBr. etc.

कृच्छ्र mn. ischury(= मूत्र-क्) L.

कृच्छ्र mn. bodily mortification , austerity , penance Gaut. Mn. etc.

कृच्छ्र mn. a particular kind of religious penance Mn. Ya1jn5.

कृच्छ्र m. N. of विष्णुMBh. xii , 12864

कृच्छ्र m. (in comp. with a perf. Pass. p. Pa1n2. 2-1 , 39 ; vi ; 3 , 2. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mode of atonement for sins and crimes; प्राजापत्य, a form of it. M. २२७. ४१-3, ५२. वा. १८. २१.

"https://sa.wiktionary.org/w/index.php?title=कृच्छ्र&oldid=428233" इत्यस्माद् प्रतिप्राप्तम्