कृतघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतघ्नः, त्रि, (कृतं येन केनचिज्जनेन उपकृतं हन्ति नाशयति यः । अहङ्कारादिप्रयुक्तया दुष्ट- बुद्ध्या उपकृतस्यानङ्गीकारकत्वात् तथात्वम् ।) कृतहन्ता । अर्थात् येन केनचित्कृतस्य उपकारा- देर्घातकः अस्वीकर्त्ता । नेमखाराम इति पारस्य भाषा ॥ (यथा, मनुः ४ । २१४ । “पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा । शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च” ॥) तस्य प्रायश्चित्ताभावो यथा, -- “ब्रह्मघ्ने च सुरापे च चौरे च गुरुतल्पगे । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः” ॥ स तु बहुविधो यथा, -- “भर्त्तृपिण्डापहर्त्ता च पितृपिण्डापहारकः । यस्माद्गृहीत्वा विद्याञ्च दक्षिणां न प्रयच्छति ॥ पुत्त्रान् स्त्रियश्च यो द्वेष्टि यश्च तान् घातयेन्नरः । कृतस्य दोषं वदति सकामान् न करोति यः ॥ न स्मरेच्च कृतं यस्तु आश्रमान् यस्तु दूषयेत् । सर्व्वांस्तानृषिभिः सार्द्धं कृतघ्नानब्रवीन्मनुः” ॥ इति प्रायश्चित्ततत्त्वे स्कन्दपुराणवचनम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं)
1. Ungrateful, not acknowledging former good offices.
2. Defeating or rendering vain all previous measures. E. कृत what has been done, घ्न killing, destroying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतघ्न/ कृत--घ्न mf( आ)n. " destroying past services or benefits " , unmindful of (services) rendered , ungrateful Mn. R. etc. BrahmaP. (sixteen kinds of ungrateful men are enumerated)

कृतघ्न/ कृत--घ्न mf( आ)n. defeating or rendering vain all previous measures W.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṚTAGHNA : See under Dhanaśarman.


_______________________________
*1st word in right half of page 430 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कृतघ्न&oldid=497038" इत्यस्माद् प्रतिप्राप्तम्